प्रियदर्शिका नाटिका (सम्राट हर्षवर्धन - चतुरङ्क शास्त्रीय नाटिका सान्वय सटीक)
Priyadarshika Natika of Emperor Harsha with Commentary
सम्राट हर्षवर्धन द्वारा
पृष्ठ 63, कुल 184 में से
संदर्भ में पढ़ेंतृतीयोऽङ्कः । ३१
मनोरमारण्यिके— ( उपसृत्य । ) जयतु जयतु भट्टिनी । ( जेदु जेदु
भट्ठिणी । )
वासवदत्ता—मनोरमे अतिक्रान्ता खलु संध्या । तद्गच्छतम् ।
लघु गृहीतं नेपथ्यम् । ( मंणोरमे अदिकन्दा क्खु संझा ता गच्छह । लहु
गच्छह नेवच्छं । )
उभे—यद्देव्याज्ञापयति । ( इति प्रस्थिते । ) ( जं देवी आणवेदि । ) —
वासवदत्ता—आरण्यिके एतैरेव मदङ्गपिन्दिमैराभरणैर्नेपथ्यभूमिं
गत्वात्मानं प्रसाधय । ( आभरणान्यङ्गादवतार्यारण्यिकायाः समर्पयति¹ ) मनोरमे
त्वमपि नलगिरिग्रहणपरितुष्टेन तातेनार्यपुत्रस्य दत्तान्याभरणा-
न्दीवरिकासकाशाद्गृहीत्वा नेपथ्यभूमिं गत्वात्मानं मण्डय येन सुसदृशी
दृश्यसे महाराजस्य । ( आरणिणए एदेहिं एव्व मदङ्गपिण्देहिं आभरणेहिं णेव-
च्छभूमिं गदुअ अप्पाणं पसाधेहि । मणोरमे तुमं वि णलगिरिग्गाहणपरितुट्ठेण तादेण
अज्जउत्तस्स दिण्णाई आभरणाई इन्दीवरिआसआसादो गेण्हिअ णेवच्छभूमिं गदुअ
अप्पाणं मण्डेहि जेण सुसदिसि दीससि महाराअस्स । )
( मनोरमा इन्दीवरिकासकाशादाभरणानि गृहीत्वा सहारण्यिकया निष्क्रान्ता । )
इन्दीवरिका—इदमासनम् । उपविशतु भट्टिनी । ( ऐदं² आसणं ।
उवविसदु भट्ठिणी । )
वासवदत्ता—( आसनं निर्दिश्य । ) उपविशतु भगवती । ( उवविसदु
भगवदी । ) ( उभे उपविष्टे³ । )
( ततः प्रविशति गृहीतनेपथ्यः कञ्चुकी । )
कञ्चुकी—
अन्तःपुराणां विहितव्यवस्थः
पदे पदेऽहं स्खलितानि रक्षन् ।
मदङ्गपिन्दिमैरङ्गै मदैः । धारितैरित्यर्थः । प्रसाधय मण्डय । नलगिरिर्नाम इन्द्रदत्तः
प्रद्योतस्य गजः तस्य आलानमुन्माथ्य प्रद्रुतस्य ग्रहणं तेन परितुष्टनेन । अन्तः-
पुराणामिति । अन्तःपुराणामवरोधस्त्रीणां विहिता व्यवस्था व्यवस्थापनं येन सः । पदे
पदे प्रतिपदं स्खलितानि प्रमादान् रक्षन् परिहरन् । राजदारान् प्रमादेभ्यो रक्षन्नित्यर्थः ।
संप्रति जरातुरा दण्डनीत्या दण्डेन नीतिस्तमवलम्ब्य गमनं तेन वृद्धस्य सर्वचरितमनुकरामि
विडम्बयामि । नृपो पुराणामन्तःप्रजानां स्थितित्पालनादिरूपां व्यवस्थां करोति । प्रजाः
१ एतन्नास्ति पुस्तकान्तरे. २ इदं. ३ आसनग्रहणं नाटयतः.