पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 1104, कुल 1267 में से
संदर्भ में पढ़ें[ अधि - ३. सू - ३. ] दीपिकासहितम्. १०५७
रह आपूर्यमाणपक्षम्' ( ) इति विशेषवच
नाच्च ॥ २ ॥
*
३. अधिकरणम् ॥
सू—ॐ ॥ तडितोऽधि वरुणस्सम्बन्धात् ॥ ॐ ॥ ३ ॥
( १ ) 'मासेभ्यस्संवत्सरं संवत्सराद्वरुणलोकं वरुणलो
कात्प्रजापतिलोकम् ' इति कौण्डिन्यश्रुतिः । ' संवत्स
रात्तडितमागच्छति तडितः प्रजापतिलोकम् ' इति च
गौपवनश्रुतिः ।
तिपादकत्वं सम्भवतीति नार्चिःप्राथम्यश्रुतेस्तद्विरोध इति सूत्रार्थः ।
तदनुसारेण सामान्यवचनत्वाद्विशेषवचनत्वादिति भाष्यार्थश्च द्रष्ट
व्यः । एवमस्मिन् पक्षे प्रतिज्ञाभाष्यस्यापि सामान्यश्रुतेरर्चिषोऽन
न्तरं वायुं गच्छतीत्यर्थ इत्युपस्कारेण व्याख्यानं द्रष्टव्यम् ॥ २ ॥
॥ इति वायुशब्दाधिकरणम् ॥
—:※:—
३. अधिकरणम् ॥
( १ ) अत्राधिकरणे तडिदभिमानिलोकस्य संवत्सराभिमानिलोकान्
न्तरप्राप्यत्वं समर्थ्यते । तत्र सन्देहबीजं श्रुतिविगानं दर्शयति-मासेभ्य
इति ॥ यद्यपि छान्दोगे 'संवत्सरादादित्यम्' ( ) इति आदि
त्यस्यापि संवत्सरानन्तर्यं श्रुतमस्ति । तथाऽपि अनुक्तित उक्तेर्बलवत्त्वा
त्कौण्डिन्यगौपवनश्रुतिद्वयबलात्संवत्सरात्पश्चादादित्यात्पूर्वं प्रजापतेः
प्राप्यत्वमविचारेणैव सिद्धमिति प्रजापतेः पूर्वं संवत्सरादनन्तरं वरु
णतडितोरुभयोरपि अधिकारिभेदेन प्राप्यत्वम्, उत संवत्सरानन्तर्यं
तडित एव, न वरुणस्य, तस्य तु तडिदानन्तर्यमिति विचार्यत इति
भावः । श्रुत्योर्माससंवत्सरतडिच्छब्दास्तत्तद्देवतालोकपराः । प्रजाप
तिशब्दः प्रजेश्वरपरो दक्षपरो वा बोध्यः । पूर्वश्रुतौ गच्छतीति शे
षः । कौण्डिन्यश्रुतिरित्यनन्तरं वरुणस्य संवत्सरादानन्तर्यं वक्तीति,
गौपवनश्रुतिरित्यनन्तरं तडितः संवत्सरादानन्तर्यं वक्तीति च शेषः ।
यत एवं श्रुतिद्वयविरोधः संशयबीजमस्ति अतः संशय इति भावः ॥
१३३