सामग्री पर जाएँ
सर्वकोश
पाटीगणित (श्रीधराचार्य - प्राचीन संस्कृत टीका एवं प्रो. कृपाशंकर शुक्ल सविस्तार व्याख्या)

पाटीगणित (श्रीधराचार्य - प्राचीन संस्कृत टीका एवं प्रो. कृपाशंकर शुक्ल सविस्तार व्याख्या)

Patiganita of Sridharacharya with Commentary

श्रीधराचार्य (सम्पादक: प्रो. कृपाशंकर शुक्ल) द्वारा

DevanagariHindipublished337 पृष्ठ

पृष्ठ 103, कुल 337 में से

संदर्भ में पढ़ें
पृष्ठ 103

४८ पञ्चसप्तनवराशिकम्
१ २
४ ३
३ ५
४
१
पक्षयोः समच्छेदे लोपे, शेषच्छेदव्यत्यासे यथासम्भवं च राशीनामपवर्तने यथास्वपक्षराश्यभ्यासे
प्रथमपक्षेण द्वितीयाल्लब्धं रू १ भागाः ११९/१३२ ।
उदाहरणम्—
अष्टौ व्रीहिद्रोणा नीयन्ते योजनं पणैः षड्भिः ।
खारी द्रोणेन युता कियता वद योजनत्रितयम् ॥ ४३ ॥
एकं योजनम् अष्टौ व्रीहिद्रोणाः षड्भिः पणैर्यदि नीयन्ते तत् त्रीणि योजनानि द्रोण-
युता खारी, सप्तदशद्रोणाः,१ सा कियता नीयते ।
तत्र भृतिर्जिज्ञासितेति तत्सजातीया भृतिः तत्सम्बन्धिनौ च नेतव्याध्वानानित्येकः२
पक्षः, अज्ञातभृतिसम्बन्धिनौ नेतव्याध्वानौ३ द्वितीयः ( पक्षः ) । स प्रतिपक्षनीतभृतिसहितो
बहुराशितां प्रतिपन्नः आद्यपक्षेण भाज्यः । न्यासः १/८ | ३/१७/६ | भाजकपक्षाष्टकस्य भाज्यपक्ष-
षट्कस्य च द्वाभ्यामपवर्तने४ यथास्वपक्षराश्यभ्यासे भाजकेन ४ भाज्यात् १५३ लब्धं पणाः
३८, पणेभ्यः पुराणौ द्वौ २ पणाः ६, काकनी५ १ ।
उदाहरणम्—
यदि कर्मकरत्रितयं दिवसद्वितयेन६ पञ्च रूपाणि ।
प्राप्नोति तदष्टजना दिवसैर्नवभिः किमाचक्ष्व ॥ ४४ ॥
त्रयः कर्मकराः द्वाभ्यां दिवसाभ्यां पञ्च रूपाणि प्राप्नुवन्ति यदि भृतिं लभन्ते, तदष्टौ
नवभिः किम् ।
अत्र भृतिर्जिज्ञासिता तत्सजातीया भृतिस्तत्सम्बन्धिनौ च कालकर्तृराशी इत्येकः पक्षः,
अज्ञातभृतिसम्बन्धिनौ कालकर्तृराशी इत्यन्यः । प्रथमपक्षानीतभृतिसहितो बहुराशितां प्राप्नोति
भाज्यः, आद्यो भाजकः । एतत्पक्षस्थद्विकेन भाज्यपक्षस्थाष्टकस्यापवर्त्तने आद्यराश्यभ्यासेन
( ३ अन्यराश्यभ्यासे ) १८० भक्ते लब्धम् ६० ।
सप्तनवराश्युदाहरणानि७—
द्विकव्यासाष्टकायामः कम्बलो लभते दश ।
ततोऽन्यौ द्वौ त्रिकव्यासौ नवायामौ किमाप्नुतः ॥ ४५ ॥८
१ सप्तदशद्रोणा । २ नैतव्या° । ३ ऽध्वानो । ४ द्वाभ्यामपवर्तते । ५ काकिन्यौ २ ।
६ द्वितियेन । ७ सप्तराश्युदाहरणानि । ८ त्रिशतिकातो गृहीतम्, त्रिश ५१ ।