सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)

Paribhashendushekhara of Nagesha Bhatta with Commentary

महामहोपाध्याय नागेश भट्ट (सम्पादक: पं. विश्वनाथ मिश्र) द्वारा

DevanagariHindipublished373 पृष्ठ

२-३ प० विचारः ] तत्त्वप्रकाशिकासमलङ्कृत-भूतिभूषितः १७
अत एव 'पूर्वत्रासिद्धमि'ति सूत्रे भाष्ये त्रिपाद्या असिद्धत्वात्तत्र
सपादसप्ताध्यायीस्थपरिभाषाणामप्रवृत्तिमाशङ्क्य, यद्यपीदं तत्रासिद्धं
तत्त्विह सिद्धमित्युक्त्वा, तावताऽप्यसिद्धिरित्यभिप्रायके कथमिति प्रश्ने—
'कार्यकालं संज्ञापरिभाषं यत्र कार्यं तत्रोपस्थितं द्रष्टव्यमि'त्युक्तम् ।
अत एवेति । परिभाषाणां विधेयार्थस्मरणादेवेत्यर्थः । तावताऽप्यसिद्धिरित्यस्य
संस्कारकस्य सिद्धत्वेऽपि संस्कारकदृष्ट्या संस्कार्यस्यासिद्धत्वेन संस्कारासम्भव इत्यर्थः ।
ननु नागेशमते—परिभाषादेशे येषां शास्त्राणां वाक्यार्थबोधो जातस्तेषु यथो-
देशपक्षः, येषां न जातस्तेषु कार्यकाल इत्यस्य सत्त्वेन तावताऽप्यसिद्धिरिति शङ्को-
त्थितिर्न सम्भवतीति चेत् ; शृणु । यथोद्देशपरिभाषामात्रस्वीकारे अप्रवृत्तिशङ्का,
द्वितीयपरिभाषास्वीकारेण समाधानम् ।
यद्यपीति । अयं भावः—त्रैपादिकं विधिशास्त्रं स्वसंस्काराय परिभाषादेशेऽसिद्ध-
त्वान्न गच्छति ; तथापि सापादिकपरिभाषाशास्त्रमिहागन्तुं शक्नोतीति सिद्धान्तिनोक्ते
पूर्वपक्षी पुनराह—कथमिति । अयं भावः—'पूर्वत्रासिद्धमि'त्यनेन परिभाषादृष्ट्या
त्रैपादिकविधेरसिद्धत्वात् कथं त्रैपादिकविधिं संस्कुर्यादिति ? तत्राऽऽह—कार्यकालमिति ।
अयमाशयः—यथा—कश्चिन्मर्त्य इह लोके देवानपश्यन्नपि भाग्यवशाद्देवैः स्वर्गं
प्राप्यमाणः सर्वान् देवान् पश्यति, हरिं गर्भस्थ इव हेमाद्रिशर्मा मनुष्यो लङ्कां गतो
रावणादिराक्षसानिव तद्देशमाहात्म्यात्, तथेहापि त्रिपाद्यामुपगतं परिभाषाशास्त्रं
त्रैपादिकविधिं पश्यति देशमाहात्म्यादेव । अन्यथा कार्यकालपक्ष उच्छिन्न एव
स्यादिति ।
केचित्तु—एतद्ग्रन्थस्वारस्यात् परिभाषाविषयेऽपि प्राचीनोक्त-कार्यकाल एव
परिभाषायां प्रमाणमाह मूले—अत एवेति । परिभाषाणामप्रवृत्तिमिति । संज्ञा-
शास्त्राणान्तु जातशक्तिग्रहेणैव त्रिपाद्यां व्यवहारस्य सिद्धत्वादिति प्रागुक्तत्वात् परिभाषाणा-
मित्युक्तमिति भावः । इदम् = त्रिपादीस्थम् । तत्र = सपादसप्ताध्यायीस्थे परिभाषाशास्त्रे ।
तत्तु = परिभाषाशास्त्रन्तु । इह = त्रिपाद्यामित्यर्थः ।
एतद्ग्रन्थस्वारस्यादिति । 'पूर्वत्रासिद्धम्' इति सूत्रस्थशङ्कासमाधानपर-भाष्यग्रन्थ-
स्वारस्यादिति तदर्थः । नागेशमते कार्यकालपक्षेऽपि परिभाषाशास्त्रं स्वदेशे तिष्ठदेव कथमसिद्धं
त्रैपादिकशास्त्रं संस्कुर्यात्, अतस्तत्रोपस्थानं परिभाषाशास्त्राणां तैरपि मन्तव्यम् । तथा सति
'यत्र कार्यं तत्रोपस्थितं द्रष्टव्यमि'ति भाष्यं स्वरसत उपपद्यते । तद्देशस्थत्वेन च पूर्वदेशस्थत्व-
व्याघातात् 'पूर्वत्रासिद्धम्' इत्यस्याप्रवृत्त्या निष्टङ्कं संस्कारकशास्त्रप्रवृत्तिः सिद्ध्यतीति भावः ।
व्यापारार्थमन्यत्र गमने सम्प्रति तद्देशे एव तिष्ठामि, न तु स्वाभिजनदेशे इतिवत् परिभाषाणां
कार्यकालपक्षे त्रिपादीस्थत्वव्यवहार एव भविष्यतीति तत्त्वम् । तस्मात् प्राचीनमतमेव ज्यायः ।
प्राचीनोक्तेति । तथा सति संज्ञापरिभाषयोरुभयोरपि विषये एकरूपता सिद्धयती-
त्यपरमनुकूलम् ।
३

१८ परिभाषेन्दुशेखरः [ १ प्रकरणे-
न च कार्यकालपक्षे 'ङमो ह्रस्वाद्वि'त्यादौ 'तस्मादित्युत्तरस्य', 'तस्मि-
न्निति निर्दिष्टे पूर्वस्ये'ति परिभाषाद्वयोपस्थितौ परत्वाद् 'उभयनिर्देशे पञ्चमी-
निर्देशो बलीयानि'ति तस्मिन्नितिसूत्रस्थभाष्यासङ्गतिः, उभयोरेकदेशस्थत्वेन
परत्वादित्यस्यासङ्गत्त्यापत्ते, स्पष्टं चेदम् 'इको गुणे'त्यत्र कैयट इति वाच्यम्;
विप्रतिषेधसूत्रेऽष्टाध्यायीपाठकृतपरत्वस्याश्रयेणादोषात् । नहि कार्यकालपक्ष
इत्येतावता तदपैति । पक्षद्वयेऽपि प्रदेशेषु स्वबुद्धिजननेनाविशेषात् । नहि
तत्पक्षेऽप्यचेतनस्य शास्त्रस्य स्वदेशं विहाय तद्देशगमनं सम्भवति । नाप्य-
नागेशसम्मतः । अत एव नागेशेन केचिदित्युक्तम् । अत एव चाग्रिमः 'न चे'ति शङ्का-
ग्रन्थोऽपि सङ्गच्छते, अन्यथा स्वदेशत्यागाभावस्य तत्तद्देशस्थत्वं वारयतीत्यादिना
उक्तत्वेनैतद्ग्रन्थस्य निर्दलत्वापत्तिरित्याहुः ।
अन्ये तु- नागेशमते सर्वपरिभाषाविषये कार्यकालपक्ष एव ; 'सप्तमीनिर्देशादि
क्वे'त्यत्र अतद्गुणसंविज्ञानबहुव्रीहिणा विप्रतिषेधे, 'असिद्धं बहिरङ्गम, सन्निपात०,
अनुदात्तं पदमेके'ति चतसृणां परिभाषाणां सङ्ग्रहः । 'कश्चिदेकदेशस्थ' इति भाष्यन्तु
उक्तपरिभाषाचतुष्टयविषयमेव । अत एव कार्यकालपक्षे 'ङमो ह्रस्वादि'ति शङ्काग्रन्थः
सङ्गच्छत इति वदन्ति ।
न चेति । यद्यपि 'तद्देशस्थत्वं वारयती'त्युक्त्या नैतच्छङ्कोत्थितिरस्तथापि प्राचीन-
मतानुसारणैतद्ग्रन्थसत्त्वान्न दोषः । अत एवात्र “स्पष्टं चेदमिको गुण इत्यत्र कैयट”
इत्युक्तम् । विधिवाक्येनैकवाक्यत्वाद्वा, स्वदेशं विहाय पथिकवद्देशान्तरगमनाद्वा,
प्रदेशेऽस्मदादिबुद्धिजनननाद्वा स्वदेशत्याग इत्याक्षेपाणां क्रमेण निरासमाह-नहीति ।
प्रदेशेषु = विधिवाक्यविषये । स्वबुद्धिजननेन = स्वविधेयार्थबोधनेन । अविशेषात् = विधि-
वाक्यैकवाक्यतायाः पक्षद्वयेऽपि सत्त्वादित्यर्थः । यद्वा-प्रदेशेषु = परिभाषादेशेषु ।
स्वबुद्धिजननेन = सफलवाक्यार्थबोधेन, अविशेषात् = पक्षद्वयेऽपि परिभाषाणां पाठदेशस्यैव
मुख्यदेशत्वेन तदनुरोधेन विप्रतिषेधशास्त्रप्रवृत्तेर्वक्तव्यतयाऽत्र विशेषाभावादित्यर्थः ।
संज्ञाशास्त्राणां कार्यकालपक्षे तु विधिदेश एव सफलवाक्यार्थबोधसत्त्वेन
तद्देशस्यैव मुख्यदेशतया 'अयादिभ्य' इति भाष्यसङ्गतिरिति तत्त्वम् । द्वितीयं
निरस्यति-नहीति । तृतीयं निरस्यति-नापीति । न च 'अयादिभ्य' इति
भाष्यासङ्गतिः ; तत्रत्यसंज्ञापदस्य संज्ञाकार्यप्रकृतिभावोपलक्षकत्वात्, परत्वादित्यस्य
अपवादत्वादित्यर्थकत्वाद्वा ।
मूले-स्पष्टं चेदं० कैयट इति । तत्र क्रोष्ट्रीयसम्मतविप्रतिषेधखण्डनावसरे 'नैष युक्तो
विप्रतिषेधः' इति भाष्यप्रतीकमुपादाय 'यथोद्देशे परिभाषयोः पौर्वापर्यम्, न तु कार्यकालतायाम्'
इति हि तेनोक्तम् ।
केचिदित्युक्तमिति । अन्यथा 'परे तु' इत्यादिना वदेदिति भावः ।

२-३ प० विचारः ] तत्त्वप्रकाशिकासमलङ्कृत-भूतिभूषितः १९
स्मदादिबुद्धिजननेन स्वदेशत्यागो भवति । अत एव भाष्ये एकदेशस्थस्यैव
सर्वशास्त्राभिज्वालकत्वमुक्तम् । अत एव तस्मिन्निति सूत्रे कैयटः- 'सूत्रपाठा-
पेक्षया परत्वस्य व्यवस्थापकत्वमि'ति । 'इको गुणे'ति-सूत्रस्थकैयटस्तु चिन्त्य
एव, अन्यथा सर्वशास्त्राणां प्रयोगार्थत्वेन प्रयोगरूपैकदेशस्थत्वेन क्वापि परत्वं
न स्यात् । किञ्च 'किङिति चे'ति सूत्रस्थकैयटरीत्या विधिसूत्राणां यथोद्देशपक्षे
प्राञ्चस्तु-यत्र मुख्यदेशगतं परत्वमादाय व्यवस्था न सम्भवति, तत्र गौण-
परत्वमङ्गीक्रियते ; सफलवाक्यार्थबोधाधिकरणदेशश्च मुख्यदेश इत्युक्तमेव । 'ङम्'
इत्यत्र कार्यकालपक्षे द्वयोरेकदेशस्थत्वेन तदसम्भवात् गौणं पाठदेशमादाय व्यवस्था ।
'अयादिभ्य' इत्यत्र तु मुख्यदेशमादाय व्यवस्थासम्भवान्नाष्टाध्यायीपाठकृतं गौणं
तमादाय 'विप्रतिषेध' इत्यस्य प्रवृत्तिः । अत एव "पट्व्या, मृद्व्या' इत्यत्र लक्ष्य-
गतगौणपरत्वमादाय परत्वात् परयणादेशः ; 'परिवीरित्यत्र परत्वादीर्घ' इति च
भाष्योक्तं सङ्गच्छत इति प्राहुः । ॥ इति कार्यकालपक्षविचारः ॥
वस्तुतः-यथोद्देश-कार्यकालपक्षयोर्निरुक्तबीजकत्वे विधिशास्त्रादावपि तत्-
सम्भवेन संज्ञापरिभाषामात्रविषयकत्वमशक्यं वक्तुम् । किञ्च-'यथोद्देशमि'-
त्यादेः परिभाषात्वव्यवहारप्रयोजक-विषयसङ्कोचकत्वादेरभावेन परिभाषात्वमप्यशक्यं
वक्तुम् । अत एव वाक्यसंस्कार-पदसंस्कारपक्षादीनां परिभाषात्वेन व्यवहारः
शास्त्रकृच्छैलीपरिशीलितैः क्वचिदपि नोपलभ्यते । भाष्ये तत्र तत्र यथोद्देश-
मित्याद्युल्लेखस्तु प्रकारद्वयस्यैव सम्भवाद्वस्तुस्वरूप-परिकीर्तनपरः । किञ्च-प्रदर्शित-
मूलकैयटपक्षद्वयोपन्यासस्य विशिष्य फलमप्यशक्यं वक्तुम् । न तावत् 'तस्मिन्निती'-
त्यादेस्त्रिपाद्यां प्रवृत्तिः कार्यकालपक्षफलम्, शास्त्रत्वसम्पादकपरिभाषाणां त्रिपाद्यां
प्रवृत्तेः पक्षद्वयेऽपि सूपपादत्वात् । तद्दृष्ट्या त्रिपाद्या असिद्धत्वन्तु न ; त्रैपादिकविधि-
शास्त्राणां शास्त्रत्वसम्पादकगुणशास्त्रप्रवृत्तिः प्रागप्रामाण्यज्ञानानास्कन्दितबोध-
जनकत्वरूपशास्त्रत्वस्यैव असम्भवाच्छास्त्रत्वमुपजीव्यासिद्धत्वबोधकेन 'पूर्वत्रासिद्धमि'-
त्यनेन असिद्धत्वबोधनस्याशक्यत्वात् । 'पूर्वत्रे'त्यनेन च शास्त्रत्वेन रूपेणैवासिद्धत्व-
बोधनमावश्यकम् । अत एव 'रोरी'त्यादौ उत्वादिघटितनिर्देशसङ्गतिः । शास्त्रत्वा-
वच्छिन्नोद्देश्यताकं 'असिद्धं बहिरङ्गमन्तरङ्गे, अनुदात्तमित्यादिपरिभाषाचतुष्टयन्तु,
त्रिपाद्यां न प्रवर्तते, एतत्प्रवृत्तितः प्रागेव शास्त्रत्वस्य सिद्धतया 'पूर्वत्रासिद्धमि'त्य-
नेनासिद्धत्वबोधनस्य दुर्निवारत्वात् । एवं यथोद्देशपक्षस्य 'आगच्छत्तमग्नी ३' इत्यपि
न फलम्, पक्षद्वयस्यैवाभावेन संज्ञासूत्रदृष्ट्या प्लुतस्यासिद्धत्वेन प्रगृह्यसंज्ञायां
मूले-परत्वं न स्यादिति । तथा सति विप्रतिषेधशास्त्रासङ्गतिरिति भावः ।
ननु विप्रतिषेधशास्त्रासङ्गतिभयात् प्रयोगरूपो देशो न गृह्यते इत्यरुचेराह-किञ्चेति ।

परिभाषादेशे सन्निधानेन तेषां परत्वं व्याहन्येत । एवञ्च वृक्षेभ्य इत्यत्र ‘सुपि
चे’त्यतः परत्वाद् ‘बहुवचने झल्येदि’त्येत्त्वमित्याद्युच्छिद्येत, इत्यलम् ॥३॥
इत्संज्ञका अनुबन्धास्तेष्वयवानवयवत्वसन्देह आह—
नानुनासिकः । शास्त्रे परत्व-पूर्वत्वे अष्टाध्यायीपाठकृते एव । एवं स्थिते योऽत्र बहुशः
“प्राचीन-नवीन-मतविवेक-परिश्रमः, पदैकवाक्यता-वाक्यैकवाक्यतेत्यादिविचारः, स
सर्वोऽपि काकदन्तपरीक्षावदुपेक्षणीय एवेति दिक् ॥ ३ ॥
यथोद्देशमित्यत्र संज्ञायाः प्रस्तुतत्वात् इत्संज्ञोत्तरं प्रत्याहार इति भाष्येण
इत्संज्ञायाः सर्वशास्त्रप्रवृत्तेः प्राग्भावित्वेन प्राधान्याद्वा तद्विषयिणीं परिभाषां वक्तु-
मुपक्रमते—इत्संज्ञका अनुबन्धा इति । इत्संज्ञोपलक्षणम्, तेन इत्संज्ञायोग्यत्वमनुबन्धत्व-
मिति फलितम् । अवयवानवयवत्वसन्देह इति । बोधकावयवानवयवत्वसन्देहे इत्यर्थः ।
एतेन सन्घटकनकारे सन्निरूपितावयवत्वमस्ति न वा, सन्निरूपितावयवत्वमस्ति
न वे'त्युभयविधसन्देहस्य श्रोत्रेणैव निवर्त्यतया नानुमानापेक्षेत्यपास्तम् ; 'सनो बोध-
कत्वं सशब्दस्य वे'ति बोधकत्वसंशयस्य तत्प्रयुक्तस्य सनो नकारे बोधकावयवान-
वयवत्वसन्देहस्य च श्रोत्रेणानिवर्त्यतया अनुमानस्योपयोग इति भावः । सन्देहेऽन्य-
तरोपादानेनैव सिद्धे उभयोपादानं परिभाषाद्वयसाधारणमिदमवतरणमिति बोध-
यितुम् । अनवयवत्वसन्देहे इत्युक्तौ तस्यानवयवत्वतदभावान्यतरकोटिकसन्देह इत्य-
र्थात् 'अनवयवत्वाभाववान् अनवयवत्वव्याप्यवान् वे'ति सन्देहस्यापि अनवयवत्व-
सन्देहरूपत्वेन 'एकान्ता अनुबन्धाः' इत्यनुमितीय-पक्षतात्वं न स्यात् । अवयवत्व-
सन्देह इत्युक्तौ तु 'अवयवत्ववान् अवयवत्वाभावव्याप्यवान् वे'ति सन्देहस्यापि तद्रूप-
त्वेन 'अनेकान्ता' इत्यनुमितीयपक्षतात्वं च न स्यात्, प्राचीनैः साध्य-तदभावा-
मूले—परत्वं व्याहन्येनेति । न चेष्टापत्तिरेव, अत आह—एवञ्चेति । उच्छिद्येतेति ।
इदमप्यसङ्गतम् ; मुख्यासम्भवेऽपि गौणपरत्वग्रहणस्य सर्वसम्मतत्वादिति भावः ॥ ३ ॥
उपक्रमते—मूले इत्संज्ञा इति । यच्छब्दयोगः प्राथम्यमिति बलेनानुबन्धस्य पूर्वं प्रयोगा-
र्हत्वेऽपि, 'इत्संज्ञका' इत्यस्य पूर्वं प्रयोगः सङ्गतिप्रदर्शनाय बोध्यः । अनुबन्धपदस्य च स्ववाच्ये
लक्षणा । एतेन उभयोः प्रवृत्तिनिमित्तैक्येन कथमभेदान्वय इति निरस्तम् ।
ननु एकधर्मिकविरुद्धकोटिकज्ञानावगाहिज्ञानस्य सन्देहपदार्थतया सन्देहपदस्य उपात्तधर्म-
विरुद्धकोट्युपस्थापकत्वमित्यस्य स्वभावसिद्धतया एककोट्युपादानेनापि विरुद्धकोट्युपस्थापनं
स्यादेवेति द्वितीयकोट्युपादानं किमर्थमत आह—सन्देहेऽन्यतरोपादानेनेति ।
पक्षतात्वं न स्यादिति । अयम्भावः—प्राचीनाः साध्यसंशयस्यैव पक्षतात्वमभ्युपगच्छन्ति ।
साध्यसंशय इत्यस्य 'साध्यप्रकारकः साध्याभावप्रकारको वा संशयः' इत्येवार्थः, न तु साध्यप्रका-
रकताकत्वे सति साध्याभावप्रकारताकः संशय' इति, पर्वतो वह्नि्यभाववान् वह्निव्याप्यवान् वा'
'पर्वतो वह्निमान् वह्न्यभावव्याप्यवान् वा' इत्यादिसंशयानामपि तैः पक्षतात्वाङ्गीकारात् ।
साध्यप्रकारकत्वमित्यस्य साध्यतावच्छेदकसम्बन्धावच्छिन्नसाध्यतावच्छेदकावच्छिन्नप्रकारकतार्थः ।

४ प० विचारः ] तत्त्वप्रकाशिकासमलङ्कृत-भूतिभूषितः २१
अनेकान्ता अनुबन्धा इति ॥ ४ ॥
-: 𑁍 :-
अनेकान्ता अनवयवा इत्यर्थः । यो ह्यवयवः स कदाचित्तत्रोपलभ्यत
एव, अयं तु न तथा, तदर्थभूते विधेये कदाप्यदर्शनात् । 'शित्किदि'त्यादौ
न्यतरस्मिन् पक्षसम्बन्धावगाहिसंशयस्यैव पक्षतात्वोपगमात्, पर्वतो वह्निमानित्य-
नुमितौ 'पर्वतो वह्न्यभाववान् वह्निव्याप्यवान् वे'ति सन्देहस्य पक्षतात्वाङ्गीकारात् ।
सनः सन् इत्यत्र विभक्तिदर्शनं, 'चिकीर्षती'त्यादिलक्ष्ये अदर्शनं च निरुक्तसंशयीय-
कोटिद्वयोत्थापकं बोध्यम् । व्यतिरेकेण हेतुं निरूपयति—यो ह्यवयवः स कदाचित्तत्रोप-
लभ्यत एव, अय तु न तथेति । तत्रेति । बोधक इत्यर्थः । 'पक्षे हेतुरस्ति नवे'ति
सन्देहनिवृत्त्यर्थं हेतोः साधकं हेत्वन्तरमाह—तदर्थभूत इति । स्वविधेय इत्यर्थः ।
“अनुबन्धा बोधकानवयवाः बोधकावयवत्वेन उपलब्धिविषयत्वाभावात्, अनु-
बन्धाः बोधकावयवत्वेन उपलब्धिविषयत्वाभाववन्तः तदर्थभूते विधेये कदा-
प्यदर्शनादि'त्यनुमानद्वयं हेतुवाक्यं पूर्वमप्रदर्श्य व्याप्तिं प्रदर्शयतो ग्रन्थकारस्याभि-
मतमिति स्वरसतः प्रतीयते ।
केचित्तु—विधेये कदापीति हेतुमेव व्यतिरेकव्याप्त्या पक्षे सङ्घटयति—यो हीति ।
तत्रेति । विधेय इत्यर्थ इति वदन्ति ।
अथैवं प्रकारद्वयेऽपि 'आद्गुणः' इति गकारे हेतुसत्त्वाद् व्यभिचारः ; स्वरूपबोध-
कानवयवत्वसाधनेन निरुक्तगकारे व्यभिचारवारणे तु प्रकृतसंशयाविरोधित्वेनास्य
अनुमानस्याप्रयोजकत्वापत्तिरिति चेन्न । स्वघटितघटकवृत्तिश्रावणप्रत्यक्षविषयताव-
साध्याभावप्रकारताकत्वमित्यस्य च साध्यतावच्छेदकसम्बन्धावच्छिन्नसाध्यतावच्छेदकावच्छिन्नप्रति-
योगिताकाभावत्वावच्छिन्नप्रकारताकत्वमिति । एवञ्च अनवयवत्वसन्देहे इत्येतन्मात्रोक्तौ तस्यान-
वयवत्वतदभावान्यतरकोटिकसंशयार्थकतया तेन 'अनवयवत्वाभाववान् अनवयवत्वव्याप्यवान्
वे'ति संशयस्यापि धर्तुं शक्यतया तस्य 'एकान्ता अनुबन्धा' इत्यनुमितीयपक्षतात्वं न स्यात्,
अवयवत्व-तदभावान्यतरकोटिकसंशयस्यैव अवयवत्वसाध्यकानुमितौ पक्षतात्वाङ्गीकारात्, उक्त-
संशये अवयवत्वस्वरूपानवयवत्वाभावरूपसाध्यप्रकारकत्वेऽपि साध्यतावच्छेदकधर्मावच्छिन्नप्रकार-
ताकत्वाभावान्न तत्त्वम्। एवमग्रेऽपि । उभयकोटिद्वयोपादाने तु तादृशसंशयस्य परस्परं विरुद्धकोटि-
द्वयावगाहित्वेन उभयानुमितीयसाध्यप्रकारताकत्वेन उभयानुमितौ पक्षतात्वं सिद्धमिति ध्येयम् ।
यो ह्यवयवः•••• अयं तु न तथेतीति । व्यतिरेकव्याप्तिप्रदर्शनरूपोदाहरणग्रन्थात्पूर्वं
बोधकावयवत्वेनोपलब्धिविषयत्वाभावादिति हेतुः स्वयमूहनीय इति तात्पर्यम् । एतेन प्रतिज्ञा-
हेतू-दाहरणो-पनय-निगमनानां वाक्यानां क्रमेण लेखनस्योचितत्वेन प्रतिज्ञानन्तरमुदाहरणलेखन-
मसङ्गतमित्यपास्तम् ।
बोधकानवयवा इति । न तु बोध्यानवयवत्वं साध्यम्, 'तस्य लोपः' इति शास्त्रेण तस्य
स्वत एव सिद्धत्वादिति भावः ।
केचित्त्विति । अत्र पक्षे 'तदर्थभूते विधेये' इति हेतुः प्रतिज्ञानन्तरं योजयित्वा व्याख्येयः ;
साध्यं प्रति व्याप्यव्याप्यस्यापि व्याप्यत्वात्तस्य हेतुत्वम् ।
अप्रयोजकत्वापत्तिरिति । 'पर्वतो वह्निमान्न वा' इत्याकारकसंशयानन्तरं 'पर्वतो महा-

च्छेदकधर्मावच्छिन्नविधेयताप्रयोजकपदानवयवत्वस्य साध्यत्वेनादोषात् । यस्मिन्ननव-
यवत्वं निरूपणीयं तत् स्वम्, निरुक्तगकारे हेतोः सत्त्वेऽपि तद्गुणपदस्य गुणपदाव-
च्छिन्नविधेयताप्रयोजकत्वेन स्वघटितघटकवृत्तिश्रावणप्रत्यक्षविषयतावच्छेदकधर्मवि-
च्छिन्नविधेयताप्रयोजकत्वाभावेन तदनवयवरूपसाध्यस्यापि सत्त्वेन न दोषः ।
साध्यदले विधेयता च साक्षादवच्छिन्ना बोध्या, तेन गुणपदस्य गुणपदत्वेन बोधक-
तया अदेङ् निष्ठाविधेयतायाः परम्परया गुणपदत्वावच्छिन्नत्वेऽपि न क्षतिः । न
चैवमप्यकारे विधेये ककारस्य ‘अश्वत्थाम’ इति लक्ष्ये अभावेन कारप्रत्यय-ककारे
हेतोः सत्त्वेन तद्घटितघटकाऽवर्णवृत्तिश्रावणप्रत्यक्षविषयतावच्छेदकत्वरूपधर्मेण
साक्षादवच्छिन्नविधेयताप्रयोजकाऽकाररूपपदावयवत्वस्यैव सत्त्वेन तदनवयवत्व-
रूपसाध्याभावेन व्यभिचार इति वाच्यम् ; साध्यदलीयवृत्त्यन्तपदस्य स्वघटितपद-
घटकयावद्वृत्तीत्यर्थकरणेन ( स्वम् = ककारस्तद्घटितमकार इति पदम्, तद्घटकयाव-
द्वृत्ति-श्रावणप्रत्यक्षविषयतावच्छेदको धर्मश्चाकारशब्दत्वम्, तद्धर्मावच्छिन्नविधेयताया
अप्रसिद्ध्या तत्प्रयोजकपदानवयवत्वस्यापि निरुक्तककारे सत्त्वेन ) अदोषात् ।
न च यावदिति पदनिवेशे ‘द्वयसज्दघ्नञ्मात्रच्’ इति समस्तपदस्य चकाररूपानु-
बन्धघटितपदघटकयावद्रूपतया तद्वृत्तिश्रावणप्रत्यक्षविषयतावच्छेदक-तादृशशब्दत्व-
रूपधर्मावच्छिन्नविधेयताया अप्रसिद्ध्या तत्प्रयोजकपदानवयवत्वस्य केवलान्व-
यित्वेन तदनुमानस्य बोधकावयवत्वबुद्धिनिवर्तकत्वं न संभवतीति वाच्यम् ; याव-
त्पदेन स्वघटितं यत्पदाघटितं पदं तद्घटकानुबन्धेतरविभक्तीतरस्य यावतो ग्रहणेन
अदोषात् । तथा चानुबन्धघटितं पदघटितं विभक्तिघटितं च समुदायमादाय
तथाविधधर्मावच्छिन्नविधेयताप्रसिद्ध्या न दोष उद्भावनीय इति बोध्यम् ।
ननु प्रत्युच्चारणं शब्दो भिद्यते, न वा ? आद्ये—सनः सकारे हेतोः सत्त्वेन
व्यभिचारः । अन्त्ये—सनोऽनुबन्ध-नकारे हेत्वभावाद्भागासिद्धिरिति चेन्न ।
स्वघटितं यत्पदाघटितं पदं तद्घटकप्रयोज्यविधेयतावच्छेदकधर्माभावादिति तदर्थे-
नादोषात् । विधेयतावच्छेदकधर्मश्च विशेष्यविशेषणदलप्रविष्टयावत्पदार्थसङ्कुचितो
ग्राह्यः । तथा च अकाराव्यवहितपूर्वत्वविशिष्टसकारत्वरूपस्य विधेयतावच्छेदकस्य
सत्त्वस्य सकारे सत्त्वेन, विधेयतावच्छेदक-‘सनत्व’स्य सकारोत्तराकारोत्तरनत्वरूपस्य
अनुबन्धे नकारे असत्त्वेन च न दोषः । न च कुकि मुमि चानुबन्धयोर्विधेयता-
वच्छेदकधर्मासत्त्वाद् भागासिद्धिरिति वाच्यम् ; ‘कुक्-मुमोः ककार-मकारौ स्वघटितपद-
घटकबोधकानवयवौ स्वघटितपदघटक-बोधकावयवोत्तरानवयवोत्तरत्वादित्याद्यनुमानेन
दोषवारणात् । स्वमनुबन्धस्तद्घटितं पदम्=कुक्-मुम् इति, तद्घटकबोधकावयवौ =
नसीयवह्न्याभाववान्' इत्यनुमितेरिव प्रकृतसंशयनिवर्तकत्वेन प्रकृतानुमानस्याप्रयोजकत्वमितिभावः ।
स्वघटितपदघटकबोधकानवयवाविति । स्वम् = अनुबन्धस्तद्घटितं पदम् = कुगिति,
तद्घटकबोधकम् = बोधकत्वेन निश्चितं कुगिति, तदनवयवाविति तदर्थः ।
ननु अनुमानान्तरेण ‘कुक्-मुमोः' ककार-मकारयोर्बोधकानवयवत्वसाधनेऽपि पूर्वोक्तानुमानेऽनु-
बन्धत्वस्य पक्षतावच्छेदकत्वाङ्गीकारे भागासिद्धिस्तदवस्थैव, प्रकारान्तरेण (कुक्,मुम्घटक-ककार-

४ प० विचारः ] तत्त्वप्रकाशिकासमलङ्कृत-भूतिभूषितः २३
समीपेऽवयवत्वारोपेण समासो बोध्यः । 'वृच्छण्कठे'त्यादौ णित्त्वप्रयुक्तं
कार्यं पूर्वस्यैवेत्यादि तु व्याख्यानतो निर्णयम् । 'हलन्त्यम्'त्यत्रान्त्यशब्दः
परसमीपबोधकः ॥ ४ ॥
आद्यककार-मकारौ, तदुत्तरानवयवौ = उकारौ, तदुत्तरत्वस्यानुबन्धे वर्तमानत्वात्सम्-
न्वयो बोध्यः ।
यद्वा - स्वघटितपदाघटितपदघटकप्रयोज्यविधेयतावच्छेदकधर्मवत्त्वं-स्वघटितघटक-
बोधकावयवोत्तरानवयवानुत्तरत्वरूपोभयसम्बन्धावच्छिन्नप्रतियोगिताकस्वाभावादित्येक
एव हेतुरनवयवत्वसाधकः । सनादौ अन्त्यसम्बन्धसत्त्वेऽपि आद्यसम्बन्धाभावात्,
कुगादावाद्यसम्बन्धसत्त्वेऽपि अन्त्यसम्बन्धाभावादुभयसम्बन्धावच्छिन्नप्र

२४ परिभाषेन्दुशेखरः [ १ प्रकरणे-
वस्तुतस्तु—
एकान्ताः ॥ ५ ॥
—: ✤ :—
इत्येव न्याय्यम्, शास्त्रे तत्रोपलम्भात्, अन्यत्रानुपलम्भाच्च । अनवयवो
हि काकादिरेकजातीयसम्बन्धेन गृहवृक्षादिषु उपलभ्यते । नैवमयम् । एवं
अत्र पक्षे प्रमाणम्—वक्ष्यमाणपरिभाषात्रयज्ञापकानि, 'उपदेशेऽजनुनासिक' इति
सूत्रे उपदेशग्रहणञ्च । तत्फलञ्च— आञ्च आँ अटित' इत्यादादितश्चेतीट्प्रतिषेधो मा
भूत्, तस्य चानेकान्तपक्षे एव समीपेऽवयवत्वारोपेण सम्भव इति । स्पष्टं चेदं
'सिद्धमनुबन्धानामनेकान्तत्वादि'त्यादिना घुसंज्ञासूत्र-वाऽसरूपसूत्रादौ भाष्ये ।
एतत्फलं 'ध्वसोरेद्धावि'त्यत्र शे लोपनिरूपितावयवत्वारोपात्तस्य शित्त्वेन सर्वा-
देशत्वसिद्धिः । अत्र पक्षे 'गुप्तिजि'त्यादौ सनादिशब्दानां सो भवतीत्यर्थः । अनु-
वादे सनीत्यादौ तु इत्संज्ञक-नकारपूर्ववर्तिबोधे सशब्दे इत्यादिरर्थः । अत्र पूर्वं-
त्वादिनिवेशान्न णानादौ दोषः । एवम् 'उञि च पद' इत्यत्र इत्संज्ञकञकारपूर्ववर्तिबोधे
उशब्दे इत्यर्थस्तेन पदे किं तन्त्रयुतमित्यत्र न दोषः, अत्रोकारस्येत्संज्ञकञकारपूर्व-
वर्ति-वेशब्दबोधकत्वादिति दिक् ॥ ४ ॥
यद्यप्यत्र पक्षे—'नानुबन्धकृतम'त्यादि-वक्ष्यमाणपरिभाषात्रयं नारम्भणीयम् ;
तथाप्यारोपकवाक्यकरणम्, अनुबन्धघटितात् सौत्रविभक्तिकल्पनम्, आद्यन्त-
शब्दयोर्लक्षणास्वीकार इति गौरवम्, 'आनङ्'-नकारादावुक्तहेतुसत्त्वेन साध्या-
भावाद्व्यभिचारः, “विधेयेऽदर्शनरूपहेतोः सिद्धिः 'तस्य लोप' इत्येतद्वाक्यार्थबोधा-
धीना, तदर्थबोधश्च 'हलन्त्य'सूत्रवाक्यार्थबोधाधीनः, तद्वाक्यार्थबोधश्च 'पदार्थ-
ज्ञानविधया लक्षणाग्रहाधीनः, तद्ग्रहश्च अनवयवत्वग्रहपूर्वकशक्यार्थबोधग्रहपूर्वकः,
अनवयवत्वग्रहश्च प्रकृतहेतुज्ञानपूर्वक” इति चक्रकापत्तिश्चेत्यतः सिद्धान्तमाह—
वस्तुतस्त्विति । एकान्ता इति । स्वघटितपदाघटितपदघटकबोधकावयवा इत्यर्थः ।
स्वघटितेत्यादिनिवेशात् छणो णकारे करूपबोधकावयवत्वं नेति बोध्यम् । तत्रेति ।
बोधक इत्यर्थः । तत्रोपलभ्यमानत्वमात्रस्य हेतुत्वे काकादीनामपि वृक्षादिषु उपलभ्य-
मानत्वादन्यत्रानुपलम्भस्यैव हेतुत्वे शशशृङ्गादीनामपि तत्त्वाच्च हेतुसत्त्वेन साध्या-
भावाद्व्यभिचाराद्धेतुदले

५ प० विचारः ] तत्त्वप्रकाशिकासमलङ्कृत-भूतिभूषितः २५
हि बहुव्रीहिरपि न्यायत एवोपपन्नः, अन्त्यादिशब्दे लक्षणा च न ।
वायेनोपलब्धस्यान्यत्र तेन सम्बन्धेनानुपलभ्यमानत्वान्न दोषः । यद्यपि 'अवयव-
स्तत्रोपलब्धेरिति भाष्यतस्तत्रोपलम्भादित्येव हेतुः प्रतीयते, तथापि कैयटेन 'यो हि
संशयको हेतुः स कथं निश्चायक' इत्याशङ्क्य तत्रोपलम्भादित्यस्य 'तत्रैवोपलम्भादि'-
त्यर्थंकरणेन समाहितत्वात्तदनुसारेणायं ग्रन्थ इति ध्येयम् । न च बोधकत्व-
स्याद्यावधि अनिर्णीतत्वेन हेतोरसिद्धिरिति वाच्यम्; अनुबन्धघटिते सनादौ पक्षे
विभक्तिप्रकृतित्वेन हेतुना बोधकत्वं प्रसाध्य, तद्घटकानुबन्धादौ तत्रैवोपलम्भादिति
हेतुना बोधकावयवत्वसाधनेनादोषात् । अत्र उपलब्धिविषयत्वाभावादित्यस्य उप-
लब्धिवि

किञ्चानवयवत्वे णशकप्रत्ययादौ णादेरित्त्वानापत्तिः प्रत्ययादित्वा-
वैयाकरणमतेऽपि द्रव्यत्वाङ्गीकारात् । अत्र च सर्वाधारतानियामकसम्बन्धेतर-
सम्बन्धो ग्राह्यः, तेन कालादावेव कालिकादिसम्बन्धेनोपलम्भेऽपि न कालावयवत्वं
तेषामिति बोध्यम् ।
अत्र केचित्—'अनुबन्धाः बोधकावयवाः बोधकायुतसिद्धत्वात्, यो यदयुतसिद्धः
स तदवयवः, यथा शाखादिः' इति नकारानुबन्धस्य सन्नयुतसिद्धत्वात् तदवयवत्व-
मक्षतम् । न चैवं बोधकानां स्वावयवायुतसिद्धत्वेन तदवयवत्वापत्तिः ; व्यापकत्वविशिष्टा-
युतसिद्धत्वस्य हेतुत्वेन समुदायस्य स्वावयवाव्यापकत्वेनादोषादिति वदन्ति । अत्र पक्षे
'गुप्तिजि'त्यादौ विधेयताप्रयोजकसनादिपदस्य नकारेत्संज्ञकः सो भवतीत्यर्थः । इत्संज्ञा-
लोपौ तु पक्षद्वयेऽपि सूत्रे एव, अनुबन्धविनिर्मुक्तपदार्थस्यैवोपस्थितेरनुवादे 'सनी'त्यादौ
नकारेत्संज्ञके सञ्शब्दे इत्यादिरर्थः ।
अन्ये तु—'अनुबन्धाः बोध्यावयवाः बोधके उपलभ्यमानत्वात्, सनः
सकारवदि'त्यनुमानेन अनुबन्धानां बोध्यावयवत्वं सिद्ध्यति । न चेदमप्रयोजकम् ;
'स्वं रूपं'शास्त्रस्यानुकूलतर्करूपस्य जागरुकत्वात् । इत्थञ्चानुबन्धसहितस्य बोध्यत्वेन
वक्ष्यमाणपरिभाषात्रयावतरणानि सङ्गच्छन्ते । अस्मिन् कल्पे तु बोध्ये
एवेत्संज्ञालोपो, न सूत्रे । 'गुप्तिजि'त्यादिविधेयेऽनुवादे च सन्पदस्य सञ्शब्द इत्ये-
वार्थः, तेन णाणोर्न व्यभिचारः । तत्रोपलम्भादित्यादिहेतुना बोधकावयवत्वसाधनन्तु
न युक्तम् ; बोधकत्वस्य सन्यद्याप्यसिद्धेः । अनुबन्धसहिताद्विभक्तिदर्शनेन सनादौ
बोधकत्वनिश्चये तु नकारादौ तदवयवत्वस्य श्रवणेन्द्रियेणैव सिद्धतया सन्देहा-
भावेनानुमानस्यैवाप्रसक्तेः । अत एव भाष्ये तत्रोपलम्भादित्येव हेतुः प्रदर्शितः, नान्यत्रा-
नुपलम्भाच्चेति । एतेन “यो हि संशयको हेतुः स कथं निश्चायक इत्याशङ्क्य,
तत्रोपलम्भादित्यस्य 'तत्रैवोपलम्भादि'त्यर्थ” इति कैयटोक्तमपास्तम् ; संशायकस्य
एकस्य हेतोरसाधकत्वनिर्णये अपरहेतोर्निर्णयजनकत्वस्य सर्वसम्मतत्वाच्च । अत
एव 'स्थाणुर्वा पुरुषो वे'ति संशयस्थले पुरुषत्वसाधकस्य करचरणादिमत्त्वस्य प्रत्यक्षेण
बाधे संशायकस्यैव कोटरादिमत्त्वस्य स्थाणुत्वानुमितिजनकत्वं सर्वसम्मतम् ।
किञ्च अनुवादे 'सन्यङोः' इत्यादौ नकारेत्संज्ञकशब्दे परत इत्याद्यर्थस्य कथञ्चित्
सम्भवेऽपि, विधेयताप्रयोजके 'गुप्तिजि'त्यादौ सनादिपदे न तत्सम्भवः, 'न विधौ परः
शब्दार्थ' इति न्यायात् । किञ्चैवं दाप्शब्दस्यापि 'पकारेत्संज्ञक-दाशब्द' इत्यर्थे 'अव-
दातमित्'यत्र तस्य सत्त्वेन वक्ष्यमाणावतरणासङ्गतिः । तच्च पकारेत्संज्ञकदाप्शब्द-
बोध्यत्वं दाप्पदशक्यतावच्छेदकम्, एवं सनादिपदेऽपि नकारेत्संज्ञकसन्पदबोध्यत्वं
तत् । अत एव न णाणोर्व्यभिचारः, त्वद्रीत्या दाप्शब्दत्वस्य दाप्पदशक्यतावच्छेद-
कत्वे तु 'प्रणिदापयती'त्यत्रापि तत्सत्त्वाद् घुसंज्ञानिषेधापत्तिरिति वाच्यम् ; पकारे-
त्संज्ञकेत्यादेस्तदर्थतावच्छेदकताया अनुपयोगेन लाघवान्मदुक्तस्यैव तस्योचित-
द्रव्यत्वाङ्गीकारादिति । न चैवं जीवात्मनोऽपि ज्ञानेच्छादिसमुदायरूपतया अनित्यत्वा-

भाष्ये L3:स्पष्टम्। तत्र ह्युक्तम्—'एकान्ता अनुबन्धा इत्येव न्याय्यमि'ति दिक् ॥५॥ L4:नन्वेकान्तत्वेऽनेकाल्त्वादेव औशादीनां सर्वादेशत्वसिद्ध्या अनेकाल्'- L5:सूत्रे शिद्ग्रहणं व्यर्थमत आह— Then a horizontal line across the middle of the page (or a short rule)! Then Text 2 (Bottom text): Line 6:त्वात्, दैप्साहचर्यादिना पकारेत्संज्ञकस्य दापस्तत्र ग्रहणेऽपि तत्त्वस्य शक्यतावच्छे- ... Line 21:बोधकबोध्ययोरुभयोरपि एकान्ता इति सिद्धान्तयन्ति ॥ ५ ॥ Line 22:शिद्ग्रहणं व्यर्थमिति। ननु 'ध्वसोरेद्धावि'ति विहितलोपस्य सर्वादेशत्वार्थं Line 23:शिद्ग्रहणं चरितार्थमिति चेन्न। 'लोपो व्यो'त्यतो लोपपदानुवृत्त्यैव सिद्धे सूत्रे Line 24:लोपपदोपादानादेव सर्वादेशत्वसिद्धेः शिद्ग्रहणवैयर्थ्यस्य सूपपादत्वात्। तत्सूत्रस्थ- Line 25:श

२८ परिभाषेन्दुशेखरः [ १ प्रकरणे-
नानुबन्धकृतमनेकाल्त्वम् ॥ ६ ॥
-: ॐ :-
शिद्ग्रहणमेवैतज्ज्ञापकम्, तेनार्णवस्तृ इत्यादेर्न सर्वादेशत्वम् ।
शित्त्वस्य चारितार्थ्यमिति चेन्न । शकारस्य ‘तस्य लोप’ इति लोपादेशे आनुमानिक-
स्थान्यादेशभावेन ‘स्थानिवत्’सूत्रेणानेकाल्त्वातिदेशात् सर्वादेशत्वसिद्धेः शित्त्ववैय-
र्थ्यस्य सूपपादत्वात् । न चानल्विधाविति तन्निषेधः ; ‘नल्यपी’ति सूत्रारम्भसामर्थ्येन
अनुबन्धवृत्तितथाविधधर्मानयने अनल्विधावित्यस्याप्रवृत्तिज्ञापनात् । न च ‘हल्ङ्यादि-
सूत्रे ङ्याब्ग्रहणवैयर्थ्यापत्तिः, ङ्याबादिरूपबोधकगतहलन्तत्वस्य स्थानिवद्भावेनैव
लाभादिति वाच्यम् ; आकाररूपाऽऽबन्तादेवेति नियमार्थं तदाऽऽवश्यकत्वात् । ‘रमे’-
त्यादावाकारे हलन्तत्वातिदेशेऽपि ‘रमे’त्यस्य हलन्ततदादित्वाभावेन तत्र सुलोपार्थं
तदाऽऽवश्यकत्वाच्च ।
शिद्ग्रहणमेवैतदिति । शिद्ग्रहणमपीत्यर्थः । तथा च ‘नल्यपी’ति सूत्रसह-
कृतेनैतच्छिद्ग्रहणेन अनुबन्धत्वव्याप्याल्मात्रवृत्तित्वधर्मघटितधर्मातिदेशे ‘अनल्विधावि’ति
निषेधो न प्रवर्तत इति विशेषरूपेण ज्ञापनादुभयोश्चारितार्थ्यम् ।
परिभाषार्थस्तु—अनुबन्धकृतमनेकाल्त्वं यथा न भवेत्तथा कल्पनीयमिति ।
तथा च अशब्दादाचारक्विबन्ताद् घञि अतो लोपे, ‘अ’ इत्यत्र घञ्वृत्तिहलन्तत्वा-
तिदेशेन ‘हल्ङ्याबि’ति सुलोपो न । एतेन—‘रुङ् तुङ्’ इति ङिदादेशविधानात्सर्वा-
देशाप्राप्त्या फलाभावेन परिभाषा शिद्ग्रहणं च व्यर्थे एवेत्यपास्तमिति ग्रन्थाशय
इति—केचित् ।
यत्तु — अनेकाल्वृत्तिधर्मावच्छिन्नविधेयताश्रयः सर्वस्येत्यनेकाल्सूत्रार्थाद् बोध्यौ-
शब्दस्यानेकाल्त्वाभावेऽपि तत्त्वान्न क्षतिः । लोपस्तु न सर्वादेशस्तत्र विधेयता-
वच्छेदकस्याभावत्वस्यानेकाल्वृत्तित्वाभावात् । अनेकाल्वृत्तित्वस्य अल्समुदायवृत्ती-
त्यर्थस्तेन ह्रस्वत्वादेरनेकेष्वल्प्सु विद्यमानत्वेऽपि न क्षतिरिति । तन्न ; ‘पथिन्मथी’त्या-
इति ‘अणुदित्’सूत्रस्थं भाष्यं सङ्गच्छते । आनुमानिकस्थान्यादेशभावेनेति । ‘स्वं रूपमि’ति
शास्त्रेण सानुबन्धस्य बोध्यत्वे प्राप्ते ‘तस्य लोपः’ इत्यनेनानुबन्धरहिते तद्बोध्यते इत्येतन्मूलकेने-
त्यर्थः । अनुबन्धवृत्तीति । अनुबन्धवृत्तियोऽल्त्वव्याप्यो धर्मस्तद्घटितेत्यादिरर्थः । अनल्विधा-
वित्यस्याप्रवृत्तिज्ञापनादिति । न च ‘नल्यपि’ इत्यनेन अनुबन्धत्वव्याप्याल्मात्रवृत्तित्वधर्मघटित-
धर्मातिदेशे ‘अनल्विधौ’ इति निषेधो न प्रवर्तत इत्येव पूर्वं ज्ञाप्यताम्, तथा सति अल्त्वादे-
र्नुबन्धत्वव्याप्यत्वाभावेन ‘अनल्विधावि’ति निषेधप्रवृत्तौ बाधकाभावेन स्थानिवद्भावाभावेन
शिद्ग्रहणस्य चारितार्थ्यं सम्भवत्येवेति वाच्यम् ; अनुबन्धवृत्तित्वापेक्षयाऽनुबन्धत्वव्याप्यत्वस्य गुरु-
भूततया तस्य ज्ञाप्यशरीरे प्रवेशे मानाभाव इत्याशयेन तथा कल्पयितुं पूर्वमशक्यत्वात् ।
अनुबन्धत्वव्याप्येति । इत्संज्ञकत्वमनुबन्धत्वम्, तद्व्याप्यः इत्संज्ञक-कत्वादिरूपः ।
हल्ङ्याबिति सुलोपो नेति । एवम् ‘धूञ्-प्रीञादि’धातुभ्यः ‘गुरोश्च हल’ इति सूत्रेणाप्रत्ययः,
‘प्रपठ्ये’त्यत्रब ‘क्वा’प्रत्ययघटकककारानुबन्धगतवल्त्वमादाय वलादिलक्षणेडागमश्च नेत्यपि बोध्यम् ।

६ प० विचारः ] तत्त्वप्रकाशिकासमलङ्कृत-भूतिभूषितः २९
डादिविषये तु सर्वादेशत्वं विनाऽनुबन्धत्वस्यैव अभावेनानुपूर्व्यात्
सिद्धम् ॥ ६ ॥
कारादेशस्य, 'दिव औदि'त्योकारादेशस्य च तथात्वाभावेन सूत्राप्राप्त्या 'नानुबन्ध-
कृतमि'ति परिभाषया सर्वादेशवारणपरभाष्यासङ्गतेः । एतेन - 'आनुपूर्वीप्रकारेण
बोधकं यदनेकाल्पदं तद्बोध्यः सर्वस्यादेश' इति सूत्रार्थालोपस्यानुपूर्वीप्रकारेण बोध-
कत्वाभावादोशादेस्तथात्वाच्च न दोष इति परास्तम् ; पूर्वोक्तयुक्त्या बोध्यस्यानेकाल्त्वे
तु न काऽप्यनुपपत्तिरिति ध्येयम् । न चाल्घटितस्य बाधको योऽनेकाल् तद्बोध्यः
सर्वस्य भवते'त्यनेकाल्सूत्रार्थेन लोपपदस्याल्घटितबोधकत्वाभावेन न सर्वादेशता-
प्रयोजकत्वम्, विसर्जनीयादिपदानाम्लघटितबोधकत्वेऽपि 'निर्दिश्यमान'परिभाषयैव तत्र
तत्र वारणसम्भवादिति वाच्यम् ; 'अत्रानुनासिकः पूर्वस्य तु वा', 'उदस्थास्तम्भोर्'-
त्येतद्विषये सर्वादेशापत्तेर्दुर्वारत्वात् । न च ज्ञापितेऽपि स्वांशे चारितार्थ्यं दुरुप-
पादम्, औशादौ शकारोच्चारणसामर्थ्याद् भूतपूर्वानेकाल्त्वमादायापि सर्वादेशसिद्धेरिति
वाच्यम् ; 'जसः शी', 'जश्शसोः शिरि'त्यादेः शित्त्वस्य 'विभाषा डिश्योः', 'शिसर्वनाम-
स्थानमि'त्यत्र विशेषणार्थतया चारितार्थ्येन शकारोच्चारणवैयर्थ्याभावेन भूतपूर्व-
गत्याश्रयणे मानाभावात् स्वांशे चारितार्थ्यस्य सौष्ठवात् ।
डादिविषये त्विति । डादिविषये सर्वादेशात्प्राक् प्रत्ययत्वाभावेन इत्त्वाऽप्राप्त्या
न परिभाषाप्रवृत्त्यवसर इति भावः । न चैतद्ग्रन्थकृन्मते इत्संज्ञायोग्यत्वरूपस्यानु-
बन्धत्वस्य सत्त्वात्परिभाषाप्रवृत्तेः सुलभतयैतद्ग्रन्थासङ्गतिः, 'जसः शी'ति पूर्वग्रन्थ-
विरोधश्चेति वाच्यम् ; अनुबन्धत्वस्याभावेन विनापि, अनुबन्धत्वसत्त्वेऽपि डादि-
विषये सर्वादेशत्वमानुपूर्व्यात्, 'डा + आ' इत्यादिप्रश्लेषात् सिद्धमिति योजनया
ग्रन्थसङ्गतेरिति—केचित् ।
तथात्वाभावेनेति । तत्र तकारस्य आकारौकारोच्चारणमात्रे सहायतासम्पादनेन
चरितार्थतया आत्त्वौत्वावच्छिन्नविधेयताकल्पने मानाभावादिति भावः ।
स्वांशे चारितार्थ्यस्य सौष्ठवादिति । ननु शकारोच्चारणस्य विशेषणार्थतया चारि-
तार्थ्यसम्भवेऽपि सर्वादेशात् प्राक् इत्संज्ञाया एवाभावेन इत्संज्ञकत्वरूपानुबन्धत्वाभावेन परिभाषा-
ऽप्राप्त्या अनेकाल्त्वादेव सर्वादेशो भविष्यतीति स्वांशे चारितार्थ्यं दुरुपपादमिति चेन्न । ग्रन्थ-
कर्त्रा इत्संज्ञायोग्यत्वरूपानुबन्धत्वस्य स्वीकृतत्वेनादोषात् । एवम् 'अनेकाल्शिति' सूत्रेऽपि
शित्पदं शित्त्वयोग्यपरमेवेति बोध्यम् । ध्वनितञ्चेदम् 'अनेकालशित् सर्वस्ये'ति सूत्रे भाष्ये ।
तत्र हि—शित उदाहरणं 'जशः शि' इत्यादिप्रतिपाद्यानेकाल्त्वादेव तत्संसाध्य, व्यर्थं शिद्ग्रहणं
परिभाषाज्ञापनार्थमित्युक्तम् । इत्संज्ञायोग्यत्वरूपस्य अनुबन्धत्वस्यानङ्गीकारे तत्र परिभाषाया
अप्राप्त्या शित उदाहरणत्वस्यासम्भवेन भाष्यासङ्गतिरेव स्यात् । किञ्च—काणोर्विषये 'नानु-
बन्धकृतमसारूप्यमि'ति परिभाषया विकल्पाभावो न प्रकल्पेत, तत्प्रवृत्तिकाले इत्संज्ञकत्वरूपानु-
बन्धत्वाज्ञानेन परिभाषाऽप्राप्तेः, इत्येतत्सर्वं शेखरे स्पष्टम् ।
अत्र प्राचीनाः—इत्संज्ञायोग्यत्वापेक्षया इत्संज्ञावत्त्वस्य अनुबन्धपदशक्यतावच्छेदकत्व-
कल्पने लाघवेन तदवच्छिन्नेऽनुबन्धपदशक्तिरिति । क्वचित् बाधेन लक्षणया इत्संज्ञायोग्यत्वस्यापि

वस्तुतस्तु—परिभाषाप्रवृत्तौ अनुबन्धत्वस्योपजीव्यतया डादिविषये परिभाषा-
प्रवृत्तिस्वीकारे 'अनेकाल्'त्यस्याप्रवृत्त्या डादीनामन्त्यादेशत्वे डकारादेरित्संज्ञाया
अप्रवृत्त्या स्वोपजीव्यानुबन्धत्वविघातस्य स्पष्टतया 'सन्निपात'परिभाषया निरुक्तपरि-
भाषाया अप्रवृत्तेरुक्तग्रन्थस्य यथाश्रुतार्थकत्वेऽपि न क्षतिः । 'जसः शी'त्यत्र तु एत-
त्परिभाषाप्रवृत्तावपि शित्वात्सर्वादेशस्य सत्त्वेन स्वोपजीव्यानुबन्धत्वस्य विघाताभावेन
'सन्निपात'-परिभाषाया विषयाभावान्न पूर्वापरस्वग्रन्थविरोधोऽपीति बोध्यम् ।। ६ ।।

भानम् । यथा 'नानुबन्धकृतमसारूप्यमि'त्यत्र, तेन काणोविषये विकल्पाभावः सिद्धयति । नानुबन्ध-
कृतमनेकाल्त्वम्' इत्यत्रानुबन्धपदस्य इत्संज्ञायोग्यत्वरूपानुबन्धत्वपरस्यास्वीकारेऽपि फलाभावा-
द्दोषाभावाच्च तद्भाष्यस्य एकदेश्युक्तित्वमेव । किञ्च परिभाषा शिद्

४ प० विचारः ] तत्त्वप्रकाशिकासमलङ्कृत-भूतिभूषितः ३१
नन्वेवमपि 'अवदातं मुखमि'त्यत्र पलोपोत्तरमात्त्वे कृतेऽदाबिति
पलोपोत्तरमात्त्व इति । न च पलोपोत्तरमुपदिश्यमानत्वाभावः ; स्थानिवद्भावेन
तल्लाभात् । न चैवम् 'अट्'धातौ अस्येत्संज्ञोत्तरं टस्येत्त्वापत्तिरिति वाच्यम् ;
अत्र केचित्—अल्त्वव्यवहाराभाव इत्यस्य इत्पदविशिष्टभिन्नं यदल्बोधकं पदं तद्बोध्यत्वाभाव
इत्यर्थः । वैशिष्ट्यञ्च—स्वप्रयोज्यविषयतानिरूपितविषयताप्रयोजकत्व-स्वनिष्ठविषयतानिरूपित-
विषयताप्रयोजकत्वैतदन्यतरसम्बन्धेन । आद्यसम्बन्धे हलन्त्यघटक-हल्पदेन किदादिपदेन च
अनुबन्धानां ग्रहणं भवति । द्वितीयसम्बन्धेन च 'यस्मिन्विधिस्'रिति परिभाषाघटकेन अल्ग्रहणे-
त्यनेन शितीति कर्मधारयस्य ग्रहणम् । एवञ्च पूर्वोक्तेषु लक्ष्येषु

३२ परिभाषेन्दुशेखरः [ १ प्रकरणे-
घुसंज्ञाप्रतिषेधो न स्याद्, दैपः पकारसत्त्वेनेजन्तत्वादात्त्वाप्राप्त्या पलोपोत्तरं
पकाराभावेनास्य दाप्त्वाभावादत आह—
इत्संज्ञाविधौ अनतिदिष्टोपदि‍श्यमानत्वस्यैव प्रयोजकत्वात् । अत एव मकारपरित्राणार्थः
स्थमोरुकारश्चरितार्थः । आत्त्वविधौ अतिदिष्टोपदि‍श्यमानत्वस्यापि प्रयोजकत्वे 'दो
दद्धोरि'ति सूत्रे दा-ग्रहणमेव मानम् ; अन्यथा धारूप-घोः 'दधातेर्हि'रित्यनेनैव बाधा-
द्धेट्ष्टकारस्य लोपोत्तरमात्त्वाऽप्राप्त्या घुत्वाभावादेव तदप्राप्तेर्दारूपस्यैव तत्सम्भवेन
तद्ग्रहणं व्यर्थमेव स्यात् । न चैवं 'पच्'धातौ ष्येत्संज्ञालोपोत्तरमकारस्य सा न
स्यादुपदेशत्वस्य स्थानिवत्त्वेनालाभादिति वाच्यम् ; संज्ञयोर्विरोधाभावेन युगपद्-
कार-षकारयोस्तत्सत्त्वेनातिदेश

'उदीचां माङः' इति निर्देशोऽस्या ज्ञापकः । 'आदेच उपदेशे' इति
७ प० विचार ] तत्त्वप्रकाशिकासमलङ्कृत-भूतिभूषितः ३३
नानुबन्धकृतमनेजन्तत्वम् ॥ ७ ॥
-: ० :-
'उदीचां माङः' इति निर्देशोऽस्या ज्ञापकः । 'आदेच उपदेशे' इति
सूत्रेण उपदिश्यमानस्यैजन्तस्यात्त्वं क्रियते, ङकारसत्त्वे त्वेजन्तत्वाभावा-
दात्त्वाप्राप्तेस्तस्यासङ्गतिः ।
न चास्यामवस्थायां तस्य धातुत्वाभावात्कथमात्त्वम्, तत्र 'धातोरि'त्यस्य
निवृत्तेरित्यन्यत्र विस्तरः । स्पष्टञ्चेदं 'दाधा घ्वदाबि'ति सूत्रे भाष्ये ॥ ७ ॥
ष्नोत्वम् । विधेयता तु सन्तत्वेन रूपेण सशब्दे एव, न तु सञ्शब्दे । अत एव 'इदम
इशि'ति भाष्यं स्वरसत उपपद्यते । तेनाण्त्वाभावान् णेऽण्कार्यं, न दापो, दाब्-

नन्वेवमपि 'वाऽसरूप'सूत्रेण क-विषयेऽणोऽप्यापत्तिरित्यत आह—
नानुबन्धकृतमसारूप्यम् ॥ ८ ॥
—: ० :—
अणोऽप्यापत्तिरिति । ननु 'वाऽसरूप'सूत्रे असरूपपदेन औपदेशिकसारूप्यवद्-
भिन्नस्य ग्रहणे तादृशसारूप्यवतोर्वैकल्पिकबाध्यबाधकभावस्वीकारेऽपि फले विशेषा-
भावेन 'असरूप'ग्रहणवैयर्थ्यापत्या प्रायोगिकस्यैव तस्य ग्रहणावश्यकतयाऽनुबन्ध-
विनिर्मुक्तपदार्थोपस्थितिरिति सिद्धान्तरीत्या काणोरपि बोध्ययोरकारयोः सरूपत्वेन
सूत्राप्राप्त्या कथं कविषयेऽणोऽप्यापत्तिरिति चेन्न । 'हनश्च वधः', 'मूर्तौ घन'
इत्येतद्विहितयोरप्रत्यययोर्विकल्पेन बाधाभावाय सूत्रेऽसरूपग्रहणस्य चारितार्थ्येन
प्रायोगिकग्रहणे मानाभावादुपदेशे काणोरसरूपत्वेनोकापत्तेः सुवचत्वात् । निरुक्तयो-
[L

८-९ प० विचार ] तत्त्वप्रकाशिकासमलङ्कृत-भूतिभूषितः ३१
'ददाति-दधात्योर्विभाषा' इति णबाधक-शस्य विकल्पविधायकमस्यां
ज्ञापकम्; तेन 'गोद' इत्यादौ नाणिति 'वाऽसरूप'सूत्रे भाष्ये स्पष्टम्॥ ८ ॥
ननु संख्याग्रहणे बह्वादीनामेव ग्रहणं स्यात्, प्रकरणस्याभिधानिया-
मकत्वसिद्धात् 'कृत्रिमाकृत्रिमयोः कृत्रिमे कार्यसम्प्रत्यय' इति न्यायात् ।
अस्ति च प्रकृते बह्वादीनां संख्यासंज्ञा कृतेति ज्ञानरूपं प्रकरणम्, न तु
लोकप्रसिद्धैक-द्व्यादीनामित्यत आह—
उभयगतिरिह भवति ॥ ९ ॥
इह = शास्त्रे । 'संख्याया अतिशदन्ताया' इति निषेधोऽस्या ज्ञापकः ।
गिकमेव सारूप्यं गृह्यत इति वदन्ति । तत्तूच्छम् ; प्रायोगिकग्रहणे प्रयोगमात्राव-
च्छेदेन सारूप्यम् यत्किञ्चित्प्रयोगावच्छेदेन वा तद्गृह्यते ? नाद्यः ; 'इगुपधज्ञा',

३६ परिभाषेन्दुशेखरः [ १ प्रकरणे-
नहि कृत्रिमा संख्या त्यन्ता षडन्ता वाऽस्ति, तेन 'कर्तरि कर्मव्यतिहारे',
'कण्वमेघेभ्यः करणे', 'विप्रतिषिद्धं चानधिकरणे'त्यादौ लौकिकक्रिया-
द्रव्याद्यवगतिः । तत्र क्वोभयगतिः, क्वाऽकृत्रिमस्यैव, क्व कृत्रिमस्यैवेत्यत्र
लक्ष्यानुसारि-व्याख्यानमेव शरणम् । अत एवाऽऽम्रेडितशब्देन कृत्रिमस्यैव
ग्रहणं, न तु द्विस्त्रिर्घृष्टमात्रस्य । स्पष्टञ्चेदं संख्यासंज्ञासूत्रे भाष्ये ।
यत्तु-संज्ञाशास्त्राणां मच्छास्त्रेऽनेन शब्देनैत एवेति नियमार्थत्वं
'कृत्रिमाकृत्रिम'न्यायबीजमिति । तन्न ; तेषामगृहीतशक्तिग्राहकत्वेन
विधित्वे सम्भवति नियमत्वायोगात् । 'सर्वे सर्वार्थवाचका' इत्यभ्युपगमोऽपि
योगिदृष्ट्या, न त्वस्मद्दृष्ट्या, विशिष्य सर्वशब्दार्थज्ञानस्याशक्यत्वात्