प्रियदर्शिका नाटिका (सम्राट हर्षवर्धन - चतुरङ्क शास्त्रीय नाटिका सान्वय सटीक)

प्रियदर्शिका नाटिका (सम्राट हर्षवर्धन - चतुरङ्क शास्त्रीय नाटिका सान्वय सटीक)
Priyadarshika Natika of Emperor Harsha with Commentary
सम्राट हर्षवर्धन द्वारा
DevanagariHindipublished184 पृष्ठ
पृष्ठ 42, कुल 184 में से
संदर्भ में पढ़ेंपृष्ठ 42
राजा—यशोधरे गच्छ । त्वमेव वासवदत्तायाः समर्पय । वक्तव्या
च देवी । भगिनीबुद्ध्या त्वयैव सर्वदा द्रष्टव्या । गीतनृत्तवाद्यादिषु
विशिष्टकन्यकोचितं सर्वं शिक्षयितव्या । यदा वरयोग्या भविष्यति
तदा मां स्मारयेति ।
प्रतीहारी—यद्देव आज्ञापयति । (जं देवो आणवेदि ।) (इति निष्क्रान्ता ।)
( नेपथ्ये वैतालिकः । )
लीलामज्जनमङ्गलोपकरणस्नानीयसम्पादिनः
सर्वान्तःपुरवारविभ्रमवतीलोकस्य ते संप्रति ।
आयासस्खलदंशुकव्यवहितच्छायावदातैः स्तनै-
रुत्क्षिप्तापरशातकुम्भकलशैवालङ्कृता स्नानभूः ॥ ११ ॥
राजा—( ऊर्ध्वमवलोक्य । ) अये कथं नभोमध्यमध्यास्ते भगवा-
न्सहस्रदीधितिः । संप्रति हि ।
आभात्यर्कांशुतापकथदिव शफरोद्वर्तनैर्दीर्घिकाम्भ-
श्