पाटीगणित (श्रीधराचार्य - प्राचीन संस्कृत टीका एवं प्रो. कृपाशंकर शुक्ल सविस्तार व्याख्या)

पाटीगणित (श्रीधराचार्य - प्राचीन संस्कृत टीका एवं प्रो. कृपाशंकर शुक्ल सविस्तार व्याख्या)
Patiganita of Sridharacharya with Commentary
श्रीधराचार्य (सम्पादक: प्रो. कृपाशंकर शुक्ल) द्वारा
DevanagariHindipublished337 पृष्ठ
पृष्ठ 228, कुल 337 में से
संदर्भ में पढ़ेंपृष्ठ 228
क्षेत्रव्यवहारः १७३
न्यासः—
करणम्—अत्र मध्यविस्तारस्य भूमानत्वं, तेन तत एव विभज्य क्षेत्रद्वयकरणात् न्यासः
भूः ३, वदनं ०, समासः ३, अर्धं ३/२, मध्यलम्बेन ४ सङ्गुणितं ६, एतद्¹ द्विगुणं
कृत्वा बालेन्दुक्षेत्रफलम् १२।
अन्ये मध्यविस्तारस्यार्धं भूः वदनं च प्रकल्प्य पार्श्वभुजाभ्यामष्टकाभ्यामायतचतुर-
श्रात्फलमानयन्ति, यथा
न्यासः—
लम्बेन चात्र पार्श्वभुजतुल्येन भाव्यं, तेन करणम्—भूः, ३/२, वदनं ३/२, समासः ३,
अर्धं ३/२ लम्बेन² ८ सङ्गुणितं १२।
उदाहरणम् —
वज्रे मध्यायामो दशहस्तः पञ्चहस्तके वदने ।
मध्यव्यासो³ द्विकरः कियत् फलं त(स्य) द्विचतुरश्रात् ॥ १३३ ॥
¹ एत । ² बेन । ³ मधूव्यासो ।