प्रतिमानाटकम् (महाकवि भास - विमला संस्कृत-हिन्दी टीका एवं सविस्तार व्याख्या सहित)
Pratimanatakam of Mahakavi Bhasa
महाकवि भास (व्याख्याकार: डॉ. श्रीकृष्ण कुमार) द्वारा
पृष्ठ 120, कुल 296 में से
संदर्भ में पढ़ें( १२९ )
गत्वा पूर्वम् स्वसैन्यैरभिसरिसमये ख समानैर्विमानै
विख्यातो यो विमर्दे स स इति बहुशः सासुराणा सुराणाम् ।
स श्रीमास्त्यक्तदेहो दयितमपि विना स्नेहवन्तं भवन्त
स्वर्गस्थः साम्प्रत कि रमयति पितृभिः स्वैर्नरैन्द्रैर्नरेन्द्रः ॥
( १७ )
सुमन्त्रः—(सशोकम्)
नरपतिनिधनं भवत्प्रवासं
भरतविषादमनाथतां कुलस्य ।
बहुविधमनुभूय दुष्प्रसह्यं
गुण इव बहुवपराद्धमायुषा मे ॥ ( १८ )
सीता—रुदन्तमार्यपुत्रं पुनरपि रोदयति तातः ।
रामः—मैथिलि ! एष व्यवस्थापयाम्यात्मानम् । वत्स ! लक्ष्मण
आपस्तावत् ।
लक्ष्मणः—यदाज्ञापयत्यार्यः ।
भरतः—आर्य ! न खलु न्याय्यम् । क्रमेण शुश्रूषयिष्ये ।
अहमेव यास्यामि । (कलशं गृहीत्वा निष्क्रम्य प्रविश्य)
इमा आपः ।
रामः— (आचम्य) मैथिलि ! विशीर्यते खलु लक्ष्मणस्य व्यापारः ।
सीता—आर्यपुत्र ! नन्वेतेनापि शुश्रूषयितव्यः ।
रामः—सुष्ठु खल्विह लक्ष्मणः शुश्रूषयतु । तत्रस्थो मां भरतः शुश्रू-
षयतु ।
भरतः—प्रसीदत्वार्यः ।
इह स्थास्यामि देहेन तत्र स्थास्यामि कर्मणा ।
नाम्नैव भवतो राज्यं कृतरक्षं भविष्यति ॥ ( १६ )
रामः—वत्स ! कैकेयीमातः ! मा मैवम् ।
पितुर्नियोगादहमागतो वनं
न वत्स दर्पान्न भयान्न विभ्रमात् ।