सामग्री पर जाएँ
सर्वकोश
प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)

प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)

Prabodhachandrodaya of Krishnamishra with Commentary

कृष्णमिश्र यति द्वारा

DevanagariHindipublished274 पृष्ठ

पृष्ठ 235, कुल 274 में से

संदर्भ में पढ़ें
पृष्ठ 235

षष्ठोऽङ्कः २१५
उपनिषत्—यथा वदति प्रियसखी । ( इति परिक्रामति )
( ततः प्रविशति राजा श्रद्धा च )
राजा—अयि वत्से, द्रक्ष्यति शान्तिः प्रियामुपनिषदम् ? ।
श्रद्धा—देव, गृहीतोद्देशैव शान्तिर्गता कथं तां न द्रक्ष्यति ।
राजा—कथमिव ।
श्रद्धा—देव, प्रागेव कथितमेतद्देव्या विष्णुभक्त्याऽऽसीत्, यथा
मन्दाराभिधाने शैले विष्णोरायतने देव्यां गीतायां तर्कविद्याभयादनु-
प्रविष्टेति ।
राजा—कथं पुनस्तर्कविद्याया भयम् ।
श्रद्धा—देव, इममर्थं सैव प्रस्तोष्यति । तदागच्छतु देवः । एष स्वामी
त्वदागमनमेव ध्यायन्विविक्ते वर्तते ।
द्रक्ष्यति=साक्षात् करिष्यति ? शान्तिरूपनिषदं किं द्रष्टुं शक्ष्यतीति प्रश्नाशयः ।
गृहीतोद्देशा-ज्ञाततद्वासस्थाना ।
कथमिव-कथं तया तद्वासस्थानं ज्ञातमिति प्रश्नार्थः ।
मन्दराभिधाने-मन्दारनामके, विहारप्रान्ते प्रसिद्धो मन्दारः, यत्र मधुसूदन-
मन्दिरम् ।
विष्णोरायतने-विष्णुमन्दिरे । तर्कविद्याभयात्-तर्कशास्त्रतो भीतेः, तर्कादुपनि-
षदो भयं विरुद्धमतस्थापनप्रवृत्तत्वात्तर्कस्य, तर्को हि कारणसाजात्यं कार्यस्यास्थाय
ब्रह्मण उपादानभावं खण्डयति, इदमेवोपनिषदस्तर्काद्भयम् ।
इममर्थम्-कथं तस्यास्तर्काद्भयमिति । सा-उपनिषत् । प्रस्तोष्यति-वक्ष्यति,
उपनिषत्—प्रियसखीका जो आदेश हो । ( चलती है )
( राजा और श्रद्धाका प्रवेश )
राजा—अयि वत्से, क्या शान्ति अपनी प्यारी उपनिषद्‌को पायेगी ?
श्रद्धा—देव, जब शान्ति ठीक पता पाकर गई है तब उसे क्यों नहीं पायेगी ?
राजा—कैसे ?
श्रद्धा—देव, देवी विष्णुभक्तिने यह बात पहले ही कह दी थी, कि मन्दार पर्वतपर
विष्णुमन्दिरमें तर्कविद्याके भयसे उपनिषद् गीतामें प्रवेश कर गई है ।
राजा—तर्कविद्यासे भय कैसा ?
श्रद्धा—देव, इस बातका प्रस्ताव वही करेगी । अतः देव आवें । स्वामी एकान्तमें
आपके आनेका ही ध्यान कर रहे हैं ।