प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)
Prabodhachandrodaya of Krishnamishra with Commentary
कृष्णमिश्र यति द्वारा
पृष्ठ 56, कुल 274 में से
संदर्भ में पढ़ेंराजा—( सलज्जमधोमुखस्तिष्ठति )
मतिः—आर्यपुत्र, किमिति गुरुतरलज्जाभरनमितशेखरस्तूष्णीं भूतोऽसि,
न प्रतिभणसि । ( अज्जउत्त, किंति गुरुअरलज्जाभरणमिदसेहरो तूण्हींभूदोऽसि,
न प्पदिभणसि )
राजा—प्रिये, सेर्ष्यं प्रायेण योषितां भवति हृदयम् । तेन सापराध-
मिवात्मानं शङ्के ।
मतिः—आर्यपुत्र, अन्यास्ताः स्त्रियो याः स्वरसप्रवृत्तस्य वा धर्मार्थ-
व्यापारप्रस्थितस्य वा भर्तुर्हृदयस्थितं विघ्नन्ति । ( अज्जउत्त, अण्णा ता
कथम्-केन प्रकारेण । प्रबोधोत्पत्तिः-ज्ञानोदयः । यो हि पुरुषो जाग्रत्स्वप्नसुषुप्ती-
स्तित्स्रोऽपि दशाः स्वापरूपेणैवोपयुञ्जानः सततं स्वप्नानिवानीकविषयानत्यन्ता-
सम्बद्धांश्च भावान्स्वस्मिन्पश्यति ततो ज्ञानं सुदूरापेतं कथं सन्निधास्यति तस्येति
चिन्तातात्पर्यम् ।
अत्र जाग्रदवस्थायां पश्यति स्वप्नानित्याश्चर्योक्तेः परिभावनाव्यं मुखसन्धेर्नव-
ममङ्गमुक्तम्—तल्लक्षणं यथा-‘परिभावनमित्याहुराश्चर्यार्थनिवेदनम्’ इति ।
गुरुतरलज्जाभरनमितशेखरः—अतिशयत्रपानम्रीकृतमस्तकः । तूष्णींभूतः-मूकी-
भूतः । प्रतिभणसि-प्रत्युत्तरं ददासि । अत्र विवेको राजा स्वस्योपनिषद्रूपवनितान्तर-
सङ्गप्रसङ्गेन लज्जानतमुखो भवतीति बोध्यम् । सेर्ष्यम्-ईर्ष्याख्यभावयुक्तम् । योषि-
ताम्-रमणीनाम् । सापराधम्-कृतापराधम् । अयमाशयः-त्वयि धृतासङ्गं मामुप-
निपद्देवी कान्तान्तरप्रसक्तं मन्यमानेर्ष्याकलुषितचित्ता भविष्यतीति हेतोरहं तस्याः
समीपे स्वं सापराधमिवोन्प्रेक्षे इति ।
अन्याः-मद्भिनाः । स्वरसप्रवृत्तस्य-स्वेच्छयागन्तुकामस्य । धर्मार्थव्यापारप्रवृ-
राजा—( लज्जासे अधोमुख हो जाता है )
मति—आर्यपुत्र, गुरुतर लज्जासे नतमस्तक होकर गुम क्यों हो रहे है ? उत्तर क्यों
नहीं देते ?
राजा—प्रिये, स्त्रियोंके हृदय ईर्ष्यालु हुआ करते है, इसीलिये मै कृतापराध अपनेको
पा रहा हूँ ।
मति—आर्यपुत्र, वे और स्त्रियां होंगी जो स्वेच्छावश या धर्मार्थ व्यापारमें प्रवृत्त