सामग्री पर जाएँ
सर्वकोश
प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)

प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)

Prabodhachandrodaya of Krishnamishra with Commentary

कृष्णमिश्र यति द्वारा

DevanagariHindipublished274 पृष्ठ

पृष्ठ 159, कुल 274 में से

संदर्भ में पढ़ें
पृष्ठ 159

चतुर्थोऽङ्कः १४१
तमेव तावद्विजयार्थमादिशामि। वेदवति, आहूयतां वस्तुविचारः।
प्रतीहारी—यद्देव आज्ञापयति। (जं देवो आणवेदि) (इति निष्क्रम्य
वस्तुविचारेण सह प्रविशति)
वस्तुविचारः—अहो निर्विचारसौन्दर्याभिमानवर्धिष्णुना कामहतकेन
वञ्चितं जगत्। अथवा दुरात्मना महामोहेनैव। तथाहि—
कान्तेत्युत्पललोचनेति विपुलश्रोणिभरेत्युन्नम-
त्पीनोत्तुङ्गपयोधरेति सुमुखाम्भोजेति सुभ्रूरिति।
वीरः-मुख्यो योधः। वस्तुविचारेण-वस्तुस्वरूपविचारनामकेन। कामो वस्तुस्वरूप-
विचारे क्रियमाणे नावतिष्ठते, आपातरामणीयता हि विषयाणामाकृष्य कामं समे-
धयति, विचारेण तु तेषामापातरमणीयता विपरिवर्त्तते वास्तविकरूपे, ततो निव-
र्त्तते काम इति वस्तुविचारेण कामजय उक्तः। तमेव-वस्तुविचारमेव। विजया-
र्थम्-कामं जेतुम्। आदिशामि-आज्ञापयामि। वेदवतीति प्रतीहार्या नाम।
निर्विचारसौन्दर्याभिमानवर्धिष्णुना—विचारान्निर्गतं निर्विचारम्, तादृशो
यत्सौन्दर्याभिमानः कमनीयता गर्वस्तेन वर्धिष्णुना वृद्धिशीलेन। विचारणायां
कृतायां नार्याः सौन्दर्यमद्यष्टतायां पर्यवस्यतीति तत्सौन्दर्यं निर्विचारसौन्दर्यं तन्त्रा-
भिमानेन वर्द्धते काम इति प्रसिद्धमेव। वञ्चितम्-प्रतारितम्, आकृष्य स्वस्मिन्त्रा-
सक्तं कृतम्। 'महामोहेनैव' इत्यस्य वञ्चितमिति शेषः, न कामस्यायं प्रभावो
यल्लोकस्य कामासक्तिः किन्तु महामोहस्यैवायं प्रभावः, किंवाऽभविष्यदरुणस्तमसां
विभेत्ता तं चेत्सहस्रकिरणो धुरि नाकरिष्यत्' इति भावः।
कान्तेति० अहो आश्चर्यम् मोहस्य दुश्चेष्टितम् मोहस्यानर्थकरः प्रयासभरः !
(यत्प्रभाववशात्) प्रत्यक्षाशुचिपूत्तिकाम् स्फुटामेध्यपुत्तलीरूपाम् मांसग्रन्थिला-
लारसरक्तादिक्लत्स्नेनाशुद्धवस्तुनिर्मितक्रीडापुत्तलिकानतिरिक्तस्वभावाम् (अपि)
स्त्रियम् नारीम् दृष्ट्वा प्रत्यक्षमालोक्य विद्वान् अधीतबहुशास्त्रोऽपि (मूर्खस्त्वज्ञानेन
विचार ही जीत लेगा। अच्छी बात। उसे ही विजयके लिए आदेश देता हूँ। वेदवति, वस्तु-
विचारको पुकारो।
प्रतीहारी—जैसी महाराजकी आज्ञा। (जाकर वस्तुविचारके साथ प्रवेश करती है)
वस्तुविचार—अहो विना विचारके सौन्दर्यसे बढ़ने वाले कामने संसारको वञ्चित कर
रखा है।
अथवा दुरात्मा कान्ता, कमलनयना, विपुल नितम्बा, पीनोच्चकुचा, सुवदना, सुभ्रू