प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)
Prabodhachandrodaya of Krishnamishra with Commentary
कृष्णमिश्र यति द्वारा
पृष्ठ 157, कुल 274 में से
संदर्भ में पढ़ेंचतुर्थोऽङ्कः १३६
शान्तेऽनन्तमहिम्नि निर्मलचिदानन्दे तरङ्गावली-
निर्मुक्तेऽमृतसागराम्भसि मनाङ्मग्नोऽपि नाचामति ।
निःसारे मृगतृष्णिकार्णवजले श्रान्तोऽपि मूढः पिव-
त्याचामत्यवगाहतेऽभिरमते मज्जत्यथोन्मज्जति ॥ ६ ॥
अथवा संसारचक्रवाहकस्य महामोहस्याबोधो मूलम् । तस्य च
तत्त्वावबोधादेव निवृत्तिः । यतः—
शान्त इति० मूढः अविवेकी जनः शान्ते अविद्याविक्षेपरहिते अनन्तमहिम्नि
इयत्तापरिच्छेदरहिते महिमरूपे निर्मलचिदानन्दे आविद्यकदोषशून्यज्ञानानन्दरूपे
तरङ्गावलीनिर्मुक्ते उच्चावचप्रपञ्चाहतविकाररहितेऽमृतसागरस्य निरपायसुधासमु-
द्रस्य ब्रह्मानन्दस्याम्भसि जले आध्यात्मिकज्ञाने मग्नः स्वाभेदेन बुडितोऽपि नाचा-
मति अंशतोऽपि तमानन्दं नास्वादयति । ( किन्तु ) निस्सारे पारमार्थिकताविरहि-
तत्वेनातात्त्विके मृगतृष्णिकार्णवजले मृगमरीचिकातुल्ये सांसारिकसुखरूपपयसि श्रान्तः
तत्कृतानेकदुःखबाधितः अपि पिवति आचामति, अवगाहते स्नाति, अभिरमते
प्रसीदति, मज्जति अथ उन्मज्जति यथासम्भवं सर्वविधमप्युपयोगं कुर्वाणो विहरति ।
मूढोऽयं सांसारिको जीवः स्वाभेदेन विभाव्यतया समीपवर्त्तिनि शान्ते सर्वविध-
बाह्योत्पातरहिते अनन्तमहिम्नि अनन्तविस्तारे निर्मले तरङ्गकृतबाधाया अभूमौ
अमृतसागरे अनि मज्ज्य आत्मानन्दं परित्यज्य सांसारिकसुखरूपमरीचिकाजले
सर्वविधमानन्दमनुभवतीत्यतिविचित्रमस्य मूढत्वमिति भावः । अयमात्मरूपोऽ-
मृतसागरः शान्तो निरुपद्रवः, अनन्तश्च नित्यत्वात्, निर्मलो देहेन्द्रियादिविषयमल-
राहित्यात्, अन्यस्तु सागरो नक्रमकरादिकृतोपद्रवसहितः सीमितो मलवांश्च भव-
तीति व्यतिरेकः । अयमस्याशयः—सत्यज्ञानानन्तानन्दात्मकं स्वस्वरूपमजानञ्जीवः
संसारदशामापन्नोऽविद्यावशादन्तःकरणधर्मान्दुःखादुरितादीन् प्राणधर्मान् क्षुत्पिपा-
सादीन् देहधर्माञ्जरामरणादीन् ममाहमित्यभिमानमूलकान्पुत्रमित्रकलत्रादिगतसा
कल्यवैकल्यादीनात्मन्यध्यस्य कष्टमनुभवतीति ॥ ६ ॥
संसारचक्रवाहकस्य-जन्मनः परतोऽन्यजन्मेति संसारपरम्परावाहिनः। अबोधः-
शान्त, अनन्तमहिमाशाली, स्वच्छज्ञानस्वरूप, तरङ्गावलीशून्य, अमृतसमुद्रके जलमें
डूब कर भी प्यास नहीं बुझाता है और निःसार मृगतृष्णाजलमे मूढ श्रान्त पामरजन
पीता है, नहाता है, प्रसन्न होता है और डूबता-उतराता है ॥ ६ ॥
अथवा—संसारचक्रप्रवर्त्तक महामोहका अज्ञान ही मूल है, उसकी निवृत्ति तत्त्वान
बोधसे ही होगी । क्योकिः—