पृथ्वीराजविजय महाकाव्यम् (कवि जयानक - अजमेर चौहान साम्राज्य एवं सम्राट् पृथ्वीराज इतिहास)
Prithvirajavijaya Mahakavya of Jayanaka with Commentary
कश्मीरी कवि जयानक (टीकाकार: जोनरराज) द्वारा
पृष्ठ 59, कुल 330 में से
संदर्भ में पढ़ें, द्वितीयः सर्गः. ३६
कलिन्दकन्यासलिलानुजन्मना'
स्वकीर्त्तिग(l.18)ङ्गासहवासिनासिना ॥
कर्मारं शाणं. प्राप्तशाणाघर्षणेनेत्यर्थः यमुनायाः यामुनजन्मनां सोद-
रेण स(l.19)················गङ्गया सहवांसि[ना खड्गे]न भ्राज-
मानः ॥ २७.
न चक्रमेकं भवति प्रयो(l.20)◡-- २८.
Lines 21 to end of page missing; last 3 letters of line 21 are
मकरे
रीं समर्पिताम् ॥
सूर्येण दत्तां मालां कण्ठे धारयन्. अत्र संभाव्यते हरस्य तृतीयनेत्रं
विशतः कामस्य(l.1) हस्तस्रस्तां धनुर्लतां हरस्य दक्षिणनेत्रस्थेनार्केण हरस्य
सकाशात्प्राप्तामद्य सूर्येण दत्तां ॥ २९.
द्वितीय(l.2)वैवस्वतवद्विरोधिनां
हठात्पदं मूर्ध्नि विधातुमुद्यतः .
विनीलगुल्फाभरणांशुमण्डल-
च्छलेन पादौ(l.3) दधदायसाविव ॥
द्वितीयो यम इव शत्रूणां शिरसि बलाच्चरणं क्षेतुं प्रवृत्तो नीलानां
गु(l.4)ल्फाभरणानामंशुराशिव्याजेन लोहमयौ पादाविव दधत्. यमो हि
लोहमयपादः ॥ ३०.
स(l.5)पक्षपातं दिनपत्यपत्यमि-
त्यशेषभूमण्डलवन्द्यताकृते .
चकासदङ्गुष्ठनखप्रभामिर्षा-
त्स्थितेन स(l.6)न्ध्याद्वितयेन पादयोः ॥
1 Ms. कन्दारं. 2 Is it यामुनानुजन्मना ? 3 Ms. स्पहवानि°. 4 Ms. ॰निभा°,