पाटीगणित (श्रीधराचार्य - प्राचीन संस्कृत टीका एवं प्रो. कृपाशंकर शुक्ल सविस्तार व्याख्या)
Patiganita of Sridharacharya with Commentary
श्रीधराचार्य (सम्पादक: प्रो. कृपाशंकर शुक्ल) द्वारा
पृष्ठ 102, कुल 337 में से
संदर्भ में पढ़ेंज्ञायते तौ प्रमाणराशी; यस्य मूलस्य पादान्वितषष्ट्यात्मनो येन यावता कालेन
सार्धमाससप्तकात्मना¹ लाभो ज्ञातुमिष्यते तौ इच्छाराशी । ज्ञातलाभः ज्ञातसम्बन्धिनौ
चेत्येकः पक्षः, अज्ञातसम्बन्धिनामितरः² । न्यासः--
१ ० ० ७
० १
१ २
३ ६०
२ १
४ ४
०
'भागानुबन्धजातावि'ति सवर्णनम् । लाभे इच्छापक्षं नीते स एव बहुराशिपक्षतामा-
पन्नोऽन्येन³ भाज्यः । छेदव्यत्यासो⁴ यथास्वपक्षराश्यभ्यासश्च प्राग्वदिति । लब्धं रु २०
भागाः १२५/५७६ ।
उदाहरणम्--
षोडशवर्णिकहेम्नो मूल्यं⁵ षष्टिर्यदा सुवर्णस्य ।
कथय तदा दशवर्णकसुवर्णषष्टेस्त्रियुक्तायाः⁶ ॥ ४१ ॥
षोडशवर्णस्य काञ्चनस्य यः सुवर्णः कर्षः तस्य यदि षष्टिर्मूल्यं तत् त्रियुक्तायाः
सुवर्णषष्टेः त्रिषष्टेः सुवर्णानां दशके वर्णके कियन्मूल्यं स्यात् ।
अत्र मूल्यं ज्ञेयमिति ज्ञातमूल्यं मध्यमो राशिः, तत्सम्बन्धिनौ स्वर्णपरिमाणावर्णौ⁷
प्रमाणराशिः, जिज्ञासितमूल्यसम्बन्धिनौ पण्यतुलावर्णकौ इच्छाराशिः । ज्ञातश्च ज्ञातसम्बन्धिनौ
चेत्येकः पक्षः, अज्ञातसम्बन्धिनौ द्वितीयः । प्रथमपक्षात् फले नीते न्यासः
१६ १०
१ ६३
६०
प्रथमपक्षराश्यभ्यासः १६ । द्वितीय(पक्ष)राश्यभ्यासः ३७८०० । प्रथमपक्षेण द्वितीयात् लब्धम्
२३६२ ( भागः १/२ ) ।
उदाहरणम्--
कल्याणसुवर्णदलं गुञ्जोनं सदलविंशतिं लभते ।
सार्धैकादशवर्णकगुञ्जात्रितयं किमाप्नोति ॥ ४२ ॥
अत्र ज्ञेयमूल्यसजातीयं ज्ञातमूल्यं⁸ स्वपण्यद्रव्यतुलावर्णकराशिसहितमेकः पक्षः,
अज्ञातपक्षो द्वितीयः । आद्ये पक्षे माषाष्टकस्य माषपञ्चभागगुञ्जशुद्धिः, 'अधरहरोर्ध्वच्छेद-
वधेऽधोंशोनहरघ्न ऊर्ध्वांशः' इति क्रियते; द्वितीयपक्षे रक्तिकात्रितयं पञ्चच्छेदं क्रियते, शेषराश्यो-
र्भागानुबन्ध इति । द्वितीयं पक्षं फले नीते न्यासः--
¹ सार्धमाससप्तकात्मना । ² अज्ञातम्बन्धिनात्वितरः । ³ पक्षतायापत्रोन्येन । ⁴ छेद-
व्यात्यासो । ⁵ मूल्या । ⁶ दशवर्णिकसुवर्णां । ⁷ स्वर्णां । ⁸ मूल्यं ।