प्रियदर्शिका नाटिका (सम्राट हर्षवर्धन - चतुरङ्क शास्त्रीय नाटिका सान्वय सटीक)
Priyadarshika Natika of Emperor Harsha with Commentary
सम्राट हर्षवर्धन द्वारा
पृष्ठ 43, कुल 184 में से
संदर्भ में पढ़ेंद्वितीयोऽङ्कः । ११
छायाचक्रं तरूणां हरिणशिशुरुपैत्यालवालाम्बुलुब्धः
सद्यस्त्यक्त्वा कपोलं विशति मधुकरः कर्णपालीं गजस्य ॥१२॥
रुमण्वन् । उत्तिष्ठोत्तिष्ठ । प्रविश्याभ्यन्तरमेव वृत्तयथोचितक्रियाः सत्कृत्य
विनयसेनेन कलिङ्गोच्छित्तये प्रेषयामः ।
( इति निष्क्रान्ताः सर्वे । )
इति प्रथमोऽङ्कः ॥
॥ द्वितीयोऽङ्कः ॥
( ततः प्रविशति विदूषकः । )
विदूषकः—ननु भणितोऽस्मीन्दीवरिकया यथा-आर्य उपवासनियम-
स्थिता देवी वासवदत्ता स्वस्तिवाचननिमित्तं शब्दयैतेति । तद्यावद्धारा-
गृहोद्यानदीर्घिकायां स्नात्वा देवीपार्श्वं गत्वा कुक्कुटवादं करिष्यामि ।
अन्यथा कथमस्माभिः सदृशा ब्राह्मणा राजकुले प्रतिग्रहं कुर्वन्ति ।
( नेपथ्याभिमुखमवलोक्य ) कथमेष प्रियवयस्योऽद्य देव्या विरहोत्कण्ठाविनो-
दननिमित्तं धारागृहोद्यानमेव प्रस्थितः । तद्यावद्वयस्येन सहैव गत्वा यथो-
दितमनुष्ठास्यामि । ( णं भणिदोम्हि इन्दीवरिआए जह अज्ज उववासाणियमट्ठिदा
देवी वासवदत्ता सोत्थिवाअणणिमित्तं सद्दावेदिति । ता जाव धाराघरउज्जाणदीर्धिआए
ण्हाइअ देवीपासं गदुअ कुक्कुटवादं करिस्सं । अण्णहा कहं अह्राणं सरिसा बह्मणा
राअकुले पडिग्गहं करेन्ति । कहं एसो पिववयस्सो अज्ज देवीए विरहुक्कण्ठाविणोअणा-
णिमित्तं धाराघरउज्जाणं एव्व पट्टिदो । ता जाव वअस्सेण सह एव्व गदुअ जहोद्दिदं
अणुचिट्ठिस्सं । )
छत्राभावातपनकरं तनोति विस्तारयति । हरिणशिशुः आ समन्तात् लमान् जलस्रवान्
आलतीत्यालवालम् । तस्मिन् यदम्बु तत्र लुब्धः सन् तरूणां छायाचक्रमुपैति ।
मधुकरश्च गजस्य कपोलं सद्यः त्यक्त्वा कर्णपालीं श्रोत्रपुटं विशति । छायार्थ-
मित्यर्थः । स्वभावोक्तिः । स्रग्धरा वृत्तम् ॥ १२ ॥
ततः प्रविशतीति । स्वस्तिवाचनं स्वस्तिवाचनार्थं मन्त्रेणायनम् । शब्दायेत
आह्वयेदित्यर्थः । कुक्कुटवादं दम्भार्थं वेदमन्त्रानपि उच्चैः पठनम् । कुक्कुटोन्नतवादः
स्यात् इति मेदिनी । उत्कण्ठा अभिलाषपूर्वा स्मृतिः । सर्वेन्द्रियसुखास्वादे यत्रास्तीत्या-
भिसम्बते । तत्प्राप्तीच्छां ससङ्कल्पा मुद्कण्ठां कवयो विदुः ॥ इति तल्लक्षणम् । तस्या विनोद-
नमरण्यनम् । धारागृहं धारायन्त्रोपेतं गृहं धारागृहं धारागृहयुक्तमुद्यानं धारागृहोद्यानम् ।
१ वृत्ततयोचित ०, २ शब्दापयेत्, ३ यथोदितं ( जहोद्दिदं.)