पृथ्वीराजविजय महाकाव्यम् (कवि जयानक - अजमेर चौहान साम्राज्य एवं सम्राट् पृथ्वीराज इतिहास)
Prithvirajavijaya Mahakavya of Jayanaka with Commentary
कश्मीरी कवि जयानक (टीकाकार: जोनरराज) द्वारा
पृष्ठ 117, कुल 330 में से
संदर्भ में पढ़ें३८ पृथ्वीराजविजयमहाकाव्यम्
किं भूयसां स्फटिकशैल इवा(l.9)ष्टमूर्त्ति-
शिक्षाबलेन परिकल्पिततोयमूर्त्तिः .
अभ्यागतश्चरणयोस्तलमद्य यस्या-
श्शाकम्भरीति गि(l.10)रिजा तव सेयमग्रे ॥
बहुनोक्तेन किम् . अष्टमूर्त्तेस्सकाशाच्छिक्षा संप्रदायस्तद्वलेन परिक-
ल्पित(l.11)जलरूपः स्फटिकाद्रिरिव यस्याः पादतलमागतोद्य सेयं शाक-
म्भरी देवी तवाग्रे भवति ॥ ८६.
एतां प्र(l.12)णम्य शिवशेखरचन्द्ररेखा-
मन्दाकिनीशिशिरपादयुगामिदानीम् .
निर्वापिताध्वगमनक्लमस(l.13)न्निपातः
पृथ्वीपुरन्दर पवित्रय राजधानीम् ॥
शिवस्य शेखरीभूते ये चन्द्रलेखामन्दाकिन्यौ तद्वत्ता(l.14)पहरपादद्व-
यामेतां गौरीं प्रणम्य शमितमार्गतपज्वरस्त्वं राजधानीं गच्छ ॥ ८७.
उक्तेति विस्म(l.15)यसुधारसवर्षमेघो
बद्धाञ्जलिः प्रति[मुमोच स?]— ‿ —— .
राजापि तूर्णमव[रुह्य हयाद्]यासी(l.16)-
—————————‿[परी]क्षकत्वम् ॥
विस्मय एव सुधारसस्तस्य वर्षे मेघस्स विद्याधर इ(l.17)त्युक्त्वा ब-
द्धाञ्जलिसन्प्रत्यमुञ्चत् . राजा च सद्योश्वादवरुह्याचम्य सलिलस्य परीक्षा-
मकरोत्(l.18) पुण्यं प्राप्तवान्पानादिनेत्यर्थः ॥ ८८.
अथ शिवशिरश्चन्द्रज्योत्स्नाललाटविलोचन-
ज्वलनसततप्रत्य(l.19)सत्तिप्रभावकवोष्णयोः .
1 Ms. भूमशा. 2 Ms. ॰परुं॰. 3 See Canto XII. 44, 49.