पृथ्वीराजविजय महाकाव्यम् (कवि जयानक - अजमेर चौहान साम्राज्य एवं सम्राट् पृथ्वीराज इतिहास)
Prithvirajavijaya Mahakavya of Jayanaka with Commentary
कश्मीरी कवि जयानक (टीकाकार: जोनरराज) द्वारा
पृष्ठ 250, कुल 330 में से
संदर्भ में पढ़ेंउपगम्य ¹दिव्यतनुतां कराङ्गुली-
दश(l.18)कद्वयेन वसुधां बभार यः ॥
तं रावणं हत्वा कुलपर्वतादीन्विस्मृतभूधारणाभ्यासा(l.19)न्निश्चित्येव
दिव्यतनुतां चतुर्भुजत्वं प्राप्याङ्गुलीविंशकेन यो भुवमवहत् ॥ ६७.
स पुनर्मद(l.20)ग्रजसुतासुतो भव-
न्द्विभुजोपि रक्षति चराचरं जगत् •
इति वार्तया कृतकुतूहलः क्रमा²(l.21)-
द्भुवनैकमल्ल इति बन्धुराययौ ॥
स नारायणो मद्भ्रातृपुत्रीपुत्रो भवन्द्विभुज एव सम(l.22)स्तं विश्वं
धारयंतीति श्रुत्वा कौतुकी भुवनैकमल्लनामा बन्धुः पृथ्वीराजमागतः ॥ 68.
निव(l.23)[सन्ति] शक्रदिशि कल्पशाखिनो
मणयो यथेप्सितफलाश्च रोहणे .
शि⁴तिकण्ठवा(l.24**⁶⁵)हनवृषानुरागिणी
सुरभिः प[वित्रयति चोत्तरां दिशम् ] ॥
・・・・・・・・・・दक्षिणादिक्स्थिते रोहणे रत्नानि कांक्षितफलप्र-
दानि सन्ति ईश्वर・・・・・・・・・・(l.2)उत्तरां दिशं पावयति ॥ ६9.
उपयाम्युदारचरितोपसेव्यतां
कथーーーーーーー(l.3) .
अगमद्यथा वरुणदिक्पवित्रतां
भुवनैकमल्लचरणाब्जधूलि[भिः] ॥
・・・・・・・・・・(l.4)तैः कल्पद्रुमादिसमैः पुरुषैः सेवनीयतां कथं ग-
च्छामीत्यतो नू[नं]・・³・・・・・・・・・(l.5)यथा सा भुवनैकमल्लस्य चरणरेणुना
पवित्रतामगच्छत् ॥ 70.
1 Ms. °ताभू°. 2 Ms. °त्नक्रं. 3 Ms. °ती° lc. under l. 22. 4 Ms. सिं°.
5 Ms. पृ. रा. वि. on margin. 6 Ms. रभा°.
३०