प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)
Prabodhachandrodaya of Krishnamishra with Commentary
कृष्णमिश्र यति द्वारा
पृष्ठ 155, कुल 274 में से
संदर्भ में पढ़ेंचतुर्थोऽङ्कः १३७
ध्यायन्निमां सुखिनि दुःखिनि चानुकम्पां
पुण्यक्रियेषु मुदितां कुमताबुपेक्षाम् ।
एवं प्रसादमुपयाति हि रागलोभ-
द्वेषादिदोषकलुषोऽप्ययमन्तरात्मा ॥ ५ ॥
तदेवं चतस्रोऽपि भगिन्यो वयं तदभ्युदयकारणेनैव वासरान्नयामः ।
कुत्रेदानिं प्रियसखी महाराजमालोकयति ।
श्रद्धा—देव्या एतदेवमुक्तम् । अस्ति राढाभिधानो जनपदः । तत्र
चतस्रो भगिन्यः-मैत्रीकरुणामुदितोपेक्षाः । विवेकसिद्धिकारणेन-विवेकस्याभि-
मतं साधयितुम् ।
ध्यायन्निमामिति० अन्तरात्मा जीवः सुखिनि सुखयुक्ते जीवे इमाम् मैत्रीम् ,
दुःखिनि खिन्ने च जीवे अनुकम्पाम् कृपाम् करुणावृत्तिम् , पुण्या क्रिया येषां ते
पुण्यक्रियाः सुकृतिनस्तेषु मुदिताम् सन्तोषरूपाम् , कुमतौ कुकार्यकरे उपेक्षाम्
उदासीनतारूपाम् ध्यायन् चिन्तयन् एवम् अनेन प्रकारेण रागलोभद्वेषादिदोषक-
लुषः तैस्तैर्दोषैर्मलिनीकृतोऽपि प्रसादम् निर्मलत्वलक्षणां शुद्धिं निर्दोषताम् उपयाति ।
अयमर्थः—अन्तरात्मा रागादिदोषदूषितोऽपि चतसृभिराभिर्वृत्तिभिरुपेतः कतकरजो-
मिश्रितजलवदपेतमलः स्वाभाविकीं निर्मलतां प्राप्नोति, उपेक्षया कुमतिसंसर्ग-
निरासाद्रागादयः परास्ताः, पुण्यक्रियेषु मुदिताऽऽलम्बनात् संगतिमाहात्म्यान्मोह-
निरासः, दुःखिषु करुणया क्रोधादिविनाशः, सुखिनि मैत्र्या द्वेषप्रशमः, तदेवं मैत्र्या-
दिभिश्चित्ते निर्मलतामापादिते निर्मलत्वमात्मनो भासत इति । उक्तश्चायमर्थः सूत्र-
रूपेण योगदर्शने—'मैत्रीकरुणामुदितोपेक्षाणां सुखदुःखपुण्यापुण्यविषयाणां भाव-
नातश्चित्तप्रसादनम्' इति । वसन्ततिलकं वृत्तम् , लक्षणमन्यत्रोक्तम् ॥ ५ ॥
वयम्-मैत्र्यादयः । तदभ्युदयकारणेन-विवेकसमुन्नतये । प्रियसखी-भवती मैत्री ।
महाराजमालोकयति-महाराजस्य विवेकस्य दर्शनं प्राप्नोति, महाराजोऽधुना कुत्रा-
स्तीति भावः ।
देव्या-विवेकपत्न्या मत्या । एतत-महाराजस्य स्थानम् । जनपदः-देशः ।
सुखियोंके ऊपर मैत्री, दुःखियोंके ऊपर करुणा, धर्मात्माओंमें मुदिता और दुर्बुद्धियों
पर उपेक्षा इसप्रकार वृत्ति रखनेसे रागद्वेषकलुष होकर भी यह अन्तरात्मा प्रसाद प्राप्त
करता है ॥ ५ ॥
इस प्रकार हम चारों बहनें विवेकके अभ्युदयके लिये ही दिन बिता रही हैं । तुम इस
समय महाराजसे कहाँ मिलोगी ?
श्रद्धा—देवीने इस विषयमें इस प्रकार कहा है । 'राढा नामका एक देश है, वहाँ