प्रियदर्शिका नाटिका (सम्राट हर्षवर्धन - चतुरङ्क शास्त्रीय नाटिका सान्वय सटीक)

प्रियदर्शिका नाटिका (सम्राट हर्षवर्धन - चतुरङ्क शास्त्रीय नाटिका सान्वय सटीक)
Priyadarshika Natika of Emperor Harsha with Commentary
सम्राट हर्षवर्धन द्वारा
DevanagariHindipublished184 पृष्ठ
पृष्ठ 40, कुल 184 में से
संदर्भ में पढ़ेंपृष्ठ 40
९ प्रियदर्शिकायां
( विजयसेन उपविशति । )
राजा—विजयसेन कथय विन्ध्यकेतोर्वृत्तान्तम् ।
विजयसेनः—देव किमपरं कथयामि । यादृशः स्वामिनि कुपिते ।
राजा—तथापि विस्तरतः श्रोतुमिच्छामि ।
विजयसेनः—देव श्रूयताम् । इतो वयं देवपादादेशाद्यथादिष्टेन
करितुरगपदातिसैन्येन महान्तमप्यध्वानं दिवसत्रयेणोल्लङ्घ्य प्रभातवेला-
यामतर्किता एव विन्ध्यकेतोरुपरि निपतिताः स्मः ।
राजा—ततस्ततः ।
विजयसेनः—ततः सोऽप्यस्मद्बलतुमुलकलकलावकर्णनेन प्रतिबुद्धः
केसरीव विन्ध्यकन्दरान्निर्गत्य विन्ध्यकेतुरनपेक्षितबलवाहनो यथासंनि-
हितकतिपयसहायः सहसा स्वनामोद्घोषयन्नस्मानभियोद्धुं प्रवृत्तः ।
राजा—(हर्षमन्तर्गतमवलोक्य सस्मितम् ।) शोभितं विन्