प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)
Prabodhachandrodaya of Krishnamishra with Commentary
कृष्णमिश्र यति द्वारा
पृष्ठ 198, कुल 274 में से
संदर्भ में पढ़ें१८० प्रबोधचन्द्रोदयम्
अथ मनसः को वृत्तान्तः ।
श्रद्धा—देवि, तेनापि पुत्रपौत्रादिव्यसनजनितशोकावेशेन जीवोत्स-
र्गाय व्यवसितम् ।
विष्णुभक्तिः—( स्मितं कृत्वा ) यद्येवं स्यात्सर्व एव वयं कृतकृत्या
भवामः । पुरुषश्च परां निवृतिमापत्स्यते । किंतु कुतस्तस्य दुरात्मनो
जीवत्यागः ? ।
श्रद्धा—एवं देव्यां प्रबोधोदयाय गृहीतसंकल्पायामचिरं शरीरेण सह
नैव भविष्यति ।
विष्णुभक्तिः—तद्भवतु । अस्य वैराग्योत्पत्तये वैयासिकीं सरस्वतीं
प्रेषयामः । ( इति निष्क्रान्तौ )
मनसः-चित्तस्य, मनोऽपत्यान्येवंमे सर्वे लोभादयो व्यापादिता इति तद्वरथा-
प्रश्नो नासामयिकः ।
व्यसनजनितशोकावेशेन—विपत्तिप्रभवखेदवेगेन । जीवोत्सर्गाय-प्राणपरित्या-
गाय । व्यवसितम्-चेष्टितम् , एवं स्यात्-मनो म्रियेत । वयम्-विष्णुभक्त्यादयः ।
कृतकृत्याः-सम्पादितविधेयाः । मनसि विरते तत्कृतोपद्रवाणामपि शान्तिमभि-
प्रेत्येदमुक्तम् , मन एव प्रधानं तदुक्तम्—'मन एव मनुष्याणां कारणं बन्धमोक्षयोः'
इति । निर्वृत्तिम्-शान्तिम् । आपत्स्यते-प्राप्स्यति । दुरात्मनः-दुष्टस्य । जीवत्यागः-
मरणं, जीवापसरणं वा । देव्याम्-विष्णुभक्तौ । गृहीतसङ्कल्पायाम्-स्थिरमतौ ।
शरीरेण सह नैव भविष्यति-शरीरसम्बन्धं विहास्यति-मृतं भविष्यति ।
अस्य—मनसः । वैराग्योत्पत्तये-विरक्तिमुत्पादयितुम् । वैयासिकीम्-व्यास-
प्रोक्ताम् ।
मनकी क्या खबर है ?
श्रद्धा—उसने भी पुत्रपौत्र आदिके व्यसनसे जन्य शोकके वेगमे प्राण दे देनेका
उद्योग किया !
विष्णुभक्तिः—( हंसकर ) यदि ऐसा हो जाय तब तो हम सभी कृतकृत्य हो जाय,
पुरुषको भी शाश्वत शान्ति प्राप्त होजाय, किन्तु वह अभागा क्योंकर मरेगा ?
श्रद्धा—देवी जब प्रबोधोदयके लिये इस प्रकार दृढ़ निश्चय है तो वह निश्चय ही
नही रह सकेगा ।
विष्णुभक्ति—तो ठीक है । इसको वैराग्य उत्पन्न करनेके लिये वैयासिकी सरस्वतीको
भेजती हूं । ( दोनोका प्रस्थान )