पृथ्वीराजविजय महाकाव्यम् (कवि जयानक - अजमेर चौहान साम्राज्य एवं सम्राट् पृथ्वीराज इतिहास)
Prithvirajavijaya Mahakavya of Jayanaka with Commentary
कश्मीरी कवि जयानक (टीकाकार: जोनरराज) द्वारा
पृष्ठ 129, कुल 330 में से
संदर्भ में पढ़ें११० पृथ्वीराजविजयमहाकाव्यम्
योगिन्यात्मप्रभाख्यासावाशि(1.21)माद्यष्टकच्छलात् •
अपश्यत्कलितां स्थाणावहिंसाद्यष्टपुष्पिकाम् ॥
आत्मप्रभा नाम सा(1.22) योगिनी स्थाणौ परमेश्वरविषयामहिंसा-
दिमेवाष्टपुष्पीं कलितामज्ञासीत् कस्माद(1.23)[हिंसा]दि यदष्टकं तद्रूपात् ॥
तृतीयापह्नुतिः॥ असत्यत्वप्रतिपादकेन च्छलश(1.24²)ब्देन निर्देशात्॥ 38.
रुद्राणीति पुरंध्रीभिर्योगिनीति च योगिभिः •
आत्मप्रभेति सा ज्ञाता विशन्त्यर्कस्य(1.1) मण्डलम् ॥
पुरन्ध्रीप्रभृतिभिस्सा रुद्राण्यादित्वेनोल्लिखिता ॥ उल्लेखः ॥ एकस्या
अनेकधा क(1.2)ल्पनात् ॥ 39.
सूनुर्वाक्पतिराजोस्य प्रसाद इव मूर्त्तिमान् •
हिताय सर्वलोकानामुदपद्यत शा(1.3)म्भवः ॥
लोकानां हितार्थं मूर्तो हरप्रसाद इव विग्रहराजोस्य पुत्रो जातः ॥
गुणोत्प्रेक्षा ॥(1.4) प्रसादाख्यो गुणो विषयित्वेन सम्भावितः ॥ 40.
स भुजाभ्यां जयान्प्रापदष्टाशीत्यधिकं श(1.5)तम् •
बुद्ध्या निर्मलया कालं कामं च मनसाजयत् ॥
स जयानष्टाशीत्यधिकं शतं भुजाभ्यां(1.6) प्रापत् • स शुद्धया बुद्ध्या
कालं निर्मलेन च मनसा काममजयत् इति नवत्यधिकं शतं प्राप्तम् ॥(1.7) 41.
गणनां सूचयन्तीव जयानामिति यत्र ताः •
धामत्रयीकला वक्त्रपंचके पंचधा स्थिताः •
य(1.8)त्र वर्तमानानां जयानां नवत्यधिकं जयानां शतमिति संख्यां
पंचवक्त्रस्येश्वरस्य- मुखपञ्चके(1.9) स्थिता धामत्रयीकलास्सूचयन्ति •
- Ms. has प. वि. vertically in margin. 2 Ms. ˚ब्देन. 3 Ms. भात्मश्री˚.