सामग्री पर जाएँ
सर्वकोश
प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)

प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)

Prabodhachandrodaya of Krishnamishra with Commentary

कृष्णमिश्र यति द्वारा

DevanagariHindipublished274 पृष्ठ

पृष्ठ 80, कुल 274 में से

संदर्भ में पढ़ें
पृष्ठ 80

६२ प्रबोधचन्द्रोदयम्

आशयेमाकाशतरोः प्रसूनात्प्रथीयसः स्वादुफलप्रसूतौ ॥ १६ ॥
इदं च स्वकल्पनाविनिर्मितपदार्थावष्टम्भेन जगदेवं दुर्विदग्धैर्व-
ञ्च्यते । तथाहि—
यन्नास्त्येव तदस्ति वस्त्विति मृषा जल्पद्भिरेवास्तिकै-
र्वाचालैर्बहुभिस्तु सत्यवचसो निन्द्याः कृता नास्तिकाः ।
लोकान्तरितः स्वर्गं गतः फलानाम् इह जन्मनि कृतानां कर्मणां परिणामानाम्
भोक्ता अस्ति, इयमाशा एतादृशी श्रद्धा प्रथीयसः स्थूलमूलात् आकाशतरोः प्रसूनात्
पुष्पात् स्वादुफलप्रसूतौ रम्यफलोदये आशा इत्यर्थः । यथा कश्चिदुन्मत्तोऽत्यन्तासतो
गगनकुसुमात् फलोदयविषयामाशां मनसि पुष्येत्तद्वदेवमपि बुद्धिर्यदस्ति देहव्यति-
रिक्त आत्मा स च लोकान्तरगतः सन्निह कर्मणि कृतानां कर्मणां फलान्युपभोक्तेति ।
चार्वाकमतेनेदमुक्तम् , ते हि-पृथिव्यादीनि चत्वारिभूतानि तत्त्वानि, तेभ्य एव
देहाकारपरिणतेभ्यः किण्वादिभ्यो मदशक्तिवच्चैतन्यमुपजायते, तेषु च विनष्टेषु सत्सु
स्वयं विनश्यति । तच्चैतन्यविशिष्टो देह एवात्मा, तदतिरिक्त आत्मनि प्रमाणा-
भावात् । अङ्गनालिङ्गनादिजन्यं सुखमेव स्वर्गः, कण्टकक्षतादिजन्यं दुःखमेव नरकः,
परलोककल्पना तु धूर्त्तानामित्याहुः । निदर्शनालङ्कारः । स्पष्टमन्यत् ॥ १६ ॥
स्वकल्पनाविनिर्मितपदार्थावष्टम्भेन स्वकल्पनाप्रसूतपदार्थाङ्गीकारेण । परमार्थ-
विचारणासिद्धवस्तुस्वीकारेण तु नैवं वक्तुं शक्येतेति बोध्यम् । दुर्विदग्धैः = धूर्त्तैः ।
वञ्च्यते-प्रतार्यते ।
यन्नास्त्येवेति० यद् वस्तु पदार्थः देहातिरिक्तात्माऽपूर्वादिकं प्रत्यक्षानुपलभ्य-
तयानास्त्येव ( एवकारो भिन्नक्रमः ) नैवास्ति अत्यन्तासन्, इति प्रमापितम् ,
तद्वस्तु अस्ति इति मृषा व्यर्थं जल्पद्भिः वदद्भि बहुभिः भूरिसंख्यैः आस्तिकैः
वेदप्रामाण्यवादिभिः नास्तिकाः वेदप्रामाण्यमनभ्युपगच्छन्तो वयम् सत्यवचसः
प्रामाणिककथाव्याहारिणः निन्द्याः निन्दापात्राणि कृताः विहिताः । स्वयमसत्य-
मर्थं शरीरातिरिक्ताः पूर्वाद्यस्तित्वरूपमुच्चैर्घोषयन्तोऽमी वैदिकाः प्रमाणसिद्ध-
तदभाववादिनामस्माकं नास्तिकानामेव निन्दां प्रचारयन्तीत्येषां वाचालतामात्र
जैसे आकाश वृक्षसे बड़े वडे फलों की आशा ॥ १६ ॥
इस संसारको ये बेवक्कूफ लोग अपनी कल्पना द्वारा गढ़े गये पदार्थों से ठग रहे हैं ।
देखिये—
जो वस्तु है ही नही, वह है इस तरह की झूठी बात कहने वाले आस्तिकोंने