प्रतिमानाटकम् (महाकवि भास - विमला संस्कृत-हिन्दी टीका एवं सविस्तार व्याख्या सहित)
Pratimanatakam of Mahakavi Bhasa
महाकवि भास (व्याख्याकार: डॉ. श्रीकृष्ण कुमार) द्वारा
पृष्ठ 86, कुल 296 में से
संदर्भ में पढ़ेंतृतीय अङ्क
) मूल
(ततः प्रविशति सुधाकारः)
सुधाकारः—(सम्मार्जनादीनि कृत्वा) भवतु इदानीं कृतमत्र कार्य-
मार्यसम्भकस्याज्ञप्तम् । यावन् मुहूर्तम् स्वप्स्यामि ।
(स्वपिति)
(प्रविश्य)
भटः—(चेटमुपगम्य ताडयित्वा) अंश्चो दास्याः पुत्र ! किमिदानीं
कर्म न करोषि ? (ताडयति)
सुधाकारः—(बुद्ध्वा) ताडय मां ताडय माम् ।
भटः—ताडिते त्वं कि करिष्यसि ।
सुधाकारः—अधन्यस्य मम कार्तवीर्यस्येव बाहुसहस्रं नास्ति ।
भटः—बाहुसहस्रेण किं कार्यम् ।
सुधाकारः—त्वां हनिष्यामि ।
भटः—एहि दास्याः पुत्र ! मृते मोक्ष्यामि । (पुनरपि ताडयति)
सुधाकारः—(रुदित्वा) शक्यमिदानी भर्तः ! मेऽपराधं ज्ञातुम् ।
भटः—नास्ति किलापराधो नास्ति । ननु मया सन्दिष्टो भर्तृदारकस्य
रामस्य राज्यविभ्रष्टकृतसन्तापेन स्वर्गं गतस्य भर्तुर्दशरथस्य
प्रतिमागेहं द्रष्टुमद्य कोसल्यापुरोगैः सर्वैरन्तःपुरैरिहागन्तव्य-
मिति । अत्रेदानीं त्वया किं कृतम् ?
सुधाकारः—पश्यतु भर्ता अपनीतकपोतसन्दानकं तावद् गर्भगृहम् ।
सौधवर्णकदत्तचन्दनपञ्चाङ्गुला भित्तयः । अवसक्तमाल्य-
दामशोभीनि द्वाराणि । प्रकीर्णा वालुकाः । अत्रेदानीं मया किं
न कृतम् ?
भटः—यद्येवं विश्वस्तो गच्छ । यावदहमपि सर्वम् कृतमित्यमात्याय
निवेदयामि ।