प्रतिमानाटकम् (महाकवि भास - विमला संस्कृत-हिन्दी टीका एवं सविस्तार व्याख्या सहित)
Pratimanatakam of Mahakavi Bhasa
महाकवि भास (व्याख्याकार: डॉ. श्रीकृष्ण कुमार) द्वारा
पृष्ठ 56, कुल 296 में से
संदर्भ में पढ़ें( 53 )
७) मूल—
(प्रविश्य)
काञ्चुकीयः —परित्रायतां परित्रायतां कुमारः ।
राम —आर्य ! कः परित्रातव्यः ?
काञ्चुकीयः—महाराजः ।
रामः—महाराजः इति । आर्य ! ननु वक्तव्यम् एकशरीरसंक्षिप्ता
पृथिवी रक्षितव्येति । अथ कुत उत्पन्नोऽयं दोषः ।
काञ्चुकीयः— स्वजनात् ।
रामः--स्वजनादिति । हन्त ! नास्ति प्रतीकारः ।
शरीरेऽरिः प्रहरति हृदये स्वजनस्तथा । कस्य स्वजनशब्दो
मे लज्जामुत्पादयिष्यति ॥ (१२)
काञ्चुकीयः— तत्रभवत्या कैकेय्याः ।
रामः - किमम्बाया ? तेन हि उदर्केण गुणेनात्र भवितव्यम् ।
काञ्चुकीयः—कथमिव ?
रामः—श्रूयताम्,
यस्याः शक्रसमो भर्ता मया पुत्रवती च या ।
फले कस्मिन् स्पृहा तस्या येनाकार्यं करिष्यति ॥ (१३)
काञ्चुकीयः—कुमार ! अलमुपहतासु स्त्रीबुद्धिषु स्वमार्जवमुपनि-
क्षेप्तुम् । तस्या एव खलु वचनाद् भवदभिषेको निवृत्तः ।
रामः -आर्य ! गुणाः खल्वत्रे ।
काञ्चुकीयः—कथमिव ?
रामः—श्रूयताम्,
वनं दमननिवृत्तिः पार्थिवस्य तावन्मम
पितृपरवत्ता बालभावः स एव ।
नवनृपति विमर्गे नास्ति शङ्का प्रजानामथ च न
परिभोगैर्वञ्चिता भ्रातरो मे ॥ (१४)
काञ्चुकीयः—अथ च तयानाहूतोपसृतया भरतोऽभिषिच्यतां राज्य
इत्युक्तम् । अत्राप्यलोभः ?
रामः —आर्य !(भवान् खल्वस्मत्पक्षपातादेव नार्थमवेक्षते)
कुतः,
शुल्के विपणितं राज्यं पुत्रार्थे यदि याच्यते ।
तस्या लोभोऽत्र नास्माकं भ्रातृराज्यापहारिणाम् ॥ (१५)