सामग्री पर जाएँ
सर्वकोश
प्रतिमानाटकम् (महाकवि भास - विमला संस्कृत-हिन्दी टीका एवं सविस्तार व्याख्या सहित)

प्रतिमानाटकम् (महाकवि भास - विमला संस्कृत-हिन्दी टीका एवं सविस्तार व्याख्या सहित)

Pratimanatakam of Mahakavi Bhasa

महाकवि भास (व्याख्याकार: डॉ. श्रीकृष्ण कुमार) द्वारा

DevanagariHindipublished296 पृष्ठ

पृष्ठ 156, कुल 296 में से

संदर्भ में पढ़ें
पृष्ठ 156

[Page 169]

श्रुत इह स च मैथिलीप्रणाशो
गुण इव बह्वपराद्धमायुषा मे ॥ (८)
प्रतिहारी-(सुमन्त्रमुद्दिश्य) एत्वेत्वार्यः । एष भर्ता । उपसर्पत्वार्यः
सुमन्त्रः-(उपसृत्य) जयतु कुमारः ।
भरतः-तात ! अपि दृष्टस्त्वया लोकाविष्कृतपितृस्नेहः । अपि दृष्टं
द्विधाभूतमरुन्धतीचारित्रम् । अपि दृष्ट त्वया निष्कारणा-
वहितवनवासं सौभ्रात्रम् ।
(सुमन्त्रः सचिन्तस्तिष्ठति)
प्रतिहारी-भर्तृदारकः खल्वार्यम् पृच्छति ।
सुमन्त्रः-भवति ! किं माम् ?
भरतः-(स्वगतम्) अतिमहान् खल्वायासः । सन्तापाद् भ्रष्ट-
हृदयः । (प्रकाशम्) अपि मार्गात् प्रतिनिवृत्तस्तत्रभवान् ?
सुमन्त्रः-कुमार ! त्वन्नियोगाद् रामदर्शनार्थम् जनस्थानं प्रस्थितः
कथमहमन्तरा प्रतिनिवर्तिष्ये ।
भरतः-किन्नु खलु क्रोधेन वा लज्जया वात्मानं न दर्शयन्ति ?
सुमन्त्रः-कुमार !
कुतः क्रोधो विनीतानां लज्जा वा कृतचेतसाम् ।
मया दृष्टं तु तच्छून्यं तैर्विहीनं तपोवनम् ॥ (९)
भरतः अथ क्व गता इति श्रुताः ।
सुमन्त्रः-अस्ति किल किष्किन्धा नाम वनौकसां निवासः । तत्र गता
इति श्रुताः ।
भरतः-हन्त ! अविज्ञातपुरुषविशेषाः खलु वानराः दुःखिता प्रति-
वसन्ति ।
सुमन्त्रः-कुमार ! (तिर्यग्योनयोऽप्युपकृतमवगच्छन्ति ।)
भरतः-तात ! कथमिव ।
सुमन्त्रः-सुग्रीवो भ्रंशितो राज्याद् भ्रात्रा ज्येष्ठेन वालिना ।
हृतदारो वसञ्शैले तुल्यदुःखेन मोक्षितः ॥ (१०)
भरतः-तात ! कथं तुल्यदुःखेन नाम ?