प्रतिमानाटकम् (महाकवि भास - विमला संस्कृत-हिन्दी टीका एवं सविस्तार व्याख्या सहित)
Pratimanatakam of Mahakavi Bhasa
महाकवि भास (व्याख्याकार: डॉ. श्रीकृष्ण कुमार) द्वारा
पृष्ठ 41, कुल 296 में से
संदर्भ में पढ़ें( 38 )
(नेपथ्य मे)
आर्य, आर्य,
(सुनकर)
सूत्रधार-- अच्छा, समझ गया ।
जिस तरह काश पुष्पों के समान श्वेत रेशमी वस्त्र पहने प्रसन्नहृदय
द्वारपालिका शीघ्रतापूर्वक महाराज दशरथ के अन्तः-पुर में घूम रह
है । (२)
(दोनो निकल जाते हैं ।)
इति स्थापना ।
(२) मूल
(प्रविश्य)
प्रतिहारी—आर्य ! क इह काञ्चुकीयानां सन्निहितः ।
(प्रविश्य)
काञ्चुकीयः—भवति ! अयमस्मि । कि क्रियताम् ?
प्रतिहारी—आर्य ! महाराजो देवासुरसङ्ग्रामेष्वप्रतिहतमहारथो दशरथ
आज्ञापयति-शीघ्रं भर्तृ दारकस्य रामस्य राज्यप्रभावसंयोग
कारका अभिषेकसम्भारा आनीयन्तामिति ।
काञ्चुकीयः—भवति ! यदाज्ञप्तं महाराजेन, तत् सर्वम् सक
ल्पितम् । पश्य-
छत्रं सव्यजनं सनन्दिपटहं भद्रासन कल्पित
न्यस्ता हेममया. सदर्भकुसुमास्तीर्थाम्बुपूर्णा घटाः ।
युक्तः पुष्यरथश्च मन्त्रिसहिताः पौरा. समभ्यागताः
सर्वस्यास्य हि मंगलं स भगवान् वेद्यां वसिष्ठः स्थितः ॥ (३)
प्रतिहारी-यद्येवं, शोभनं कृतम् !
काञ्चुकीयः-हन्त भोः !
इदानीं भूमिपालेन कृतकृत्याः कृताः प्रजाः ।
रामाभिधानं मेदिन्यां शशाङ्कमभिषिञ्चता ॥ (४)
प्रतिहारी-त्वरतां त्वरतामिदानीमार्यः ।
काञ्चुकीयः—भवति ! इदं त्वर्यते । (निष्क्रान्तः)
प्रतिहारी-(परिक्रम्यावलोक्य) आर्य ! सम्भवक ! सम्भवक !