पृथ्वीराजविजय महाकाव्यम् (कवि जयानक - अजमेर चौहान साम्राज्य एवं सम्राट् पृथ्वीराज इतिहास)
Prithvirajavijaya Mahakavya of Jayanaka with Commentary
कश्मीरी कवि जयानक (टीकाकार: जोनरराज) द्वारा
पृष्ठ 116, कुल 330 में से
संदर्भ में पढ़ेंचतुर्थः सर्गः . ६७
यः पूर्वपुंभिरु(l.21)दखन्यत तावकीनै-
रेकोपि तृप्तिमुपयाति न वाडवोस्मात् •
प्रीतिं विधातुमखिलेष्वपि वाडवेषु
जातस्त्वदन्वयभुवां लवणाकरोयम् ॥
त्वदीयैः पूर्वपुरुषैस्सगरैर्यस्समुद्रः प्रागुत्खातस्तस्मादे(l.1)कोपि वाडवो
वडवाग्निर्न तृप्तिमेति त्वत्कुलजातानां संबन्धिषु वाडवेष्वशेषेषु तृप्तिं कर्त्तुमयं
त्वत्खातो लवणस(l.2)मुद्रो जातः ॥ 83.
आशापुरीति नृपते कुलदेवता ते
शाकम्भरी भगवती च मयि प्रसन्ना .
एते द्युसिन्धुय(l.3)मुने इव सर्वकालं
रक्षिष्यतो लवणवारिनिधिं मिलित्वा ॥
राजन्नाशापुरी नाम देवी तव कुलदेव(l.4)ता भवति . शाकम्भरी
देवी च मयि प्रसन्ना भवति एते गङ्गायमुने इव मिलित्वा लवणाब्धिं
रक्षिष्यतः ॥(l.5) 84.
आविर्भविष्यति विना भवदन्ववाय-
मन्यस्य कस्यचन नैष रसो नृपस्य •
और्वाग्निधूमभवमभ्रगणं हि(l.6) हित्वा
पातुं न कोपि तृषितः क्षमते पयोधौ ॥
भवत्कुलं विनान्यस्य कस्यापि राज्ञोयं लवणाम्बा न प्र(l.7)कटीभवि-
ष्यति . संभावनायां लृट् . वाडवधूमजातं मेघकुलं त्यक्त्वा को नुं तृषितस्समुद्रे
सम(l.8)र्थः . हित्वेति क्त्वाप्रत्यय...................॥ 85.
1 Ms. °तान्तां. 2 Ms. °न्धिष्वा°. 3 Ms. त्वत्खातो lc. at the top of page.
4 Ms. °मद्वं°. 5 Is it कोन्यस्तृ° ?