सामग्री पर जाएँ
सर्वकोश
फलदीपिका (मन्त्रेश्वर दैवज्ञ - सम्पूर्ण २८ अध्याय, भाव-विचार, दशा-फल एवं गोचर सटीक)

फलदीपिका (मन्त्रेश्वर दैवज्ञ - सम्पूर्ण २८ अध्याय, भाव-विचार, दशा-फल एवं गोचर सटीक)

Phaladeepika of Mantreshwara Daivajna with Commentary

मन्त्रेश्वर दैवज्ञ (टीकाकार: पं. सूर्यनारायण व्यास) द्वारा

DevanagariHindipublished684 पृष्ठ

पृष्ठ 673, कुल 684 में से

संदर्भ में पढ़ें
पृष्ठ 673

अट्ठाईसवां अध्याय
उपसंहाराध्याय
संज्ञाध्यायः कारको वर्गसंज्ञो
वीर्याध्यायः कर्मजीवोऽथ योगः ।
योगो राज्ञां राशिशीलो ग्रहाणां
मेषादीनां लग्नसम्प्राप्तशीलः ॥१॥
भार्याभावो जातकं कामिनीनां
सूनुर्बालारिष्टयोगोऽथ रोगः ।
भावस्तस्माद्द्वादशावाप्तभावा
निर्याणं स्याद् द्विग्रहाद्याश्च तस्मात् ॥२॥
सूर्यादीनां यत्फलं तद्दशाप्तं
भावादीनामीश्वराङ्गा दशा च ।
सूर्यादीनामन्तराख्या दशाऽथ
सव्यासव्या कालचक्रोऽष्टवर्गः ॥३॥
होरासारावाप्तयद्यष्टवर्गो
मान्द्यध्यायो गोचर स्यात्प्रव्रज्यः ।
अध्यायानां विंशतिः सप्तयुक्तान्
जन्मन्येतद्गोलजं संवदामि ॥४॥
श्रीशालिवाटिजातेन मया मन्त्रेश्वरेण वै ।
दैवज्ञेन द्विजाग्रेण सतां ज्योतिर्विदां मुदे ॥५॥
सुकुन्तलाम्बां सम्पूज्य सर्वाभीष्टप्रदायिनीम् ।
तत्कटाक्षविशेषेण कृता या फलदीपिका ॥६॥