प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)
Prabodhachandrodaya of Krishnamishra with Commentary
कृष्णमिश्र यति द्वारा
पृष्ठ 254, कुल 274 में से
संदर्भ में पढ़ें२३४ प्रबोधचन्द्रोदयम्
उपनिषत्—एवमेतत् । तथाहि—
असौ त्वदन्यो न सनातनः पुमान्
भवान्न देवात्पुरुषोत्तमात्परः ।
स एष भिन्नस्त्वदनादिमायया
द्विधेव विम्बं सलिले विवस्वतः ॥ २५ ॥
पुरुषः—(विवेकं प्रति) भगवन्, उक्तमप्यर्थं भगवत्या न सम्यगव-
धारयामि ।
अवच्छिन्नस्य भिन्नस्य जरामरणधर्मिणः ।
मम ब्रवीति देव्येयं सत्यानन्दचिदात्मताम् ॥ २६ ॥
असाविति० असौ अपरोक्षः सनातनः नित्यः पुमान् पुरुषः त्वदन्यो न त्वत्प्रतियो-
गिकभेदवान्न ( भवति ) भवान् जीवः पुरुषोत्तमात् परमात्मनः परः भिन्नः न
( भवति ) 'तत्त्वमसी'ति श्रुत्या द्वयोरैक्यस्य बोधनात् । स एष परमात्मा अनादि-
मायया अनाद्यविद्यया त्वत् त्वत्तः भिन्ना पृथक् प्रतीयत इति शेषः, सलिले जले
विवस्वतः सूर्यस्य द्विधा द्वित्वं गतं बिम्बम् इव । यथैकमपि सूर्यबिम्बं तरङ्गभेदव-
शाद्विधधा प्रतीयते तद्वत्परमात्माभिन्नोऽपि जीवोऽनाद्यविद्यावशाद्भिन्न इव प्रती-
यते, परं पारमार्थिकमभेदं जीवपरमात्मनोराविद्यको भेदो नापलोपितुं प्रभुर्र्यथा
सूर्यबिम्बं तरङ्गो न द्विधा विधातुं क्षमस्तद्वदिति भावः । तथोक्तमपि--'एक एव हि
भूतात्मा भूते भूते व्यवस्थितः । एकधा बहुधा चैव दृश्यते जलचन्द्रवत्' इति ॥२५॥
अवच्छिन्नस्येति० इयं देवी उपनिषत् अवच्छिन्नस्य देहादिपरिच्छिन्नपरिमाणस्य
जरामरणधर्मिणः जन्मिनः वार्धक्ययुतस्य मरणशीलस्य च मम सत्यानन्दचिदात्मताम्
सत्यस्वरूपत्वम्, आनन्दमयत्वम्, ज्ञानस्वरूपताम् च ब्रवीति, इदमसंभावितमिव
उपनिषत्—हाँ, बात ऐसी ही है । क्योंकि—
वह सनातन पुरुष तुमसे भिन्न नहीं हैं, तुम भी पुरुषोत्तमसे भिन्न नहीं हो । यह
तुम्हारी अनादि मायासे भिन्न प्रतीत होता है जैसे एक ही सूर्यबिम्ब जलमें तरङ्गभेदसे
भिन्न प्रतीत होता है ॥ २५ ॥
पुरुष—( विवेकके प्रति ) भगवन्, भगवतीने जो बातें कहीं उन्हे मै ठीकसे समझ
नहीं पा रहा हूँ ।
यह देवी अवच्छिन्न, भिन्नधर्मी, जरामरणधर्मी मुझे जीवका-सत्य-आनन्दे चित्स्व-
रूपता बता रही है ॥ २६ ॥