सामग्री पर जाएँ
सर्वकोश
पृथ्वीराजविजय महाकाव्यम् (कवि जयानक - अजमेर चौहान साम्राज्य एवं सम्राट् पृथ्वीराज इतिहास)

पृथ्वीराजविजय महाकाव्यम् (कवि जयानक - अजमेर चौहान साम्राज्य एवं सम्राट् पृथ्वीराज इतिहास)

Prithvirajavijaya Mahakavya of Jayanaka with Commentary

कश्मीरी कवि जयानक (टीकाकार: जोनरराज) द्वारा

DevanagariHindipublished330 पृष्ठ

पृष्ठ 126, कुल 330 में से

संदर्भ में पढ़ें
पृष्ठ 126

विकारस्य क्षीरसमुद्रः निर्विकारमित्यर्थः अन्याप्तेर्गगनं व्यापकमित्यर्थः य-
(l.5)स्य यशः कैर्लङ्घ्यते ॥ आरोप्यमाणानां मानसादीनामलंघ्यत्वात् कैर्लङ्घ्यते
इत्युक्तिसंगतिः ॥ (l.6) वैधर्म्येण निरङ्गं मालारूपकम् ॥ मलादीन्प्रति मा-
नसादीनां प्रैतिकूलत्वाद्वैधर्म्यम् ॥(l.7) 26.
अयशोमेघशरदा दुरितध्वान्तराकया •
यस्य श्रिया प्रमादाहिहेमन्तनिशया जितम् ॥
यस्य श्रि(l.8)या जितमिति भावे क्तः . अयश एव मेघस्तस्य शरदा
तथा पापान्धकारपौर्णमास्या तथा प्रमाद(l.9)सर्पस्य हेमन्तरात्र्या . शीत-
काले सर्पाणां बिलप्रवेशेनादर्शनाद्धेमन्तनिशारूपकम् ॥(l.10) परम्परितं
तदेव मेघादीन्प्रति शरदादीनां प्रातिकूल्यात् ॥ 27.
समुद्राः स्थिरलावण्याः(l.11) परकर्णाभिदोर्जुनाः •
यशसां राशयो यस्य दिवि बद्धपदश्रवाः ॥
स्थिरं लावण्यं लालित्यं च(l.12) येषां सम्यगुच्चै रानन्तीति च परेषां
शत्रूणां कर्णं श्रवणं परं शत्रुं राधेयं च भिन्दन्ति अर्जुनाः(l.13) श्वेताः
पाण्डवविशेषाश्च दिवि व्योम्नि च कृतस्थितयोर्ध्रुवा दृढस्ताराविशेषाश्च •
अर्जुनाः श्रंवा इ(l.14)ति बहुवचनं विषयाणां प्रत्येकमारोपात् ॥ आविष्ट-
लिङ्गं रूपकम् ॥ 28.
पुण्डरीकं विरि(l.15)ञ्चस्य श्वेतद्वीपं [मुर]द्विषः •
चन्द्रापी[डस्य कैलासं य]श्शुद्धमवह्नन्मनः ॥
ब्रह्मादीनां पद्मादि य(l.16)श्चित्तमधारयत् तत्र तेषां नित्यनिवासात् ॥
परिणामः ॥ 29. •
. 1 Ms. निरंङ्गं. 2 Ms. मतिं. 3 Ms. °धम्यम्. 4 Ms. प्रसा°.
5 Ms. वन्ध°. . 6 Ms. °ध्रुवा. 7 Ms, °नाश्रं. 8 Ms, °कवि°.,