सामग्री पर जाएँ
सर्वकोश
प्रतिमानाटकम् (महाकवि भास - विमला संस्कृत-हिन्दी टीका एवं सविस्तार व्याख्या सहित)

प्रतिमानाटकम् (महाकवि भास - विमला संस्कृत-हिन्दी टीका एवं सविस्तार व्याख्या सहित)

Pratimanatakam of Mahakavi Bhasa

महाकवि भास (व्याख्याकार: डॉ. श्रीकृष्ण कुमार) द्वारा

DevanagariHindipublished296 पृष्ठ

पृष्ठ 283, कुल 296 में से

संदर्भ में पढ़ें
पृष्ठ 283

पारिभाषिक शब्दों के लक्षण [ २१६
मध्येन मध्यमाभ्यां वा पात्राभ्यां सम्प्रयोजितः ।
शुद्धः स्यात् स तु सङ्कीर्णो नीचमध्यमकल्पितः ॥
साहित्यदर्पण ६.५५-५६ ॥
प्रवेशक— प्रवेशकोऽनुदात्तोक्त्या नीचपात्रप्रयोजितः ।
अङ्कद्वयस्यान्तर्विज्ञेयः शेषं विष्कम्भके यथा ॥
साहित्यदर्पण ६. ५-७॥
अङ्क— अङ्क इति रूढिशब्दो भावं रसैश्च रोहयत्यर्थान् ।
नानाविधानयुक्तो यस्मात् तस्माद् भवेदङ्कः ॥
यत्रार्थस्य समाप्तिर्यत्र च बीजस्य भवति संहारः ।
किञ्चिदवलग्नबिन्दुः सोऽङ्कः सदावगन्तव्यः ॥
सूत्रधार— नाट्योपकरणादीनि सूत्रमित्यभिधीयते ।
सूत्रं धारयतीत्यर्थे सूत्रधारो मतो बुधैः ॥
नेपथ्य— कुशीलवकुटुम्बस्य गृहं नेपथ्यमुच्यते ।
नटानां केशपरिग्रहस्थानम् ॥
कञ्चुकी— अन्तःपुरचरो राज्ञो विप्रो गुणगणान्वितः ।
सर्वकार्यार्थकुशलः कञ्चुकीत्यभिधीयते ॥
प्रकाशम्— सर्वश्राव्यं प्रकाशं स्यात् ॥
स्वगतम्— अश्राव्यं स्वगतं मतम् ॥
जनान्तिकम्— त्रिपताकाकरेणान्यानपवार्यान्तरा कथाम् ।
अन्योन्यामन्त्रणं यत्स्यात्तज्जनान्ते तज्जनान्तिकम् ॥
अपवारितकम्— रहस्यं कथ्यतेऽन्यस्य परावृत्त्यापवारितम् ॥
आकाशभाषित— किं ब्रवीष्येवमित्यादि विना पात्रं ब्रवीति यत् ।
श्रुत्वेवानुक्त मत्येकस्तत् स्यादाकाशभाषितम् ॥
भरतवाक्य— भरतः नटस्तस्य प्रस्तुतानुकार्यभेदेन मङ्गलाशंसनतत्परं ।
वाक्यमित्यर्थः । निर्वहणसन्धेरन्त्यं प्रशस्तिरुपमङ्गलमिदम् ।
प्रशस्तिः शुभाशंसना ॥