प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)
Prabodhachandrodaya of Krishnamishra with Commentary
कृष्णमिश्र यति द्वारा
पृष्ठ 48, कुल 274 में से
संदर्भ में पढ़ें३० प्रबोधचन्द्रोदयम्
राजा—( विचिन्त्य ) प्रिये, श्रुतं त्वयास्य दुर्विनीतस्य कामबटोर्मद-
विस्फूर्जितं वचो यदस्मानेव पापकारिण इत्याक्षिपति ।
मतिः—आर्यपुत्र, किमात्मनो दोषं लोको विजानाति । ( अज्जउत्त,
किं अप्पणो दोसं लोगो चिआणादि )
राजा—पश्य—
असावहङ्कारपरैर्दुरात्मभि-
र्निबध्य तैः पापशठैर्मदादिभिः ।
विरसोऽनुचितस्तत्र सूच्यः स्याद्वस्तुविस्तरः ।
शुद्धो मिश्रस्तु स द्वेधा मध्यपात्रप्रयोजितः ॥
शुद्धो भवति, मिश्रस्तु नीचमध्यप्रयोजितः ।
प्रधानादपरं मध्यं नायकादेरुदात्तवाक् ॥
नीचं स्यादनुदात्तोक्तेर्विना परिजनादिकम् ।
उदात्तवाक्-संस्कृतवाक् अनुदात्तवाक्-प्राकृतभाषा ।
विवेको नामश्रवणम् , मतिस्तत्र सहायिका काचना संभावना विपरीतभाव-
नयोर्निवर्त्तिका बुद्धिवृत्तिर्मननात्मिका । श्रवणं प्रति मननस्याङ्गत्वेनेह मत्या विवेक-
पत्नीत्वव्यपदेशः । तयोरेव विवेकमत्योरत्र पात्रीकरणमाध्यात्मिककथाविस्तृतये कृतं
तत्र विवेकस्य राजत्वं मत्याश्च तत्पत्नीत्वं वेद्यम् ।
दुर्विनीतस्य—विनयशून्यस्य । मदविस्फूर्जितम्-गर्वयुक्तम् । अस्मान्-विवेका-
दीन् । लोकः-साधारणो जनः । यतः साधारणो जनः स्वं दोषं न विजानाति तेनैव
कामोऽपि स्वं दोषं नावैति येनास्मानेव पापकारितयाऽऽक्षिपति, तत्र तस्य साधारण-
जनत्वमेव कारणमित्यर्थः ।
आसाविति० अहङ्कारः अहङ्कर्त्ताऽहम्भोक्तेत्येवरूपो मनोभावः परः प्रधानं येषु
तैरहङ्कारानुवर्त्तिभिः दुरात्मभिः दुष्टान्तःकरणशालिभिः पापाश्च शठाश्च तैः पापशठैः
मदादिभिः मदमात्सर्यलोभप्रभृतिभिः कर्त्तृभिः असौ विख्यातसद्गुणः चिदानन्दमयः
चित्स्वरूपः आनन्दस्वरूपश्च निरञ्जनः निर्गताखिलवासनः जगत्प्रभुः संसारनियन्ता
राजा— ( सोचकर ) प्रिये, तुमने इस पापी कामकी मनवाली बातें सुनी जिनके द्वारा
यह हमलोगोंको ही पापी कहकर शिकायत करता है ।
मति—आर्यपुत्र, क्या अपना दोष लोग खुद देख पाते हैं ।
राजा—देखो-पापी ठग तथा दुरात्मा मद आदिसे परिवृत अहङ्कारने बांधकर चिदा-