पाटीगणित (श्रीधराचार्य - प्राचीन संस्कृत टीका एवं प्रो. कृपाशंकर शुक्ल सविस्तार व्याख्या)
Patiganita of Sridharacharya with Commentary
श्रीधराचार्य (सम्पादक: प्रो. कृपाशंकर शुक्ल) द्वारा
पृष्ठ 161, कुल 337 में से
संदर्भ में पढ़ें१०६ मिश्रकव्यवहारः
विपरीतोद्देशके करणसूत्रमार्या—
धनमपचयः क्षयो धनमथ गुणकारो हरो हरो गुणकृत् ।
वर्गः पदं पदं कृतिरिति विपरीते विधिर्दृष्टः ॥ ७८ ॥
यत्र योगापचयगुणभागवर्गणामूलाप्तिघनघनमूलाप्त्यादिस्वरूपं¹ दृश्यं भवति तत्र
विपरीतेन² पूर्वराशिमानयेत् । यस्य योगेन सञ्चितं दृश्यते तेनैव तद्वियुतं पूर्वराशिर्भवति ।
एवमन्यक्रियासु कार्यमिति³ ।
उदाहरणम्—
कस्मिन् पञ्चार्धगुणे त्रिहृते वर्गीकृते नवोपेते ।
पदमेकेन विहीनं रूपचतुष्कं भवेत्कथय ॥ १०२ ॥
स को नु राशिर्यस्मिन् पञ्चार्धगुणिते त्रिभिर्भक्ते ततो वर्णिते नवभिः सहिते⁴ स्वमूल-
च्छिन्ने⁵ रूपविहीने शेषं चत्वारो भवन्तीति ।
न्यासः—
| गु | भा | व | क्षे | मू | शोध्य | दृ |
| ५ | ३ | १ | ९ | १ | १ | ४ |
| २ | | | | | | |
प्रश्नक्रमादुत्क्रमेण⁶ तथा गुणभागादिविनिमयेन दृश्ये विपरीतं⁷ कार्यमिति । दृश्यम् ४
आसन्नेन शोध्येन रूपेण युक्तं ५, मूलेन वर्गितं २५, क्षेपेण ९ शोधितं १६, वर्गेण गृहीतमूलं ४,
भागेन ३ गुणितं १२, गुणेन | ५/२ | भक्तम् | २४/५ |, एष राशिः । अस्य हि सार्धद्वितयगुणेन १२,
त्रिभिर्भागे ४, वर्गे १६, नवयोगे २५, मूलग्रहणे ५, रूपापचये ४ ।
इति व्याख्यातो मिश्रकव्यवहारः प्रथमः ।
¹ °वर्गणामूलाप्तिघनघनमूलाप्तादि° । ² विपरीत । ³ °क्रियास्वकार्य° । ⁴ सहितो ।
⁵ स्वमूलच्छिन्नो । ⁶ °क्रमाद्युत्क्रमेण । ⁷ विपरीत्तं ।