प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)
Prabodhachandrodaya of Krishnamishra with Commentary
कृष्णमिश्र यति द्वारा
पृष्ठ 227, कुल 274 में से
संदर्भ में पढ़ेंषष्ठोऽङ्कः । २०६
मरकतदलकोमला वनालीर्भज निजपुण्यचितांश्च सर्वभोगान् ॥ ६ ॥
शान्तिः—ततस्ततः।
श्रद्धा—पुत्रि, तदावधर्य मायया श्लाघ्यमेतदित्युक्तम् । मनसा चानु-
मोदितम् । सङ्कल्पेन प्रोत्साहितम् । स्वामी संप्रति सम्मतिपथमिवापन्नः ।
शान्तिः—( सखेदम् ) हा धिक् हा धिक् पुनरपि तामेव संसारवागु-
रामभिपतितः स्वामी ।
श्रद्धा—न खलु न खलु ।
शान्तिः—ततस्ततः ।
श्रद्धा—ततः परिपार्श्ववर्तिना तर्केण तान्सर्वान्क्रोधावेशकषायितनय-
भूमयो यासां ताः कनकसिकतलस्थलाः स्रवन्तीः नदीः, पृथुजघनाः स्थूलनितम्बाः
कमलाननाः पद्ममुखीः वरोरूः सुन्दरीः स्त्रियः, मरकतदलकोमलाः माणिक्यकोमलाः,
वनालीः काननमाला, ( एवंविधान् ) निजपुण्यचितान् स्वसुकृताहतान् सर्वभोगान्
सर्वाण्यपि भोग्यवस्तूनि भज सेवस्व । स्वर्णमयपुलिनभूमिषु स्रवन्तीष्ववगाहस्व,
पृथुनितम्बतया कमलाभमुखतया च हृद्याभिः सुन्दरीभिः सह विहर, मरकतकोम-
लासु काननभूमिषु सञ्चरैव स्वपुण्यपाकलब्धानि भोग्यवस्तूनि प्राप्यानन्दं भज,
किमिति रुक्षे ज्ञानवर्त्मनि पदं विधाय स्वं कदर्थयितुमुद्यच्छसीत्यर्थः ॥ ६ ॥
श्लाध्यम्-प्रशंसनीयम् । अनुमोदितम् = तदुक्तेस्समर्थं कृतम् । सम्मतिपथम्-
अनुज्ञामार्गम् । मायाप्रस्तावस्य मनसासमर्थितस्य सङ्कल्पेन चाभ्यनुज्ञातस्य पुरु-
षोऽङ्गीकारमिव कर्तुं प्रवृत्त इत्याशयः ।
संसारवागुराम्-भवजालम् । अभिपतितः-अनुप्रविष्टः ।
पार्श्ववर्तिना = समीपस्थेन । तर्केण-युक्त्या, न्यायाद्यागमपुरस्सरेण बुद्धिवादेन ।
वनमालामें स्वपुण्यलब्ध सर्वविध भोग प्राप्त कीजिये ॥ ६ ॥
शान्ति—इसके बाद ?
श्रद्धा—पुत्रि, यह सुनकर मायाने इस प्रस्ताव की प्रशंसा की । सङ्कल्पने प्रोत्साहन
दिया, स्वामीने भी सम्मति-सी दे दी ।
शान्ति—( खेदपूर्वक ) हाय धिक्कार है, धिक्कार है, फिर स्वामी उसी संसार
जालमें फंसे ।
श्रद्धा—नहीं नहीं ।
शान्ति—तो फिर ?
श्रद्धा—इसके बाद पार्श्वस्थ तर्कने उन सबको क्रोधसे लाल आँखोंसे देखकर स्वामीसे
१४ प्र० च०