सामग्री पर जाएँ
सर्वकोश
प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)

प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)

Prabodhachandrodaya of Krishnamishra with Commentary

कृष्णमिश्र यति द्वारा

DevanagariHindipublished274 पृष्ठ

पृष्ठ 252, कुल 274 में से

संदर्भ में पढ़ें
पृष्ठ 252

२३२ प्रबोधचन्द्रोदयम्
इत्याद्यवस्था मम संजाता ।
पुरुषः-ततस्ततः ।
उपनिषत्-ततो देवायतनान्निर्गत्य गदापाणिभिः पुरुषैरतिनिर्दयं
ताड्यमानास्ता दिगन्तमतिक्रान्ताः सर्वाः ।
राजा-(सहर्षम् ) न खलु भवतीमतिक्रामतो भगवान् विश्वसाक्षी
क्षमते ।
पुरुषः-ततस्ततः ।
उपनिषत्-
छिन्ना मुक्तावलिरपहृतं स्रस्तमङ्गाद्दुकूलं
भीता गीताश्रममथ गलन्नूपुराहं प्रविष्टा ॥ २४ ॥
देवायतनात्-देवालयात् । 'गदापाणिभिः' गदाधारिभिर्विष्वक्सेनादिभिर्विष्णु-
परिकरैः । दिगन्तमितिक्रान्ताः-दिशामन्तं भेजिरे । सर्वाः-सर्वप्रकारास्तर्कविद्याः ।
अत्र परवादिन्निर्गमनेन दुःखनिवृत्तेः प्रतिपादनात्समयो नाम निर्वहणसन्धेरष्टममङ्ग-
मुक्तं वेद्यम् , तल्लक्षणं यथा-'समयो दुःखनिर्गमः' इति ।
भवतीमतिक्रामतः-भवत्यामत्याहितमाचरतः, विश्वसाक्षी-जगन्नियन्ता । क्षमते-
मर्षयति, ये भवतीं पीडयन्ति तानीश्वरो दण्डयतीति तात्पर्यम् ।
छिन्नेति० मुक्तावलिः मुक्तामाला छिन्ना त्रोटिता, अङ्गात् स्रस्तम् देहात्स्खलितम्
दुकूलम् उत्तरीयवस्त्रम् अपहृतम् केनापि नीतम् , गलन्नूपुरा पतितचरणभरणा
चाहम् भीता कान्दिशीकतां गताऽथ गीताश्रमं गीतायाः स्वपुत्र्या आश्रमं स्थानं
प्रविष्टा प्राविशम् । अस्यापि वेदान्तपक्षीयोऽर्थः प्रागुक्तः ॥ २४ ॥
गया, इत्यादि मेरी अवस्था हुई ।
पुरुष-तब ?
उपनिषद्-इसके बाद मन्दिरसे निकले गदापाणि पुरुषोंने अतिनिर्दय प्रहार करन
प्रारम्भ किया, तब वे सभी दिगन्तरको भाग गईं ॥
राजा-(हर्षसे ) भगवान् विश्वसाक्षी आपके अतिक्रमण करने वालोंको क्षमा
नही करते हैं ।
पुरुष-तब ?
उपनिषत्-हमारी मुक्तामाला टूट गई, देहसे कपड़ा खिसक गया तब डरी हुई मैं
गलन्नूपुरा हो गीताश्रममें पैठी ॥ २४ ॥