प्रतिमानाटकम् (महाकवि भास - विमला संस्कृत-हिन्दी टीका एवं सविस्तार व्याख्या सहित)
Pratimanatakam of Mahakavi Bhasa
महाकवि भास (व्याख्याकार: डॉ. श्रीकृष्ण कुमार) द्वारा
पृष्ठ 92, कुल 296 में से
संदर्भ में पढ़ेंभरत—क्या उनके जीने की आशा है ?
सूत—भगवान् ही जाने ।
भरत—मेरा हृदय धड़क रहा है, रथ चलाओ । (१)
सूत—जैसी महाराज की आज्ञा । (रथ चलाता है)
(२) मूल
भरतः— (रथवेगं निरूप्य) अहो नु खलु रथवेगः । एते ते,
द्रुमा धावन्तीव द्रुतरथगतिक्षीणविषया
नदीवोद्वृत्ताम्बुर्निपतति मही नेमिविवरे ।
अरव्यक्तिर्नष्टा स्थितमिव जवाच्चक्रवलय
रजश्चाश्वोद्धूतं पतति पुरतो नानुपतति ॥ (२)
सूतः—आयुष्मन्, सोपस्नेहतया वृक्षाणामभितः खल्वयोध्या
भवितव्यम् ।
भरतः—अहो नु खलु स्वजनदर्शनोत्सुकस्य त्वरता मे मनसः ।
सम्प्रति हि,
पतितमिव शिरः पितुः पादयो. स्निह्यतेवास्मि राज्ञा समुत्थापित
त्वरितमुपगता इव भ्रातर. क्लेदयन्तीव मामश्रुभिर्मातरः ।
सदृश इति महानिति व्यायतश्चेति भृत्यैरिवाह स्तुतः सेवया
परिहसितमिवात्मनस्तत्र पश्यामि वेष भाषां च सौमित्रिणा ॥
(३)
सूतः— (आत्मगतम्) भो ! कष्टम् यदयमविज्ञाय महाराजविनाश-
मुदर्के निष्फलामाशां परिवहन्नयोध्यां प्रवेक्ष्यति कुमारः ।
जानद्भिरप्यस्माभिर्न निवेद्यते ।
कुतः,
पितुः प्राणपरित्यागं मातुरैश्वर्यलुब्धताम् ।
ज्येष्ठभ्रातुः प्रवासं च त्रीन् दोषान् कोऽभिधास्यति ॥ (४)
(प्रविश्य)
भटः — जयतु कुमारः ।
भरतः—भद्र ! कि शत्रुघ्नो मामभिगत ।
भटः—अभिगतः ख वर्तते कुमारः । उपाध्यायास्तु भवन्तपाहुः ।