परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)
Paribhashendushekhara of Nagesha Bhatta with Commentary
महामहोपाध्याय नागेश भट्ट (सम्पादक: पं. विश्वनाथ मिश्र) द्वारा
पृष्ठ 50, कुल 373 में से
संदर्भ में पढ़ेंपरिभाषादेशे सन्निधानेन तेषां परत्वं व्याहन्येत । एवञ्च वृक्षेभ्य इत्यत्र ‘सुपि
चे’त्यतः परत्वाद् ‘बहुवचने झल्येदि’त्येत्त्वमित्याद्युच्छिद्येत, इत्यलम् ॥३॥
इत्संज्ञका अनुबन्धास्तेष्वयवानवयवत्वसन्देह आह—
नानुनासिकः । शास्त्रे परत्व-पूर्वत्वे अष्टाध्यायीपाठकृते एव । एवं स्थिते योऽत्र बहुशः
“प्राचीन-नवीन-मतविवेक-परिश्रमः, पदैकवाक्यता-वाक्यैकवाक्यतेत्यादिविचारः, स
सर्वोऽपि काकदन्तपरीक्षावदुपेक्षणीय एवेति दिक् ॥ ३ ॥
यथोद्देशमित्यत्र संज्ञायाः प्रस्तुतत्वात् इत्संज्ञोत्तरं प्रत्याहार इति भाष्येण
इत्संज्ञायाः सर्वशास्त्रप्रवृत्तेः प्राग्भावित्वेन प्राधान्याद्वा तद्विषयिणीं परिभाषां वक्तु-
मुपक्रमते—इत्संज्ञका अनुबन्धा इति । इत्संज्ञोपलक्षणम्, तेन इत्संज्ञायोग्यत्वमनुबन्धत्व-
मिति फलितम् । अवयवानवयवत्वसन्देह इति । बोधकावयवानवयवत्वसन्देहे इत्यर्थः ।
एतेन सन्घटकनकारे सन्निरूपितावयवत्वमस्ति न वा, सन्निरूपितावयवत्वमस्ति
न वे'त्युभयविधसन्देहस्य श्रोत्रेणैव निवर्त्यतया नानुमानापेक्षेत्यपास्तम् ; 'सनो बोध-
कत्वं सशब्दस्य वे'ति बोधकत्वसंशयस्य तत्प्रयुक्तस्य सनो नकारे बोधकावयवान-
वयवत्वसन्देहस्य च श्रोत्रेणानिवर्त्यतया अनुमानस्योपयोग इति भावः । सन्देहेऽन्य-
तरोपादानेनैव सिद्धे उभयोपादानं परिभाषाद्वयसाधारणमिदमवतरणमिति बोध-
यितुम् । अनवयवत्वसन्देहे इत्युक्तौ तस्यानवयवत्वतदभावान्यतरकोटिकसन्देह इत्य-
र्थात् 'अनवयवत्वाभाववान् अनवयवत्वव्याप्यवान् वे'ति सन्देहस्यापि अनवयवत्व-
सन्देहरूपत्वेन 'एकान्ता अनुबन्धाः' इत्यनुमितीय-पक्षतात्वं न स्यात् । अवयवत्व-
सन्देह इत्युक्तौ तु 'अवयवत्ववान् अवयवत्वाभावव्याप्यवान् वे'ति सन्देहस्यापि तद्रूप-
त्वेन 'अनेकान्ता' इत्यनुमितीयपक्षतात्वं च न स्यात्, प्राचीनैः साध्य-तदभावा-
मूले—परत्वं व्याहन्येनेति । न चेष्टापत्तिरेव, अत आह—एवञ्चेति । उच्छिद्येतेति ।
इदमप्यसङ्गतम् ; मुख्यासम्भवेऽपि गौणपरत्वग्रहणस्य सर्वसम्मतत्वादिति भावः ॥ ३ ॥
उपक्रमते—मूले इत्संज्ञा इति । यच्छब्दयोगः प्राथम्यमिति बलेनानुबन्धस्य पूर्वं प्रयोगा-
र्हत्वेऽपि, 'इत्संज्ञका' इत्यस्य पूर्वं प्रयोगः सङ्गतिप्रदर्शनाय बोध्यः । अनुबन्धपदस्य च स्ववाच्ये
लक्षणा । एतेन उभयोः प्रवृत्तिनिमित्तैक्येन कथमभेदान्वय इति निरस्तम् ।
ननु एकधर्मिकविरुद्धकोटिकज्ञानावगाहिज्ञानस्य सन्देहपदार्थतया सन्देहपदस्य उपात्तधर्म-
विरुद्धकोट्युपस्थापकत्वमित्यस्य स्वभावसिद्धतया एककोट्युपादानेनापि विरुद्धकोट्युपस्थापनं
स्यादेवेति द्वितीयकोट्युपादानं किमर्थमत आह—सन्देहेऽन्यतरोपादानेनेति ।
पक्षतात्वं न स्यादिति । अयम्भावः—प्राचीनाः साध्यसंशयस्यैव पक्षतात्वमभ्युपगच्छन्ति ।
साध्यसंशय इत्यस्य 'साध्यप्रकारकः साध्याभावप्रकारको वा संशयः' इत्येवार्थः, न तु साध्यप्रका-
रकताकत्वे सति साध्याभावप्रकारताकः संशय' इति, पर्वतो वह्नि्यभाववान् वह्निव्याप्यवान् वा'
'पर्वतो वह्निमान् वह्न्यभावव्याप्यवान् वा' इत्यादिसंशयानामपि तैः पक्षतात्वाङ्गीकारात् ।
साध्यप्रकारकत्वमित्यस्य साध्यतावच्छेदकसम्बन्धावच्छिन्नसाध्यतावच्छेदकावच्छिन्नप्रकारकतार्थः ।