पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 1103, कुल 1267 में से
संदर्भ में पढ़ें१०५६ ब्रह्मसूत्रभाष्यम्. [अध्या - ४. पा - ३.]
२. अधिकरणम् ॥
( १ ) सू—ॐ ॥ वायुशब्दादविशेषविशेषाभ्याम् ॥ ॐ ॥ २ ॥
अर्चिषो वायुं गच्छति ' स वायुमागच्छति ' ( बृ.
७-१०-१.) इति सामान्यवचनात् ॥
( २ ) 'स इतो गतो द्वितीयां गतिं वायुमागच्छति वायोरह
२. अधिकरणम् ॥
( १ ) अत्राधिकरणे वायोर्द्वितीयप्राप्यत्वं समर्थ्यते । तत्र ' द्वावेव
मार्गौ' इति स्मृतेः समग्रमार्गस्यैकत्वेऽपि अर्चिःपूर्वपक्षयोर्मध्ये मार्गभे
दसम्भवात् । ' स वायुमागच्छति , अर्चिषोऽहः ' इति श्रुतिद्वयप्रामा
ण्याद्द्वाय्वह्लोरुभयोरधिकारिभेदेन द्वितीयप्राप्यत्वमिति पूर्वपक्षे सि
द्धान्तयतसूत्रमुपन्यस्यति—वायुशब्दादिति ॥ सूत्रेऽध्याहार्यप्रतिज्ञां
दर्शयति—अर्चिष इति । अनन्तरमिति शेषः । तथा चैकेनैव मार्गेण
ब्रह्म गच्छन् ज्ञानी तस्मिन् मार्गेऽर्चिषोऽनन्तरं वायुमेव गच्छति
न त्वहरित्यर्थः । कुत एतदित्यतोऽत्र हेतुतया प्रवृत्तं सूत्रं अविशेषवि
शेषाभ्यां वायुशब्दात् वायुश्रुतेरित्यन्वयमुपेत्य व्याचष्टे—स इति ।
सामान्येत्यविशेषपदव्याख्यानम् । 'वचनात् ' बृहदारण्यकश्रुतेः ।
' सः' उत्क्रान्तोऽपरोक्षज्ञानी अर्चिर्द्वारा 'वायुं ' प्रवाहाख्यमागच्छती
ति सिद्धान्ते श्रुत्यर्थः । सामान्यश्रुतेः द्वितीयप्राप्यतानिर्णायकत्वं तु
न्यायानुगृहीतत्वेन । न्यायस्तु टीकायामेव प्रदर्शितः ॥
( २ ) ननु श्रुतेः सामान्यवचनत्वादेव प्रथमप्राप्यप्रतिपादकत्वं
किं न स्यादित्याशङ्कायां न केवलमेवंन्यायानुगृहीतसामान्यश्रुत्या वा
योर्द्वितीयप्राप्यतासिद्धिः, येनोक्तदोषस्स्यात् । अपि तु विशेषश्रुतित
श्वेति भावेन प्रवृत्तं विशेषेत्यंशं व्याचष्टे--स इति ॥ 'सः' ज्ञानी
' इतः' शरीरात् 'गतः' उत्क्रान्त इत्यर्थः । यद्वा—' इतः' अर्चिषो
'गतः' तल्लोकान्निर्गत इत्यर्थः । द्वितीयां गतिमिति सामानाधिकर
ण्यं, 'गतिं ' प्राप्य अहरागच्छतीत्यन्वयः । एवमुत्तरत्रापि । 'विशेष
वचनात् ' विशेषश्रुतेः । चस्सामान्यश्रुतिसमुच्चये । स्पष्टस्सूत्रार्थः ।
अत्र टीकायां पूर्वाधिकरणगुणसूत्रत्वेनापीदं सूत्रं व्याख्यातं, तस्मिन्
पक्षे ' वायुशब्दात् ' वायोः द्वितीयप्राप्यत्वश्रुतेः सकाशाद्वायुशब्द
स्य वायोः प्राथम्येन प्राप्यत्वश्रुतेः 'अविशेषविशेषाभ्यां ' भावप्रधा
नोऽयं सामान्यविशेषभावाभ्यां निमित्ताभ्यां बाधो द्वितीयप्राप्यत्वप्र