सामग्री पर जाएँ
सर्वकोश
पृथ्वीराजविजय महाकाव्यम् (कवि जयानक - अजमेर चौहान साम्राज्य एवं सम्राट् पृथ्वीराज इतिहास)

पृथ्वीराजविजय महाकाव्यम् (कवि जयानक - अजमेर चौहान साम्राज्य एवं सम्राट् पृथ्वीराज इतिहास)

Prithvirajavijaya Mahakavya of Jayanaka with Commentary

कश्मीरी कवि जयानक (टीकाकार: जोनरराज) द्वारा

DevanagariHindipublished330 पृष्ठ

पृष्ठ 83, कुल 330 में से

संदर्भ में पढ़ें
पृष्ठ 83

, तृतीयः सर्गः . ६३
वक्तुमशक्यं दार्ढ्यगुणं भूर्लेभे मूषका भू(l.5)र्मिं न खनितवन्तः अत
इव विच्छिद्रां भूमिमापदां गणा नैवाच्छादयन् ॥ 19.
शुकवाहने सतततृप्तिमंये(l.6)
न दधुश्शुकाः क्वचन शालिभयम् •
ऋतुधूमतो दिशि दिशि प्रसृता-
दुपलोभिरे न विषयं शलभाः ॥(l.7)
शुका वह्निवाहा इत्यागमः . शुकवाहनेनले नित्यतृप्ते इवं शुकाश्शाली-
नां भयं न दत्तवन्तः . तेषां पावकतृतौ(l.8) सत्यां तृप्तत्वात् . सर्वदिक्षु वि-
सारिणो यज्ञधूमाद्धेतोरिवं शलभा आश्रयं न लब्धवन्तः ॥ 20,
न निवेशितैर्गि(l.9)रिगुहासु तथा
न तथा पुरं पितृपतेः प्रहितैः •
चरणाग्रगैर्नृपतिभिर्नृपति-
स्स यथा प्रजास्सुख(l.10)वतीरकरोत् ॥
प्रणामितै राजभिस्स राजा प्रजास्सुखिता यथाकरोत्थाद्रिगुहासु प्र-
वेशितैः(l.11) तैर्नाकरोत्था न च यमपुरं विसृष्टै राजभिरकरोत् . पलायितानां
पुनरुदयाशङ्कया मारितानां(l.12) ये मुक्तास्तेषामुदयाशङ्कयेति भावः॥ 21.
उपयोगवान्यदि रणार्थमभू-
त्स्वयमेव सन्मखमहीष्व(l.13)वसत् •
भुजयोर्बलाद्भयदानपतिं
दनुजागमे तमनयन्मघवा ॥
इन्द्रो वासुदेवस्य रणार्थमुपयोगी(l.14) यद्यासीत्तदा इन्द्रस्तदीययज्ञ-
1 Ms. °तिभये. 2 Ms. इव lc. under l. 7. 3 Ms. °रिव lc. under l. 8.
4 Ms. °गुहसु.