सामग्री पर जाएँ
सर्वकोश
प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)

प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)

Prabodhachandrodaya of Krishnamishra with Commentary

कृष्णमिश्र यति द्वारा

DevanagariHindipublished274 पृष्ठ

पृष्ठ 143, कुल 274 में से

संदर्भ में पढ़ें
पृष्ठ 143

कापालिकः— प्रिये, अमूल्यक्रीतं दासद्वयं लब्धम् । तन्नृत्यावस्तावत् ।
( उभौ नृत्यतः )
**क्षपणकः—**अरे भिक्षुक, एष कापालिकोऽथवाचार्यः कापालिक्या
सार्धं शोभनं नृत्यति । तस्मादेताभ्यां सार्धमावामपि नृत्यावः । ( अहो
भिक्खुअ, एसो कावालिओ अहवा आवालिओ कानालिनीए सद्धं सोहणं णच्चेदि ।
ता एदाए सद्धं अम्हेवि णच्चावः )
**भिक्षुः—**आचार्य, महाश्चर्यमेतद्दर्शनम् । यत्राक्लेशमभिमतार्थसिद्धयः
संपद्यन्ते ।
( मदस्खलितं नृत्यतः )
क्षपणकः— ( अयि 'पीनस्तनि' इत्यादि पूर्वमेवोक्त्वा )
**कापालिकः—**कियदेतदाश्चर्यं पश्यसि ।
अत्रानुज्झितचक्षुरादिविषयासङ्गेऽपि सिध्यन्त्यमूर्-
रत्यासन्नमहोदयाः प्रणयिनावष्टौ महासिद्धयः ।
**आवाम्-**भिक्षुक्षपणकौ ।
**महदाश्चर्यम्-**अत्याश्चर्यकरम् । **अक्लेशम्-**विनैव कायखेदम् । अभिमतार्थसि-
**द्धयः-**ईप्सितपदार्थसिद्धयः । **कियदेतत्-**अत्यल्पमिदम् ।
अत्रानुज्झितेति० अत्र कापालिकमते प्रणयिना समासक्तेन साधकेन अनुज्झित-
चक्षुरादिविषयासङ्गेऽपि रूपादि争प्साऽपरित्यागेऽपि अमूः तास्ताः अष्टौ महासिद्धयः
अणिमाद्याः अत्यासन्नमहोदयाः समीपतरवर्तिमहाफलाः सत्यः सिद्ध्यन्ति सिद्धा जा-
**कापालिक—**बिना दामके दो दास मिल गये हैं, चलो, हम दोनों नाचे । ( दोनों
नाचते हैं )
**क्षपणक—**अरे भिक्षु, यह कापालिक अथवा आचार्य कापालिकीके साथ बडी अच्छी
तरह नाच रहा है, इन दोनोंके साथ हम दोनों भी नाचें ।
**भिक्षु—**आचार्य, यह तो अद्भुतदर्शन है जिसमें बिना कष्टके अभिमत सिद्धि हो
जाती है ।
( मस्तीमें गिरते पड़ते नाचते हैं )
क्षपणक—( 'अयि पीनस्तनि' इत्यादि पूर्वोक्त कहकर )
**कापालिक—**इतने ही में क्या आश्चर्य देखते हो ।
इस मतमे विषयके साथ सम्बन्ध कायम रखने पर भी महोदययुत सभी सिद्धियाँ