सामग्री पर जाएँ
सर्वकोश
प्रियदर्शिका नाटिका (सम्राट हर्षवर्धन - चतुरङ्क शास्त्रीय नाटिका सान्वय सटीक)

प्रियदर्शिका नाटिका (सम्राट हर्षवर्धन - चतुरङ्क शास्त्रीय नाटिका सान्वय सटीक)

Priyadarshika Natika of Emperor Harsha with Commentary

सम्राट हर्षवर्धन द्वारा

DevanagariHindipublished184 पृष्ठ

पृष्ठ 65, कुल 184 में से

संदर्भ में पढ़ें
पृष्ठ 65

तृतीयोऽङ्कः । ३३
सा वासवदत्ता वीणाहस्तया काञ्चनमालयानुगम्यमाना गन्धर्वशालां
प्रविष्टा । यावदस्याः कथयामि । ( परिक्रामति । ).
( ततः प्रविशति गृहीतवासवदत्तानेपथ्यासन्नसंचारिणिका
वीणाहस्ता काञ्चनमाला च । )
आर०—हला काञ्चनमाले कस्मात्पुनश्चिरयत्यद्यापि वीणाचार्यः ।
( हला कञ्चणमाले कीस उण चिराअदि अज्ज वि वीणाआरिओ । ) —
काञ्च०—भर्तृदारिके दृष्टस्तेनैक.उन्मत्तः । तस्य वचनं श्रुत्वा
चित्रेण भावितोऽपहसंस्तिष्ठति । ( भट्टिदारिए दिट्ठो देण एक्को उम्मत्तो । तस्स
वअणं सुणिअ चित्तेण भाविदो ओहसन्तो चिट्ठइ । )
आर०—( सहस्ततालं विहस्य । ) हञ्जे सुष्ठ्वेतं पृच्छति । सदृशाः
सदृशे रमन्त इति द्वावप्युन्मत्तौ । ( हञ्जे सुट्ठ एदं पुच्छदि । सरिसा सरिसे
रमन्तित्ति दुवे एत्थ उम्मत्ता । )
सांकृत्यायनी—राजपुत्र्याः सदृशमाकारं पश्याम्यस्यास्तादृशेना-
कारेणावश्यं त्वदीयां भूमिकां संभावयिष्यति ।
कञ्चुकी—( उपसृत्य । ) राजपुत्रि देवस्त्वामाज्ञापयति । 'श्वोऽव-
श्यमस्माभिर्वीणां वादयन्ती श्रोतव्या । तत्तवया नवतन्त्रीसज्जया
घोषवत्या स्थेयमिति ।
आर०—आर्य यद्येवं लघु वीणाचार्यं विसर्जय । ( अय्य जइ एवं लहु
वीणाआरिअं विसज्जेहि ।
कञ्चुकी—एष वत्सराजं प्रेषयामि । ( इति निष्क्रान्तः । )
आर०—काञ्चनमाले उपनय मे घोषवतीं यावदस्यास्तन्त्रीः परीक्षे ।
( कञ्चणमाले उवणेहि मे घोसवदीं जाव से तंतीओ परिक्खेमि । )
( काञ्चनमाला वीणामर्पयति । आरण्यिकोत्सङ्गे वीणां कृत्वा सारयति । )
( ततः प्रविशति गृहीतवत्सराजनेपध्या मनोरमा । )
वासवदत्तात्र वासवदत्तावेषधारिणी आरण्यिका ज्ञेया । गंधर्वशाला प्रेक्षागृहम् । चित्रेण
भावितो विस्मयहृतचित्तः । सहस्ततालं हस्तौ प्रताड्य । सदृशाः सदृशे इ०-सर्वैः समत्वेषु
विधाविति । द्वावप्यप्रारम्भकौ । इति समानार्थं वचनं शकुन्तले । तादृशेन राजपुत्र्युचितेन ।
घोषवत्या वीणया सहितया । लघु शीघ्रम् । रामदत्तापरयो राजा रुक्मणोवस्थायाइ-
१ चिरयतेद्य. २ सुणिअ तेण भाविट्ठओ हसन्तो ( भावितात्थों इसन् ). ३ संहृष्टह-
स्तेन ( भणीअहि ) - रज्जन्तीति. ४ राजपुत्रि तादृशमाका०. :