प्रियदर्शिका नाटिका (सम्राट हर्षवर्धन - चतुरङ्क शास्त्रीय नाटिका सान्वय सटीक)
Priyadarshika Natika of Emperor Harsha with Commentary
सम्राट हर्षवर्धन द्वारा
पृष्ठ 39, कुल 184 में से
संदर्भ में पढ़ें; प्रथमोऽङ्कः । ७
तत्कस्मात्त्वं दृढवर्मा बद्ध इति कलिङ्गराजस्योपरि रोषं बध्नासि ।
( भो । जइ दाण धम्मव्वणं सुहणिवन्धणं होइ ता कीस तुमं दिढवम्मा बद्वोत्ति
कलिङ्गरणो उवरि रोसं बन्धेसि । )
राजा—( विहस्य । ) धिङ्मूर्ख । न खलु सर्वो वत्सराजो य एवं
वासवदत्तामवाप्य बन्धनान्निर्यास्यति । तदास्तां तावदियं कथा । विन्ध्य-
केतोरुपरि बहून्यहानि विनयसेनस्य प्रेषितस्य । न चाद्यापि तत्सकाशा-
त्कश्चिदागतः । तदाहूयतां तावदमात्यो रुमण्वान् । तेन सह किंचि-
दाल्पितुमिच्छामि ।
( प्रविश्य । )
प्रतीहारी—जयतु जयतु देवः । एष खलु विनयसेनोऽमात्यो रुम-
ण्वानपि प्रतीहारभूमिमुपस्थितौ । ( जेदु जेदु देव्वो । एसो क्खु विजयसेणो
अमच्चो रुमण्वो वि पडिहारभूमिं उवट्ठिदो । )
राजा—त्वरितं प्रवेशय तौ ।
प्रतीहारी—यद्देव आज्ञापयति । (जं देवो आणवेदि ।) (इतिनिष्क्रान्ता ।)
( ततः प्रविशति रुमण्वान्विजयसेनश्च )
रुमण्वान्—( विचिन्त्य । )
तत्क्षणमपि निष्क्रान्ताः कृतदोषा इव विनापि दोषेण ।
प्रविशन्ति शङ्कमाना राजकुलं प्रायशो भृत्याः ॥ ८ ॥
( उपसृत्य । ) जयतु देवः ।
राजा—( आसनं निर्दिश्य । ) रुमण्वन् । इत आस्यताम् ।
रुमण्वान्—( सस्मितमुपविश्य । ) एष खलु जितविन्ध्यकेतुर्विजयसेनः
प्रणमति ।
( विजयसेनस्तथा करोति । )
राजा—( सादरं परिष्वज्य । ) अपि कुशली भवान् ।
विजयसेनः—अद्य स्वामिनः प्रसादात् ।
राजा—विनयसेन उपविश्यताम् ।
सुखनिवन्धनं सुप्रहृष्टं । तत्क्षणमिति । भृत्या राजसेवकाः तत्क्षणं तस्मिन्नेव क्षणे
नृपतिसकाशान्निष्क्रान्ता निर्गता अपि दोषेण विनापि कृतदोषाः कृतापराधा इव शङ्कमाना
सभयाः राजकुलं प्रविशन्ति । स्वगतोक्तिः । आर्या छन्दः ॥ ८ ॥
१ उद्वहसि (उच्छहसि). २ दिवसानि ३ आहूयताम०. ४ विन्ध्यकेतोर्विजेता. ५ स्थीयताम्