पृथ्वीराजविजय महाकाव्यम् (कवि जयानक - अजमेर चौहान साम्राज्य एवं सम्राट् पृथ्वीराज इतिहास)
Prithvirajavijaya Mahakavya of Jayanaka with Commentary
कश्मीरी कवि जयानक (टीकाकार: जोनरराज) द्वारा
पृष्ठ 127, कुल 330 में से
संदर्भ में पढ़ें१०८ पृथ्वीराजविजयमहाकाव्यम्
तेजोबलाद्द्[ादशभिः सूर्य्यव]न्महदा(l.17)र्थिभिः •
भूपैरभ्यर्थ्यमानत्वे स्वसारं यः कलावतीम् ॥ ३०.
चन्द्रमूर्त्तिभ्रमकरीं मुखलक्ष्म्येव संज्ञया .(l.18)
कान्यकुब्जमहेशाय सरस्वानिव दत्तवान् ॥
तेजस्वित्वात्सूर्यसमैर्द्वादशभिर्भूपालैरभ्यर्थ्य(l.19)मानत्वेपि कलावतीं
कलावतीनामानं चतुष्षष्टिकलासहितां च स्वसारं यः कान्यकुब्जेन्द्रा(l.20)य
दत्तवान् मुखकान्त्या कलावतीति सञ्ज्ञया च चन्द्रभ्रान्तिकरीम् ॥ भ्रान्ति-
मान् ॥ क(l.21)लावतीति वचनेन भ्रान्तिजननात् ॥ ३१.
जितैः प्रदत्तसर्वस्वस्स्वस्मै द्वादशभिर्नृपैः ।
यमो(l.22*) धनपतिर्वायं संदेहमिति यो ददौ ॥
युद्धे जितै राजभिर्हेतुभिः स्वस्मै प्रदत्तं सर्वस्वं येन स यो राजा(l.1)
किं यमः किं वा वैश्रवण इति संदेहं दत्तवान् ॥ राज्ञां पीडनाद्यमः अति-
दानाद्धनदः ॥ शुद्धस्स(l.2)न्देहः ॥ सन्देहे एव पर्यवसानात् ॥ ३२.
नन्दनश्चन्दनस्तस्य यस्य नामन्युदीरिते ।
जनस्सफ(l.3)ल इत्युक्तिशेषाद्दृष्टभ्रमं जहौ ॥
चन्दन इति यस्य नामन्युक्ते सति तरुसन्देहं प्राप्नुवँल्लोकः(l.4) तत-
स्सफल इत्युक्तिशेषाद्दृष्टभ्रममत्यजत्, चन्दनवृक्षस्य फलानामनुत्पत्तेः ॥
निश्चया(l.5)न्तः ॥ प्रथमं संशये सति निश्चये संपर्यवसानात् ॥ ३३.
फलदश्चन्दनो दृष्टो भोगिनो यमु(l.6)पासते ।
सत्कलास्ते च तेषां च विषदं वदनं सदा ॥
चन्दन इत्युक्ते संशयः फलद् इत्युक्ते निश्च(l.7)यः चन्दनस्य फलदत्वा-
भावात् भोगिनः सुखिनश्च यं सेवन्ते इति सन्देहः ते च भोगिनः सत्कलाः
1 Ms. रु०; वा नृपैं ? 2 Ms. °ठिक°. 3 Ms. 'र्वा' written above 'श्रा°.
[L