प्रियदर्शिका नाटिका (सम्राट हर्षवर्धन - चतुरङ्क शास्त्रीय नाटिका सान्वय सटीक)
Priyadarshika Natika of Emperor Harsha with Commentary
सम्राट हर्षवर्धन द्वारा
पृष्ठ 60, कुल 184 में से
संदर्भ में पढ़ें३८ प्रियदर्शिकाया
शरीरस्य प्रियवयस्यस्य वचनेन देव्योर्वासवदत्तापद्मावत्योरन्यासां च देवीनां
भवनान्यन्विष्यता न सा दृष्टा तदो यत्र दीर्घिकायां दृष्टेदमपि तावत्प्रेक्षिष्य
इत्यागतोऽस्मि । तथापदिहापि नास्ति । किमिदानीं करिष्ये । [१अह्म दाव
मए शुष्ठुमअगसदाक्वणोमिसरीरस्स पिअवअस्सस्स वअणेण देवीण वासवदत्तापदुमाव-
दीण अण्णाणं अ देवीणं भवणाई अण्णेसन्तेण ण सा दिद्वा तदा जहिं दिघिआए दिष्ठ इदं
वि दाव पेक्खिस्सं ति आअदोम्हि । ता जाव इह वि णत्थि । किं दाणिं करिस्सं ।)
मनोरमा—श्रुतं प्रियसख्या । (२दुर विअवहीए ।)
विदूषकः—(विचिन्त्य ।) अथवा भणित एवाहं वयस्येन । यदि
तामन्विष्यन्न प्रेक्षसे तत्ततोऽपि तावद्दीर्घिकातस्तस्याः करतलस्पर्शद्विगुणि-
तसुखशीतलानि नलिनीपत्राणि गृहीत्वागच्छेति । तत्कथमेतानि ज्ञातव्यानि ।
(अहवा भणिदो एव्व अहं वअस्सेण । जइ तं अण्णेसन्तो ण पेक्खसि ता तदो वि
दाव दिघिआदो ताए करअलप्फरिसद्विगुणिअसुहसीअलाई णलिणीपत्ताई गेह्निअ
आअच्छति । ता कहं एदाई जाणिदव्वाई ।)
मनोरमा—अयं ममावसरः । (उपसृत्य विदूषकं हस्ते गृहीत्वा ।) वस-
न्तक एहि । अहं ते ज्ञापयामि । (अअं मे अवसरो । वसन्तअ एहि ।
अहं दे जाणवेमि ।)
विदूषकः—(सभयम् ।) कस्य त्वं ज्ञापयसि । किं देव्याः । न
खलु मया किमपि मन्त्रितम् । (कस्स तुमं जाणवेसि । किं देवीए । ण हु मए
किं वि मन्तिदं ।)
मनोरमा—वसन्तक अलं शङ्कया । यादृश्यारण्यिकायाः कृत्त
आत्मनः प्रियवयस्यस्यावस्था त्वया वर्णिता ततोद्विगुणतरा भर्तुरवि कृते
मम प्रियसख्या अवस्था । तत्पश्य पश्य । (उपत्त्यारम्भिका दर्शयति ।)
(वसन्तअ अलं सकाए । आदिसो आरणिआए किदे अत्तणो पिअवअस्सस्स अवस्था
तुए वण्णिदा तदो दिउणदरा भट्टिणो वि किदे मम पिअसहीए अवस्था । ता
पेक्ख पेक्ख ।)
निस्सहं दुर्बलं शरीरं यस्य तस्य । अस्वस्थवचनेन इति पाठे पर्याकुलवचनेन अस्वस्थ
इति वचनेन वा । इदमपि दीर्घिकास्थानमपि । तस्याः करतलस्य स्पर्शेन द्विगुणि-
तसुखानि च तानि शीतलानि च ।
१ असरह० २ देव्या वासवदत्ताया प्रेमावस्था च तदा यत्र दीर्घिकायां दृष्टा
इति नाहि क०, ४ अन्वेषयन्, ५ स्पर्शसुख ६ ०दर उण ( ०तरं पुन ),