प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)
Prabodhachandrodaya of Krishnamishra with Commentary
कृष्णमिश्र यति द्वारा
पृष्ठ 180, कुल 274 में से
संदर्भ में पढ़ें१६२ प्रबोधचन्द्रोदयम्
सूतः—( परिक्रम्य ) आयुष्मन्, पश्य पश्य । तदिदं सुरसरित्परिसरा-
लङ्कारभूतं भगवतः पावनमनादेरादिकेशवस्य विष्णोरायतनम् ।
राजा—( सहर्षम् ) अरे,
एष देवः पुराविद्भिः क्षेत्रस्यात्मेति गीयते ।
अत्र देहं समुत्सृज्य पुण्यभाजो विशन्ति यम् ॥ ३० ॥
सूतः—आयुष्मन्, पश्य पश्य । एते तावत्कामक्रोधलोभादयोऽस्म-
दर्शनमात्रादितो देशाद्दूरमतिक्रामन्ति ।
वाराणस्यां प्रवहन्ती गङ्गा भूमेर्मुक्तावलिरिव भासमाना स्वफेनैः चान्द्रीं कलां
हसती वेत्युत्प्रेक्षा । शार्दूलविक्रीडितं वृत्तम् , लक्षणं प्रागुक्तम् ॥ २९ ॥
सुरसरित्परिसरालङ्कारभूतम्-गङ्गातीरालङ्कारायमाणम् । पावनम्-पवित्रताक-
रम् । भगवतः-सर्वसामर्थ्यशालिनः । आदिकेशवनाम्ना प्रथितस्य विष्णोरायत-
नम्-स्थानम् । इदमेकभागेऽवस्थितं विष्णुमन्दिरमतिप्रसिद्धं स्थानं यद्विषये स्मर्यते-
‘लोलार्ककेशवौ कोटी गङ्गाज्या नगरं धनुः । कलिर्लक्ष्यः शरोधर्मः शिवो धन्वी
पुनातु माम्’ इति ।
एष देव इति० एष देवः आदिकेशवः पुराविद्भिः प्राग्भवकथातत्त्वज्ञैः क्षेत्रस्य
काशीधाम्नः आत्मा सारभूतः गीयते सादरमुद्घोष्यते, यम् आदिकेशवम् विष्णुम्
अत्र वाराणस्यां देहं समुत्सृज्य मृत्वा पुण्यभाजः पुण्यकर्माणो योगिनो विशन्ति
तदात्मतां प्रतिपद्यन्ते । इदमेव तत्तीर्थं यत्र मृतानां विष्णुप्राप्तिः सुलभा भवतीति
तात्पर्यार्थम् । यथोक्तं काशीखण्डे-‘आदौ पादोदके तीर्थे विद्धि मामादिकेशवम् ।
अग्निविन्दोर्महाप्राज्ञ भक्तानां मुक्तिदायकम् ॥ अविमुक्तेऽमृतक्षेत्रे येऽर्चयन्त्यादि-
केशवम् । तेऽमृतत्वं भजन्त्येवं सर्वदुःखविवर्जिताः' । इति ॥ ३० ॥
अस्मद्दर्शनमात्रात्-केवलदस्माकं विलोकनात् । दूरमतिक्रामन्ति-विप्रकृष्टे देशे
पलायन्ते । एवमेतत्-त्वदुक्तं सत्यमित्यर्थः । स्वाभीष्टसिद्धये-निजाभिमतलाभार्थम् ।
सूत—(चलकर) आयुष्मन्, देखिये देखिये, गङ्गाके तटका अलङ्कारभूत यह
भगवान् आदिकेशवका पवित्र मन्दिर है ।
राजा—(हर्षसे) अरे—
पुराने लोग इन्हींको इस क्षेत्र (देह) की आत्मा कहते हैं, यहाँ शरीरत्याग करने
वाले पुण्यात्मा जिस आत्मामें लीन हुआ करते हैं ॥ ३० ॥
सूत—आयुष्मन्, देखिये देखिये, ये काम-क्रोध-लोभ आदि हमारे दर्शनमात्रसे
इस देशसे दूर भागे जा रहे हैं ।