प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)
Prabodhachandrodaya of Krishnamishra with Commentary
कृष्णमिश्र यति द्वारा
पृष्ठ 244, कुल 274 में से
संदर्भ में पढ़ें२२४ प्रबोधचन्द्रोदयम्
उपनिषत्—ततोऽहं तामतिक्रम्य प्रस्थिता ।
पुरुषः—ततस्ततः ।
उपनिषत्—ततः कर्मकाण्डसहचरी मीमांसा मया दृष्टा;—
विभिद्य कर्माण्यधिकारभाञ्जि श्रुत्यादिभिश्चानुगता प्रमाणैः ।
अङ्गैर्विचित्रैरभियोजयन्ती प्राप्तोपदेशैरतिदेशकैश्च ॥ १८ ॥
पुरुषः—ततस्ततः ।
उपनिषत्—ततोऽहं तामपि तथैवाश्रयमभ्यर्थितवती । अथ तयाप्यु-
क्तास्मि भद्रे, किं कर्मासीति । ततो मया तदेवोक्तम् ।
ताम्-यज्ञविद्याम् । अतिक्रम्य-परित्यज्य । प्रस्थिता-अग्रे चलिता ।
कर्मकाण्डसहचरी-कर्मकाण्डानुगता ।
विभिद्येति० कर्माणि ज्योतिष्टोमादीनि विभिद्य भेदेन ज्ञापयित्वा अधिकारभाञ्जि
अधिकारः कर्मफलभागित्वरूपः तं भजन्ते तानि तथाविधानि च (प्रतिपाद्य)
श्रुत्यादिभिः-श्रुतिलिङ्गवाक्यप्रकरणस्थानसमाख्याभिः संज्ञाभिः प्रथितैः प्रमाणैः अन-
धिगतार्थबोधकैरनुगता उपेता विचित्रैः नानाभेदभिन्नैः सन्निपत्योपकारकारादुप-
कारकादिप्रभेदैः अङ्गैः प्राप्तोपदेशैः साक्षादुपदिश्यमानैः अतिदैशिकैः अन्यत्र श्रुतस्य
अन्यत्र प्रापणमतिदेशस्तेनापि प्रकारेण प्राप्तैः अभियोजयन्ती उपकुर्वाणा मीमांसा
मया दृष्टेति पूर्वेणैकान्वयः। मीमांसाशास्त्रस्य नित्यनैमित्तिककाम्यकर्मबोधकत्वाऽधि-
कारबोधनपरता च प्रतीतेव । श्रुत्यादिषड्विधप्रमाणावबोधकत्वमपि प्रसिद्धम् ।
साक्षादभिधानमुपदेशः, अन्यत्र श्रुतस्यान्यत्र प्राप्तमतिदेशस्तस्योत्तरषट्के विचारः।
एतदधिकमन्यत्रात्रैव परिशिष्टे द्रष्टव्यम् ॥ १८ ॥
तथैव-यथा यज्ञविद्यां तथा । आश्रयमभ्यर्थितवती-स्वनिवासाय प्रार्थनां कृत
उपनिषत्—तब मैं उसे छोड़कर आगे बढी ।
पुरुष—तब ?
उपनिषत्—इसके बाद कर्मकाण्डसहचरी मीमांसा मिली ।
जो अधिकारानुकूल कर्म विभाग करके श्रुत्यादि प्रमाणोंसे अनुगत हो उपदेश तथ
अतिदेशके द्वारा विचित्र अङ्गोंसे युक्त थी ॥ १८ ॥
पुरुष—तब ?
उपनिषत्—इसके बाद मैने उससे भी उसीतरह प्रार्थना की । उसने भी कहा-
भद्रे, तुम्हारा क्या कर्त्तव्य है ? मैने कहा—'यस्माद्विश्वम्' इत्यादि ।