सामग्री पर जाएँ
सर्वकोश
पृथ्वीराजविजय महाकाव्यम् (कवि जयानक - अजमेर चौहान साम्राज्य एवं सम्राट् पृथ्वीराज इतिहास)

पृथ्वीराजविजय महाकाव्यम् (कवि जयानक - अजमेर चौहान साम्राज्य एवं सम्राट् पृथ्वीराज इतिहास)

Prithvirajavijaya Mahakavya of Jayanaka with Commentary

कश्मीरी कवि जयानक (टीकाकार: जोनरराज) द्वारा

DevanagariHindipublished330 पृष्ठ

पृष्ठ 251, कुल 330 में से

संदर्भ में पढ़ें
पृष्ठ 251

२३४ पृथ्वीराजविजयमहाकाव्यम्.
युंधि कश्शरीरनिरपेक्षतां(l. 6) विना
प्रविशेदुपेक्षिततनोश्च किं धनैः .
इति यो दधात्यखिलदातृतामयं
स्फुटमेक एव(l. 7) पुरुषार्थलक्षणम् ॥
देहनिरपेक्ष एव युधि प्रविशन्ति . युद्धे जयपराजययोरनिश्च(l. 8)यात् .
शरीरनिरपेक्षस्य धनैः किम् . शरीरोपयोगित्वादेव तेषामिति भावः . इत्यतो
हेतोर्योशेष(l. 9)दातृत्वमयमेव पुरुषार्थं दधाति ॥ ७१.
यदि न प्रदक्षिणामिषेण रक्षको
प्रभविष्यतो शशिरवी द्व(l. 10)योर्दिशोः .
विदलय्य तद्विरचयिष्यदेव यः
कनकाचलं सकलमेव पात्रसात् ॥
दक्षिण(l. 11)पार्श्वप्रक्रमणव्याजेन चन्द्रार्कौ मेरुसम्बन्धिन्योर्द्वयोर्दि-
शोः पार्श्वयो रक्षकौ यदि न स्यातां तत्स मे(l. 12)रुं शकलीकृत्य पात्राधीनं
कुर्यात् ॥ ७२.
न स रोहणस्य मणिरस्ति रक्षितुं
भुवनैकमल्लभय(l. 13)मस्य यः क्षमः .
द्विजवत्सलात्पुनरतो वदान्यतः
परिरक्षिता कलशनन्दनो मुनिः ॥
तस्मा(l. 14)द्दातुर्यो रोहणं रक्षितुं शक्तस्स कोपि मणिरस्याद्रेर्नास्ति
अगस्त्यस्तु ब्राह्मणप्रियाद्दातु(l. 15)स्तस्माद्रक्षिताभूत् . अयं भावः . यद्यहं
रोहणाद्रत्नान्यानेतुं गच्छामि तदागस्त्यब्राह्मणो द(l. 16)क्षिणदेशे निवसं-
ल्लोभात्क्षोभं करिष्यति अतो भुवनैकमल्लो रत्नाहरणार्थ नागच्छत् ॥ ७३.
1 Ms. ॰अधि. 2 Ms. ॰निभेन. 3 Ms. ॰काः. 4 Ms. पार्श्व॰. 5 Doublet of वदान्य.
Cf. p. 120, note 4; (V. 88).