परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)
Paribhashendushekhara of Nagesha Bhatta with Commentary
महामहोपाध्याय नागेश भट्ट (सम्पादक: पं. विश्वनाथ मिश्र) द्वारा
६६-६७ प० विचारः ] तत्त्वप्रकाशिकासमलङ्कृत-भूतिभूषितः २५३
बाध्यते । पूर्वोपस्थितनिमित्तत्वरूपान्तरङ्गत्त्वविषय इदम् ।
यत्तु आगमादेशयोर्न बाध्यबाधकभावो भिन्नफलत्वात्, अत एव ब्राह्म-
णेभ्यो दधि दीयतां कम्बलः कौण्डिन्याये'त्यादौ कम्बलदानेन न दधिदान-
बाध इति ‘च्छ्वोर्डि’ति सूत्रे कैयटः । तन्न ; अपवादो नुग्दीर्घत्वस्येति ‘दीर्घो-
ऽकित' इति सूत्र-भाष्यविरोधात् ॥ ६६ ॥
ननु 'अजीगणदि'त्यादौ गणेरीत्वं निरवकाशत्वाद्वलादिःशेषं
बाधेत ; तन्नाऽऽह—
रूपव्याप्यतावच्छेदक सम्बन्धस्वीकारेण तत्सम्बन्धेन उद्देश्यतावच्छेदकवत्येव तत्त-
च्छास्त्रप्रवृत्तेः स्वीकारादिति दिक् ।
अन्ये तु—दीर्घस्यापवादत्वाभावेऽपि यण्-गुणयोः परत्वात्तेन बाधसिद्धि-
रित्याहुः ।
नन्वेतत्परिभाषास्वीकारे वशब्दादाचारक्विबन्तात्कर्तरि क्विपि 'ऊरि'त्यत्र
समानाश्रये चरितार्थस्य ऊठः 'अक्षद्यू'रित्यान्तरङ्गत्वाद्विलोपापत्तिरिति चेत्तत्राऽऽह—
पूर्वोपस्थितनिमित्तत्वेति । "इण्ङिशीनामाद्गुणः सवर्णदीर्घत्वादि'त्यादिवार्तिकानुसारेण
तथाकल्पनादिति भावः ॥ ६६ ॥
निरवकाशत्वादिति । गणरूपाभ्यासस्येत्वं स्यादित्यर्थंसत्त्वेन हलादिःशेषो-
त्तरमीत्वाप्राप्तेस्तत्त्वम् । एवञ्चेत्त्वे गुणे 'अजेगणदि'ति स्यादिति भावः । न च गुणो-
त्तरमभ्यासह्रस्वे 'दीर्घो लघोरि'ति दीर्घेणेष्टसिद्धिरिति वाच्यम् ; अग्लोपित्वेन दीर्घा-
प्राप्त्या उक्तरूपासम्भवात् ।
वस्तुतस्तु—दीर्घविधानसामर्थ्येन विकारमात्रस्य बाधेन 'अज् + ई + गणादि'-
त्यस्याऽऽपत्तिरत्र बोध्येति दिक् ।
ईत्वाप्राप्तेरिति । न च स्थानिवत्त्वेन गणरूपाभ्यासत्वं लभ्यमिति वाच्यम् ; 'अनल्-
विधौ' इति तन्निषेधात् । आनुमानिकस्थान्यादेशभावेन तु न लभ्यम्, यस्यार्थवत्येव विश्रान्त्या-
ऽभ्यासस्य अनर्थकत्वात् । 'एकदेशविकृत'न्यायेन तु न लब्धुं शक्यम् ; अक्तपरिमाणत्वात् ।
स्वीकृतायान्तु परिभाषायां गणे रीत्वेन बाधाभावात् पूर्वं हलादिःशेषेण नकारनिवृत्तौ ततो गणे
रीत्वे 'अजीगणत्' इत्यस्य सिद्धिः । न च हलादिःशेषोत्तरं गणरूपाभ्यासाभावात् कथमीत्वमिति
वाच्यम् ; सूत्रारम्भसामर्थ्यात् गुणसम्बन्ध्यभ्यासैकार इत्यर्थे णलोपोत्तरमपि गणसम्बन्ध्यभ्यास-
त्वाक्षतेः । प्रकृतपरिभाषास्वीकारात् प्राक् तु न वैयधिकरण्येनान्वयः सम्भवति, सामानाधि-
करण्येनान्वये सम्भवति वैयधिकरण्येनानन्वयात् ।
दीर्घविधानसामर्थ्येनेति । दीर्घेकारविधानेति तदर्थः ।
/ोत्तर/ has an avagraha or it's a typo in the original print for "ज्ञापकोत्तरमपि" or "ज्ञापनानन्तरमपि". In the print it literally reads: "परिभाषाज्ञापनोंत्तरमपि" or "परिभाषाज्ञापनात्तरमपि"? It clearly has a matra on top and an avagraha-like or anusvara-like dot. Let's transcribe faithfully what is printed. It is printed as "परिभाषाज्ञापनोंत्तरमपि".
Let's check :
‘दीर्घोऽकित’ इत्यत्र दीर्घपदसाहचर्येण अचश्चेत्युपस्थितस्य अच्त्वहल्त्वोभयाना-
Wait, let's re-verify: "अचश्चेत्युपस्थितस्य":
Look at the characters:
अ - च - श् - च - े - त - ्य - ु - प - स - ् - थ - ि - त - स - ्य
Yes, exactly "अचश्चेत्युपस्थितस्य"!
Let's check line 25:
"व्यावर्त्यालाभेन सामर्थ्यात्तस्य औपदेशिकदीर्घादिव्यावर्तकतया ‘बाबाभ्यत’ इत्यत्र"
Yes!
Everything matches the printed page accurately.२५४ परिभाषेन्दुशेखरः [ २ प्रकरणे-
अभ्यासविकारेषु बाध्यबाधकभावो नास्ति ॥ ६७ ॥
-: ❀ :-
[L
६७ प० विचारः ] तत्त्वप्रकाशिकासमलङ्कृत-भूतिभूषितः २५५
इयं परान्तरङ्गादिबाधकानामप्यबाधकत्वबोधिका, तेन 'अचीकरत्,
मीमांसत' इत्यादि सिद्धम् । आद्ये सन्वद्भावस्य परत्वादीर्घेण बाधः
प्राप्नोति । अन्त्ये मान्बधेति दीर्घेण अन्तरङ्गत्वद्वित्वस्य बाधः प्राप्तः ।
यत्तु यत्रैकैकप्रवृत्त्युत्तरमपि सर्वेषां प्रवृत्तिस्तत्रैवेदमित्यत 'एके' ति सूत्रे
कैयटः । तन्न; नुकि कृते दीर्घाप्राप्त्या धर्मिग्राहकमानविरोधात् मान्बधा-
दीनां दीर्घे कृते इत्त्वाप्राप्त्या 'गुणो यङ्लुकोरि'ति सूत्रस्थभाष्योक्ततदुदा-
हरणासङ्गतेश्चेत्यन्यत्र विस्तरः ॥ ६७ ॥
दीर्घवारणाय अकिद्ग्रहणचारितार्थमित्युच्यते, तर्हि पदलाघवानुरोधेन दीर्घोऽनुक इत्येव
सिद्धे अकिद्ग्रहणमेतज्ज्ञापकमिति सन्तुष्यतु भवान् । नीगादीनां तु तक्रन्यायेनैव दीर्घ-
बाधकत्वस्य निर्विवादतया तत्र अकिद्ग्रहणव्यावर्त्यालाभात् । न च 'चाच्छायत'
इत्यत्र अन्तरङ्गत्वान्नकि दीर्घव्यावृत्तयेऽकिद्ग्रहणं चरितार्थमिति वाच्यम् ; 'दीर्घोऽकित'
इत्यत्र नुवर्तमानाभ्यासपदस्याऽऽवृत्त्या अभ्यासत्वावच्छिन्नोद्देश्यताककिद्घटितभिन्नस्ये-
त्यर्थेनात्र तुकस्तथात्वाभावेन अस्य अकिद्ग्रहणव्यावर्त्यत्वासम्भवेन तद्वैयर्थ्यस्य सूप-
पादत्वात् । अत एव जहातेर्यङि तस्य व्यपदेशिवद्भावेन किद्घटित्वेऽपि दीर्घसिद्धिः ।
ज्ञापिते त्वस्मिन्वचने नुगादेरबाधकत्वेन दीर्घस्य व्यावृत्तये तस्य स्वांशे चारितार्थ्यम् ।
न चानया पूर्वं नुकोऽप्रवृत्तौ अकिद्ग्रहणेऽप्यभ्यासस्य किद्घटितभिन्नत्वेन पूर्वं दीर्घो
दुर्वार इति वाच्यम् ; अकित इत्यस्य किदुद्देश्यघटितभिन्नस्येत्यर्थेन नुगादेः पूर्व-
मनन्तरं वा तद्घटितत्वेन उक्तातिप्रसङ्गासम्भवात् ।
दीर्घाप्राप्त्येति । ननु यत्रैकैकप्रवृत्त्युत्तरमपरेषां प्रवृत्तियोग्यता तत्रैवैतत्परिभाषा-
प्रवृत्तिरिति कैयटाशयात् 'यंयम्यते' इत्यादौ नुगादिप्रवृत्त्युत्तरमपि अभ्यासविकारे
वैयधिकरण्येनान्वयात् 'दीर्घोऽकित' इति शास्त्रस्य अकित इति निषेधेनाप्रवृत्तावपि
तत्प्रवृत्तियोग्यताया अव्याघातात्कथं धर्मिग्राहकमानविरोध इत्यत आह—
मान्बधेति । दीर्घे कृते इत्त्वाप्राप्त्येति । नन्वत्रापि अभ्यासपदेशांशेऽाद्यत्वं कृत्वाऽभ्यास-
स्थानिकादेशस्येत्यर्थंकरणेन पूर्वमित्त्वे दीर्घे च 'मीमांसत' इत्यादीनां सिद्धिरिति नेदं
दूषणमित्यरुचेराह-चेति । तेन 'बोभूयते' इत्यस्य सङ्ग्रहः । तथा च 'गुणो
शास्त्रस्य तक्रन्यायेन दीर्घबाधकत्वमूलकम्, तेन न्यायेन बाधश्च तपरकरणस्य वैयर्थ्येन औप-
देशिकदीर्घमात्रव्यावर्तकत्वमूलकः, तपरवैयर्थ्यञ्च सर्वत्र ह्रस्वप्रवृत्तिमूलकम्, तत्प्रवृत्तिश्च परि-
भाषाधीना, परिभाषा च अकिद्ग्रहणपरतन्त्रेति चक्रकापत्तिरिति भावः ।
मूले-एकेतीति । उत्सर्गस्यापवादस्य चेत्यर्थः । यथा 'नर्तति' इत्यादौ उरदत्वे रुगा-
दयः, तेषु च तदिति भावः । मूले-तदुदाहरणेति । 'मीमांसत' इति तदुदाहरणेत्यर्थः ।
२५६ परिभाषेन्दुशेखरः [ २ प्रकरणे-
यङ्लुकोरि'ति सूत्रस्थ-'बोभूयते' इत्युदाहरणसिद्धिरिति भावः ।
अत्र केचित्—अभ्यासविकारे बाध्यबाधकभावाभावेन तयोर्यथायथं समावेशः, तेन
'बोभूयते' इत्यत्र ह्रस्वप्रवृत्त्युत्तरं गुणप्रवृत्त्येष्टसिद्धिः । 'विव्यथे' इत्यत्र सम्प्रसारणोत्तरं
हलादिःशेषसिद्धिः । न च 'बोभूयत' इत्यत्र गुणोत्तरं ह्रस्वापत्तिरिति वाच्यम् ;
बाधकशास्त्रप्रवृत्तिनैष्फल्यासम्पादकस्यैव समावेशस्य स्वीकारेणात्र बाधकगुणशास्त्र-
प्रवृत्त्युत्तरं ह्रस्वप्रवृत्तौ गुणशास्त्रप्रवृत्तेर्नैष्फल्येन तादृशसमावेशाप्रसक्तेरिति वदन्ति ।
अन्ये तु—अनया परिभाषया बाध्यानामेव पूर्वं प्रवृत्तिरिति बोध्यते । तथा च
'बोभूयत' इत्यत्र बाध्यह्रस्वप्रवृत्त्युत्तरं बाधकगुणप्रवृत्त्येष्टसिद्धिः । न चैवं 'विव्यथे'
इत्यादौ हलादिःशेषोत्तरं वकारस्य सम्प्रसारणापत्तिरिति वाच्यम् ; 'न सम्प्रसारणे'
इति सूत्रेण औपदेशिकयणवधिकपूर्वत्वाभाववत एव यणः सम्प्रसारणस्य बाधनात्
'विव्यथे' इत्यादौ 'व्यथो लिटि'त्यादिसूत्रारम्भसामर्थ्येन तत्परिभाषाया अत्राप्रवृत्ति-
कल्पनेनादोषात् । एतन्मूलकमेव कौमुद्याम् 'अन्त्यस्य यणः पूर्वं सम्प्रसारणमि'त्युक्तम् ।
'लिट्यभ्यासस्योभयेषामि'ति सूत्रे उभयेषां ग्रहणेन सम्प्रसारणस्य सर्वतो बलवत्त्व-
बोधनेन अदोषाच्च ।
अन्ये तु—अभ्यासविकाराणां परस्परविरोधविरहपूर्वकः समावेश इति
प्रकृतपरिभाषया प्रतिपाद्यते, तेन सति सम्भवे यौगपद्येनैव तेषां प्रवृत्तिः, यथा
'यंयम्यत' इत्यादौ नुगागम-हलादिःशेषयोः । यत्र तु बाध्यप्रवृत्त्युत्तरं बाधकप्रवृत्त्या
तत्समावेशस्तत्र बाध्यप्रवृत्त्युत्तरमेव बाधकप्रवृत्तिः, यथा 'अजीगणदि'त्यत्र हलादिः-
गुणोत्तरं ह्रस्वापत्तिरिति । एवम् 'अनूनवत्' इत्यत्र दीर्घोत्तरं ह्रस्वापत्तिर्बोध्या ।
नैष्फल्यासम्पादकस्यैवेति । चिन्त्यमिदम्, मानाभावात् । न च 'गुणो यङ्लुकोः', 'दीर्घो लघोः'
इत्यनयोश्च वैयर्थ्यापत्तिरेव मानमिति वाच्यम् ; 'डोडोक्यते, तोत्रीक्यते' इत्यादौ पूर्वमभ्यासे
इगभावेन पूर्वं गुणाप्राप्त्या ह्रस्वोत्तरं विधानेनाऽऽद्यस्य, एवम् 'अनीनयत्' इत्यत्र दीर्घान्ते
तदप्राप्त्या पूर्वं ह्रस्वे ततो दीर्घविधानेन 'दीर्घो लघोः', इत्यस्य चारितार्थ्याच्च तथा कल्पयितु-
मशक्यत्वादित्यरुचेरेवाह—अन्ये त्विति ।
सम्प्रसारणस्य बाधनादिति । चिन्त्यमिदम् ; युवन्शब्दादेरुपदेशाभावात्, 'उद्दे-
शश्च प्रातिपदिकानां नोपदेशः' इति भाष्यात् । हलादिःशेषोत्तरमौपदेशिकयणवधिकपूर्वत्वा-
भाववतो वकारस्य सम्प्रसारणविधानेन 'व्यथो लिटि' इत्यस्य चारितार्थ्येन परिभाषाबाधे माना-
भावाच्चेत्यरुचेराह— उभयेषां ग्रहणेनेति । नन्वेवं परिभाषाऽप्रवृत्त्या सम्प्रसारणेन तद्बाध-
स्तक्रन्यायेनैव वाच्यः, तथा सति बाधमहिम्ना सम्प्रसारणप्रवृत्त्युत्तरं हलादिःशेषप्रवृत्तिर्न स्यादिति
चेन्न । प्रतिलक्ष्यं लक्षणोपप्लवेन यकारनिवर्तकाद्भिन्नस्य थकारनिवर्तकहलादिःशेषस्य तेन बाधा-
भावात्, 'व्यथो लिटि' इत्यत्र यकारं प्रश्लिष्य व्यथो यकारस्य सम्प्रसारणमित्यर्थेन निरवकाश-
मूलकबाधेन बाधकप्रवृत्त्युत्तरमुत्सर्गशास्त्रप्रवृत्त्या दोषाभावाच्च ।
बलवत्त्वबोधनेन अदोषाच्चेति । आहुरिति शेषः । इत उत्तरं 'अन्ये तु' इत्यतः
६८ प० विचारः ] तत्त्वप्रकाशिकासमलङ्कृत-भूतिभूषितः २५७
ननु तच्छीलादितृन्विषये ण्वुलपि स्यात् । न च तृन्नपवादः ; अस-
रूपापवादस्य विकल्पेन बाधकत्वात्, अत आह—
ताच्छीलिकेषु वाऽसरूपविधिर्नास्ति ॥ ६८ ॥
—: ✤ :—
ण्वुलि सिद्धे ‘निन्दहिंसादि’सूत्रेण एकाच्भ्यो वुञ्विधानमत्र ज्ञापकम्,
तत्र ण्वुल्वुञोः स्वरे विशेषाभावात् ।
ताच्छीलिकेष्विति विषयसप्तमी, तेन ताच्छीलिकैरताच्छालीकैश्च वा
असरूपविधिर्नेति बोध्यम् ।
नन्वेवं ‘कम्रा कमने’त्याद्यसिद्धिः, नमिकम्प्रीति रेणानुदात्तेतश्च
हलादेरिति युचो बाधादिति चेन्न । ‘सूददीपदीक्षश्चे’त्यनेन दीपेर्युङ्निषेधेन
उक्तार्थस्य अनित्यत्वात् ॥ ६८ ॥
शेषोत्तरमीत्वम् । सम्प्रसारणविषये तु नायं न्यायः प्रवर्तते, लिट्यभ्यासस्येत्यत्रोभयेषां
ग्रहणेन तद्विषये एतदप्रवृत्तेर्ज्ञापनात्, तेन ‘विव्यथे’ इत्यादौ यकारस्य सम्प्रसारण-
सिद्धिरिति प्राहुः ॥ ६७ ॥
अपवादप्रस्तावादाह—ननु तच्छीलादीति । ण्वुलपि स्यादिति । कर्तृसामान्ये
विधीयमानस्यास्य ताच्छील्यादिविशिष्टे कर्तरि प्रवृत्तौ बाधकाभावादिति भावः ।
स्वरे विशेषाभावादिति । ‘निन्दक’ इत्यादौ ञ्नित्यादिर्नित्यमित्याद्युदात्तत्वे
लितीति प्रत्ययात्पूर्वस्य उदात्तत्वे वा विशेषाभावादित्यर्थः ।
ननु ताच्छीलिकेषु वाऽसरूपविध्यभावे ‘निराकर्ता, निराकरिष्णुरि’त्यादौ
तृनिष्णुचोः पर्यायता न सिद्ध्येदत आह—विषयसप्तमीति ॥ ६८ ॥
आरभ्य ‘प्राहुः इत्यन्तं तृतीयः प्रकारः प्रतिपादितः । सोऽपि ‘केचित्तु’ मतादविशिष्ट एव प्रतीयत
इति ‘बोभूयते’ इत्यस्यासिद्धेरुपेक्ष्य एवेति बोध्यम् ॥ ६७ ॥
मूले—ण्वुलिति । करणस्याधिकरणत्वविवक्षया सप्तमी । ताच्छीलिकेषु इति अभि-
व्यापकाधारे सप्तमी इत्याभिमानेनाऽऽशङ्कते—नन्विति ।
मूले—विषयसप्तमीति । विषयता च उत्सर्गापवादयोस्तत्त्वेनापवादस्य वा, अपवादस्य
तु तत्त्वं सर्वथाऽपेक्यत इति भावः, तदाह—तेनेति । ताच्छीलीकानामपवादानामिति शेषः ।
एवञ्च ताच्छीलिकेषु परस्परं वाऽसरूपविधिर्नेति परिभाषान्तरं न मन्तव्यम् । एकेनैव ज्ञापकेन
उभयोरपि लाभात् ।
वस्तुतस्तु—नैतद्विषयसप्तम्याः फलम्, ‘ताच्छीलिकेषु’ इति ताच्छीलीकापवादपरम् । अभि-
व्यापकाधारे सप्तमी । अस्तु ताच्छीलीकापवादप्रत्ययः, उत्सर्गस्य ताच्छीलिकत्वे वाऽसरूपन्याया-
प्रवृत्तौ ‘अनुदात्तेतश्च’ इति युचासिद्धे पुनर्ज्रुचङ्क्रम्येति पदेर्युज्विधानमपि गमकं बोध्यम् ॥ ६८ ॥
३३
२५८ परिभाषेन्दुशेखरः [ २ प्रकरणे-
नन्वेवं ‘हसितं छात्रस्य हसनमि’त्यादौ घञ् ‘इच्छति भोक्तुमि’त्यत्र
लिङ्लोटौ ‘ईषत्पानः सोमो भवते’त्यत्र खल् प्राप्नोतीत्यत आह—
क्तल्युट्तुमुन्खलर्थेषु वाऽसरूपविधिर्नास्ति ॥ ६९ ॥
—: ✤ :—
इदं च वाऽसरूपविधेरनित्यत्वात्सिद्धम् । तदनित्यत्वे ज्ञापकं ‘चाहें
कृत्यतृचश्चे’ति । तत्र हि चकारसमुच्चितलिङा कृत्यतृचो बाधो मा भूदिति
कृत्यतृज्ग्रहणं क्रियत इत्यन्यत्र विस्तरः ।
वाऽसरूपसूत्रे भाष्ये स्पष्टा ॥ ६९ ॥
ननु ‘श्वः पक्ते’त्यत्र वाऽसरूपविधिना लृडपि प्राप्नोति, कृते आदेशे
वैरूप्यादत आह—
लादेशेषु वाऽसरूपविधिर्नास्ति ॥ ७० ॥
—: ✤ :—
आदेशकृतवैरूप्यवत्सु लकारेषु स नास्तीत्यर्थः ।
घञिति । न चैवं ‘परिहास’ इत्यस्यासिद्धिरिति वाच्यम् ; हसेः पचाद्यजन्ताद्
घञर्थकान्ताद्वा प्रज्ञाद्यणि णिजन्तात्पचाद्यचि वा तत्सिद्धिसम्भवात् । अत एव परीपाक-
शब्दवत् परिहासे ‘उपसर्गस्य घञ्यि’ति दीर्घो नेति बोध्यम् ।
विधेरनित्यत्वादिति । अनेनैव पूर्वोत्तरपरिभाषयोः सिद्धौ पृथग् ज्ञापकान्तरोप-
वर्णनं प्रपञ्चार्थमिति बोध्यमित्यन्यत्र विस्तरः ॥ ६९ ॥
कृते आदेशे वैरूप्यादिति । वाऽसरूपसूत्रे सरूपपदेन स्वावृत्तिरूपवान् गृह्यते, तत्र
स्वपदेनाविशेषात् आदेशरूपस्यापि स्वस्य ग्रहणात् प्रकृते आदेशरूपः स्वं लुट्स्थानिक-
स्तिशब्दस्तस्यापि स्थानिवत्त्वेन लुट्त्वात् तद्वृत्ति-डाशब्दत्वरूपवान् लुडस्ति इति
लुटो विकल्पेन लृड्बाधकत्वापत्तिः । प्रायोगिकासारूप्यमात्रग्रहणे विकल्पासहत्वस्य
पूर्वमुपपादितत्वेऽपि तत्साधारणग्रहणे बाधकाभावादिति भावः ।
आदेशकृतवैरूप्यवत्स्विति । उक्तज्ञापकरूपबाधकसत्त्वात् ‘वाऽसरूप’सूत्रेऽपवादपदेन
ननु वाऽसरूपसूत्रे असरूपपदेन औपदेशिकसारूप्यवद्भिन्नस्य ग्रहणेन प्रकृते न दोष इति
चेदाह—वाऽसरूपसूत्र इति । लृड्बाधकत्वापत्तिरिति । ननु वाऽसरूपसूत्रे प्रायोगिका-
सारूप्यस्य ग्रहणं न भवतीत्यस्य ‘नानुबन्धकृतमसारूप्यम्’ इति परिभाषायामुपपादितत्वेनात्र
डाशब्दत्वरूपप्रायोगिकासारूप्योपादानेन दोषदानमयुक्तमित्याशङ्कायामाह—प्रायोगिकासारूप्य-
मात्रग्रहण इति । मात्रपदेन औपदेशिकस्य व्यावृत्तिः । विकल्पासहत्वस्येति । प्रयोगमात्रा-
वच्छेदेन प्रयोगसामानाधिकरण्येन वैत्येवंरूपविकल्पासहत्वस्येति तदर्थः । तत्साधारणग्रहण इति ।
औपदेशिक-प्रायोगिकयोरुभयोरपि ग्रहणे इति तदर्थः ।
७०-७१ पृ० विचारः ] तत्त्वप्रकाशिकासमलङ्कृत-भूतिभूषितः २५९
अत्र च 'हशश्वतोर्लङ् चे'ति लङ्-विधानं ज्ञापकम् ; अन्यथा 'परोक्षे
लिडि'ति लिटा लङः समावेशोऽसारूप्यात् सिद्ध इति किं लङ्-विधानेन ?
शत्रादिभिस्तिडां समावेशार्थं शतृविधायके विभाषाग्रहणानुवृत्तिः, 'लिटः
कानज्वे'ति वाग्रहणं च कृतम् । तज्ज्ञापयति वाऽसरूपसूत्रे अपवाद आदेश-
त्वानाक्रान्तः प्रत्यय एव गृह्यत इति कैयटादौ ध्वनितम् । तत्फलन्तु सदा-
दिभ्यो भूतसामान्ये लिटा क्वसुरेव, न तु पक्षे तिडिति बोध्यम् ॥ ७० ॥
ननु 'ङमो ह्रस्वादि'त्यादौ ङमः परस्याचोऽचि परतो ङम इति वेति
सन्देहः स्यादत आह—
लादेशत्वानाक्रान्तस्य ग्रहणम् । तथा च वाऽसरूपसूत्रे लादेशभिन्नो यः स्वं तद्वृत्ति-
रूपवान् असरूपपदेन गृह्यत इति फलति । न च लादेशभिन्नः स्वं लुट्शब्दस्तद-
वृत्तिरूपं लुट्त्वं तद्वान् लृडिति दोषस्तदवस्थ एवेति वाच्यम् ; 'नानुबन्धकृतमसा-
रूप्यमि'ति परिभाषया अनुबन्धरहितस्यैव स्वस्य ग्रहणेन स्वपदेन लृडित्यानुपूर्वी-
मतोऽग्रहणात् । एवञ्च रूपपदेनापि अनुबन्धरहितवृत्तिन एव ग्रहणं बोध्यम् ।
यदि तु वाऽसरूपसूत्रे औपदेशिकसारूप्यवद्भिन्नोऽनुबन्धरहित एव गृह्यते, तदा
शत्रादिभिस्तिङामसारूप्यादेव विकल्पसिद्धौ 'लटः शतृशानचौ' इत्यत्र विभाषाग्रहण-
वैय्यर्थ्यादिमूलोक्तदूषणानि दुर्वारतायापद्येरन्निति ॥ ७० ॥
सन्देहः स्यादिति । ननु 'तस्मिन्नि'ति, 'तस्मादि'ति परिभाषोपस्थितपूर्वपर-
पदार्थयोरभेदेनान्वयेन 'सुगण्-परमआत्मे'त्यादौ परमशब्दे तयोः सामानाधिकरण्येन
विरोधाभावात् संशयानुपपत्तिरिति चेन्न । तयोः परिभाषयोः पूर्वत्व-परत्वान्यतरद्-
षष्ठ्यर्थव्यवहितत्वेत्यंशत्रयोपस्थापकत्वेन यत्र स्वघटकांशः सिद्धो बाधितो वा
भवति तत्र तद्रहितांशोपस्थापकत्वम्, यथा 'परञ्चे'त्यधिकारे अव्यवधानांशमात्रो-
पस्थापकत्वम् । एवं चात्र संभेदेनान्यतरवैय्यर्थ्यात्, सप्तमीपरिभाषोपस्थितांशस्य
लादेशत्वानाक्रान्तस्येति । ननु वाऽसरूपसूत्रे औपदेशिकस्यैवासारूप्यस्य ग्रहण-
मस्तु इत्येतावतकल्पनयैव आदेशकृतवैरूप्यवत्सु लकारेषु दोषाभावेन लादेशत्वानाक्रान्त इति
सङ्कोचो विफल इति चेन्न । त्वन्मते शत्रादिभिस्तिडां समावेशसिद्धये विभाषाग्रहणं व्यर्थं
स्यात्, क्वसुना तिङाञ्च नित्यं बाधश्च न स्यादित्याशयेन तथासङ्कोचस्याङ्गीकारात् । तदेतत्
'यदि तु' इत्यादिनाऽग्रे स्फुटम् ॥ ७० ॥
सम्भेदेनेति । अभेदेन पूर्वस्य परस्य च परस्परमभेदान्वयेनेति यावत् । अन्यतर-
वैय्यर्थ्यादिति । अन्यतरस्य = षष्ठ्यर्थस्य वैय्यर्थ्यादित्यर्थः ॥ ७१ ॥
॥ इति श्रीवैयाकरणप्रवर 'गणपतिशास्त्रिमोकाटे' कृत-तत्त्वप्रकाशिकाभिधे
'भूति'-व्याख्याने बाधबीजनामकं द्वितीयं प्रकरणम् ॥ २ ॥
२६० परिभाषेन्दुशेखरः [ २ प्रकरणे-
उभयनिर्देशे पञ्चमीनिर्देशो बलीयान् ॥ ७१ ॥
-: ❀ :-
अचीति सप्तमीनिर्देशस्य ‘मय उञ्’ इत्युत्तरत्र चारितार्थ्यात् पञ्चमी-
निर्देशोऽनवकाश इति ‘तस्मादित्युत्तरस्ये’त्यस्यैव प्रवृत्तिः । यत्र तु ‘ङः सि
धुडि’त्यादौ उभयोरप्यचारितार्थ्यं तत्र तस्मिन्निति सूत्रापेक्षया ‘तस्मा-
दित्युत्तरस्ये’त्यस्य परत्वात्तेनैव व्यवस्था । एवमुभयोश्चारितार्थ्येऽपि ; यथा
‘आमि सर्वनाम्न’ इत्यादौ । तत्रा आमीति सप्तमी ‘त्रेस्त्रय’ इत्यत्र चरि-
तार्था । आदिति पञ्चम्यात् ‘जसेरसुगि’त्यत्र चरितार्थेति स्पष्टं तस्मि-
न्निति सूत्रे भाष्ये कैयटे च ॥ ७१ ॥
॥ इति बाधबीजनामकं द्वितीयं प्रकरणम् ॥
विशेष्यत्वविवक्षायां पञ्चमीपरिभाषोपस्थितस्य परस्येत्यस्य विशेषणत्वेन विशेषण-
विभक्तेर्निरर्थकत्वाच्च तदुपस्थितपरत्वांशस्य श्रुतानुमितपरिभाषया अच्पदार्थेनान्वयाद्
ङमः परो योऽच् तदव्यवहितपूर्वस्येत्यर्थेऽपि परतो ङमो ङमुट् प्राप्नोति । पञ्चमी-
परिभाषोपस्थितस्य विशेष्यत्वे सप्तमीपरिभाषोपस्थितस्य विशेषणत्वे च पूर्वरीत्या
तस्य ङम्पदार्थेऽन्वयेन अजव्यवहितपूर्वङम उत्तरस्येत्यर्थेन ङम उत्तरस्याचो ङमुट्
प्राप्नोतीति सन्देहस्य सूपपादत्वात् । न च द्वयोरपि परिभाषयोः षष्ठ्यर्थोपस्थाप-
कत्वे फलाभावः, ‘उदःस्था०’, ‘इको यणची’त्यादौ स्वविषये षष्ठ्याः सत्त्वादिति
वाच्यम् ; ‘पदन्न’ इत्यादौ षष्ठ्यभावेन पादादीनां स्थाने आदेशसिद्ध्यर्थं तदुपस्था-
पकत्वावश्यकत्वात् ।
बलीयानिति । तथा च प्रकृते ‘तस्मादि’ति परिभाषाया एवांशत्रयोपस्थापक-
त्वेन अचो ङमुट्सिद्धिः ।
बलीयस्त्वे हेतुमाह—अनवकाश इति । एवं चेदं वचनं न्यायसिद्धमिति भावः,
तेन यत्र सप्तमीनिर्देशस्यैवानवकाशत्वं तत्र सप्तमीनिर्देश एव बलीयान् । अत एव
‘शितुगि’त्यत्र शे परे इत्यर्थलाभः । एतेन ‘उभयनिर्देशे पञ्चमीनिर्देशो बलवानि’ति
बलवत्त्वे परत्वादित्येव हेतुरिति वदन्तः परास्ताः । परत्वादिति । विप्रतिषेधाभावेन
विप्रतिषेध इति सूत्रविषयाभावेऽपि ‘अणुरपि विशेष’ इति न्यायेन ‘तस्मादि’ति सूत्रस्यै-
वात्र प्रवृत्तिसिद्धिः ॥ ७१ ॥
॥ इति भूतितिलके बाधबीजनामकं द्वितीयं प्रकरणम् ॥
३प्रकरणे, ७२ प० विचारः ] तत्त्वप्रकाशिकासमलङ्कृत-भूतिभूषितः २६१
अथ शास्त्रशेषनामकं तृतीयं प्रकरणम्
-: ❖ :-
ननु ‘अतः कृकमी’ति सत्वम् ‘अयस्कुम्भी’त्यत्र न स्यात् कुम्भशब्द-
स्यैवोपादानात्; अत आह—
प्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणम् ॥ ७२ ॥
-: ❖ :-
सामान्यरूपेण विशेषरूपेण वा प्रातिपदिकबोधकशब्दग्रहणे सति
लिङ्गबोधकप्रत्ययविशिष्टस्यापि तेन ग्रहणं बोध्यम् । अपिना केवलस्या-
पीत्यर्थः ।
अस्याश्च ज्ञापकं समानाधिकरणाधिकारस्थे ‘कुमारः श्रमणादिभि’-
रिति सूत्रे स्त्रीलिङ्गश्रमणादिशब्दपाठः । स्त्रीप्रत्ययविशिष्टश्रमणादिभिश्च
कुमारीशब्दस्यैव सामानाधिकरण्यं न तु कुमारशब्दस्येति तदेतज्ज्ञापकम् ।
अथ भूतितिलके तृतीयं प्रकरणम्
-: ❖ :-
कुम्भशब्दस्यैवोपादानादिति । न च ‘एकदेशविकृत’न्यायेन ‘कुम्भी’त्यत्र तत्त्वमिति
वाच्यम् ; तस्याक्तपरिमाणत्वेन परिभाषाया अप्रवृत्तेः, एकदेशविकृतत्वाभावाच्च । .
कुम्भान्ते कुम्भादावुत्तरपदे इत्यर्थोऽपि नात्र, उत्तरपदाधिकारे प्रातिपदिकग्रहण इति
निषेधात् , कुम्भशब्दस्य वर्णत्व-धातुत्वव्याप्यधर्मावच्छिन्नबोधकत्वाभावेन तदादिविध्य-
प्रसक्तेश्च । अत एव ‘अयःकुम्भजलम्’त्यादौ सत्वं न ।
सामान्यरूपेणेति । प्रातिपदिकत्वेनेत्यर्थः । विशेषरूपेणेति । प्रातिपदिकत्वव्याप्य-
कुम्भशब्दत्वादिनेत्यर्थः ।
ज्ञापकमिति । ननु कुमारशब्दत्वस्य ‘कुमारक्रीडायाम्’त्यत्र धातावपि सत्त्वात्
प्रातिपदिकत्वव्याप्यत्वाभावेन कथं परिभाषाप्रवृत्तिः । यदि च प्रातिपदिकत्वव्याप्ये-
त्यस्य प्रातिपदिकमात्रवृत्तिविषयताप्रयोजक-पदप्रतिपाद्यतावच्छेदकधर्मेत्यर्थः, ‘कुमार-
श्रमणादिभिर्’त्यत्रत्य-कुमारशब्दस्य प्रातिपदिकमात्रवृत्तिविषयताप्रयोजकत्वेन तत्प्रति-
पाद्यतावच्छेदककुमारशब्दत्वस्यातिदेशसम्भव इत्युच्यते; तदा ‘अत इनी’त्यादौ अच्छब्द-
अथ तत्त्वप्रकाशिकायां शास्त्रशेषनामकं तृतीयं प्रकरणम्
-: ❖ :-
कुम्भशब्दस्यैवोपादानादितीति । समासाक्षिप्तोत्तरपदत्वेन इति शेषः । एतेन यस्येति
लोपोत्तरम् ‘एकदेशविकृत’न्यायेन कुम्भशब्दत्वात् सत्वं स्यादिति शङ्काऽपि निरस्ता वेदितव्या ।
प्रातिपदिकत्वेनेत्यर्थ इति । अत एव ‘ङ्याप् प्रातिपदिकात्’ इति सूत्रे प्रातिपदिक-
ग्रहणेनैव सिद्धे ङ्याब्ग्रहणेन ङ्याबन्तात् तद्धितोत्पत्तिर्ज्ञापिता भाष्ये । विशेषरूपेणेतीति ।
धर्मिग्राहकमानादिति भावः ।
इयञ्च द्विषत्परयोरित्याद्युपपदविधौ समासान्तविधौ महदात्त्वे ञ्नित्-
स्यापि प्रातिपदिकमात्रवृत्तिविषयताप्रयोजकत्वेन तत्प्रतिपाद्यतावच्छेदकादन्तत्वस्य स्त्री-
प्रत्ययान्तेऽतिदेशापत्त्या 'रमा, गौरी'त्यादावपि इनिप्रत्ययापत्तेरिति चेन्न । प्रातिपदिक-
मात्रवृत्तिविषयताप्रयोजकेत्यनेन प्रातिपदिकवृत्तिविषयताप्रयोजकं प्रातिपदिकेतरवृत्ति-
विषयताप्रयोजकत्वाभाववच्च यत्तस्य ग्रहणम् । तत्राभावश्च सामानाधिकरण्यसम्बन्धेन
पदार्थान्तरान्वयप्रयोज्यो गृह्यते । 'अत इनि'त्यत्र अत्पदस्य प्रातिपदिकपदार्थेन सह
सामानाधिकरण्येनान्वयादेव प्रातिपदिकेतरवृत्तिविषयताप्रयोजकत्वाभाववत्त्वेन प्राति-
पदिकमात्रवृत्तिविषयताप्रयोजकत्वाभावात् तत्प्रतिपाद्यतावच्छेदकाऽदन्तत्वस्यातिदेशा-
सम्भवात् । 'कुमारश्रमणे'त्यत्र सुप्पदसम्बन्धात् कुमारधातुप्रकृतिक-सुपोऽसम्भवादेव
कुमारपदस्य प्रातिपदिकेतरवृत्तिविषयताऽप्रयोजकत्वं न तु सामानाधिकरण्यसम्बन्धेन
पदार्थान्तरान्वयप्रयोज्यम्, अतः कुमारपदस्य प्रातिपदिकमात्रवृत्तिविषयताप्रयोजकत्वेन
ज्ञापकत्वस्य निष्प्रत्यूहत्वात् ।
केचित्तु - 'युवाखलती'ति सूत्रे जरतीति स्त्रीलिङ्गनिर्देशोऽस्या ज्ञापकः ; अन्यथा
युवशब्देन जरतीशब्दस्य सामानाधिकरण्यासम्भवात् तदसङ्गतिः स्यादिति वदन्ति ।
द्विषत्परयोरिति । 'द्विषतीताप' इत्यत्र न खश् । समासान्तविधाविति । 'मद्रराज्ञी'-
त्यत्र न टच् । महदात्त्व इति । 'महतीप्रिय' इत्यत्र नाऽऽत्त्वम् । ञ्नित्स्वर इति ।
'औत्सी'त्यत्र नाऽऽद्युदात्तः । राजस्वरे ब्राह्मणकुमारयोरिति । 'राजकुमारी, राज-
विषयताप्रयोजकेति । विषयताऽत्र शाब्दबोधीया ग्राह्या, न तु उपस्थितीया, तस्याः
सङ्कुचिताया असम्भवात् ।
निष्प्रत्यूहत्वादिति । नन्वेवं 'ञ्नित्यादिर्नित्यम्'ति सूत्रस्थभाष्यविरोधः, तत्र हि
प्रकृतपरिभाषया लिङ्गबोधकप्रत्ययविशिष्टस्यापि प्राप्तग्रहणवारणाय अस्या अनित्यत्वमभ्युपेयते
तन्न सङ्गच्छेत ; भवद्रीत्या प्रातिपदिकग्रहणाभावेन तत्प्राप्तेरभावात्, सामानाधिकरण्येनान्वयादेव
प्रातिपदिकेतरवृत्तिविषयताप्रयोजकत्वाभाववत्त्वादिति चेत् - सत्यम् । 'प्रातिपदिकमात्रवृत्ति-
विषयताप्रयोजके'त्यादेः प्रातिपदिकविशिष्टधर्मावच्छिन्नविषयताप्रयोजक-पदप्रतिपाद्यतावच्छेदक-
धर्म इत्यर्थकरणेनादोषात् । वैशिष्ट्यञ्च - स्ववृत्तित्व-स्वेतरीभूतधात्वितरावृत्तित्वैतदुभयसम्बन्धेन ।
अदन्तत्वस्य प्रातिपदिकेतरधात्वितरः प्रत्ययादिः, तद्वृत्तित्वमेवेति न दोषः ।
न टजिति । न चात्र टचि कृते यस्येति लोपेन ङीपो निवृत्तौ तच्छिष्टत्वेन तदन्तात्
ङीपि यस्येति लोपेन टचो निवृत्तौ रूपसिद्धिर्भवत्येवेति वाच्यम् ; टजुत्तरं 'भस्याढ' इति पुंवद्भावेन
'नस्तद्धिते' इति टिलोपे टजन्तात् ङीपि 'मद्रराजी' इत्यस्यैवापत्तेः । नाऽऽत्त्वमिति । तस्मिन्
सति प्रियादिपरत्वेन पुंवद्भावाप्राप्त्या 'महतीप्रियः' इति स्यात् । 'ञ्नित्स्वरे प्राचामवृद्धात्' इति
फिञन्तल्लुचुकायनिशब्दात् 'इतो मनुष्यजातेः' इति ङीषि ग्लुचुकायनीशब्दे नाऽऽद्युदात्तः ।
स्वरे राजस्वरे ब्राह्मणकुमारयोः बहोर्नञ्वदुत्तरपदभूम्नि इत्यादौ समास-
सङ्घातग्रहणेषु च न प्रवर्तत इति 'ङ्याप्'सूत्रे भाष्ये स्पष्टम् । विभक्ति-
निमित्तककार्ये च नेत्यपि तत्रैव । तत्र समासान्तविधौ अवयवग्रहणं एव न ;
समाससङ्घातग्रहणे तु प्रवर्तत एव, स्वरविधावेव समाससङ्घातग्रहणे तत्र
ब्राह्मणी'त्यत्र पूर्वपदप्रकृतिस्वरो न । बहोर्नञ्वदुत्तरपदभूम्नीति । 'बहवो गोमन्तोऽस्यां
सा बहुगोमती'त्यत्र नञ्वत्स्वरोऽन्तोदात्तो न । समाससङ्घातग्रहणेष्विति । इदं पूर्वान्वयि
न तु पृथक् , तेन अवयवीभूतपूर्वोत्तरग्रहणे राजस्वरव्यतिरिक्ते तु एतत्परिभाषा-
प्रवृत्तिरिष्टैव । तेन 'कुसूलकूपकुम्भशालं बिल' इत्यनेन बिलशब्दे परतो विधीयमानं
कुसूलादीनां प्रकृतिस्वरत्वं यथा 'कुसूलबिलम्'त्यत्र भवति तथा 'कुसूलीबिलम्'-
त्यत्रापि भवति ।
२६४ परिभाषेन्दुशेखरः [ ३ प्रकरणे-
दोषोक्तेः, 'बहुव्रीहेरूधस' इति सूत्रस्थभाष्याच्च ।
एतावत्स्वेव अनित्यत्वात्प्रवृत्तिदोषाः खल्वपि साकल्येन परिगणिता
इति भाष्योक्तेः ।
नन्वेवं 'बहुव्रीहेरूधसो ङीषि'ति सूत्रस्थभाष्यासङ्गतिः, तत्र हि 'कुण्डो-
ध्नी'त्यत्र 'नद्यृतश्चे'ति कबापादितो नद्यन्तबहुव्रीहेरित्यर्थात् नद्यन्तस्य बहु-
व्रीहित्वाभावात्तदसङ्गतिः, नद्यन्तानां यः समास इत्यर्थेन च परिहृतम्। नद्यन्त-
प्रकृतिकसुबन्तोत्तरपदकः समास इति चेत्-न; अनया परिभाषया स्त्रीप्रत्यय-
समभिव्याहारे तद्रहिते दृष्टानां प्रातिपदिकत्व-तद्व्याप्यधर्माणां विशिष्टेऽपि
यस्ये'त्यत्र भ्रातृशब्दान्तबहुव्रीहित्वातिदेशेन 'वन्दिते भ्रातुरि'ति कब्निषेधसिद्ध्या
'
७२ प० विचारः ] तत्त्वप्रकाशिकासमलङ्कृत-भूतिभूषितः २६५
पर्याप्तत्वमतिदिश्यत इत्याशयात् ॥ ७२ ॥
स्वविशिष्टवर्त्तिनः प्रातिपदिकमात्रवृत्ति-विषयताप्रयोजक-पदप्रतिपाद्यतावच्छेदकधर्मस्य
अनयाऽतिदेश इत्याशयः । उभयत्र वैशिष्ट्यञ्च—स्वाव्यवहितपूर्वत्व-स्वनिष्ठविधेयता-
निरूपितोद्देश्यताश्रयघटकत्वोभयसम्बन्धेनेति एकरूपमेव, तेन 'अयस्कर्णी'त्यत्र 'पाक-
कर्णे'ति सूत्रेण अयस्कर्णशब्दात्ङीष्यपि कर्णशब्दस्य ङीब्विशिष्टत्वेन तद्वृत्त्यर्थवत्त्वस्य
कर्णीशब्दे स्वविशिष्टेऽतिदेशेन 'अतः कृकमी'ति सत्वसिद्धिः । अत एव 'दर्शनीय-
मानिनी'त्यादौ 'क्यङ्मानिनोश्चे'ति पुंवद्भाव एतस्या प्रयोजनमित्युक्तं भाष्ये ।
अन्यथाऽत्र 'गतिकारके'ति परिभाषया ङीबुत्पत्तेः प्राक् समासे दर्शनीयामानिन्-
शब्दात्ङीपि मानिनीशब्दस्य उत्तरपदत्वाभावात्तदसङ्गतिः स्यादिति बोध्यम् । 'यतो
यो विहितस्तदादेरेव तेन ग्रहणम्' इति नियमे तु न मानमिति स्पष्टं 'स्वाङ्गाच्चेत'
इत्यत्र शेखरे । न च विशेषरूपेण प्रातिपदिकग्रहणे परिभाषाप्रवृत्तेः पूर्वमुक्तत्वेन
बहुव्रीहित्वस्यापि तद्विशेषरूपत्वाच्छङ्काया अनुत्थितिरिति वाच्यम् ; विशेषरूपपदेन
प्रातिपदिकत्वव्याप्यस्य आनुपूर्वीरूपस्य कुम्भशब्दत्वादेरेव ज्ञापकसाजात्यात् ग्रहण-
मित्याशयेन शङ्कायाः सुवचत्वात् ।
केचित्तु—'अतः कृकमी'त्यत्र 'विश्वदेवयोर्लोहितादिडाज्भ्य' इत्यादिषु
'कुम्भश्च कुम्भी चे'त्यादिविग्रहेण 'पुमान्स्त्रिये'त्येकशेषकल्पनात् कुम्भीदेवीलोहिन्यादि-
शब्देष्वपि तत्तत्कार्यप्रवृत्त्येष्टसिद्धेः 'कुमारश्रमणादिभिरि'त्यत्र कृतपुंवत्क-कुमारी-
शब्दस्यैव निर्देशेन तत्सामार्थक्यपत्तेर्विशेषरूपेण ग्रहणेऽस्याः प्रवृत्तौ न किञ्चित्फलम् ।
न च 'अतः कृकमी'त्यादौ कुम्भशब्दस्य शब्दपरतया 'पुमान् स्त्रिये'त्यस्याप्रवृत्तिः,
अत एव 'शक्तिकाङ्गले'त्यत्र 'घटघटी'त्येकशेषाभावः सङ्गच्छत इति वाच्यम् ;
प्रकृतिवदनुकरणमित्यतिदेशेन कुम्भोशब्दस्य स्त्रीवाचकत्वातिदेशेन 'पुमान् स्त्रिये',
त्यस्य प्रवृत्तेः सुवचत्वात् । 'घटघटी'त्यादौ तु प्रकृतिवदनुकरणमित्यस्य अनित्यत्वा-
न्नैकशेषः । एवं सामान्यग्रहणेऽपि नास्याः फलम् , रमा, गौरी'त्यादौ स्वाद्युत्पत्तिस्तु
इत्युक्त्यैव सामञ्जस्ये अव्यवहितपूर्वत्वस्य घटकत्वस्य च प्रवेशश्चिन्त्यः, फलाभावात्, गौरवाच्च ।
उभयत्र उद्देश्यताऽऽश्रयता च अपर्याप्त्याऽपि गृह्यते, 'स्वाङ्गाच्चेतः' इति सूत्रभाष्यादिति न दोषः ।
अर्थवत्त्वस्य कर्णीशब्द इति । न चात्र कर्णीशब्दस्य प्रातिपदिकग्रहणत्वाभावात्
अस्या अप्रवृत्तिरेव स्यादिति वाच्यम् ; 'अयःकुम्भजलम्' इत्यत्र सत्ववारणाय समासेन उत्तर-
पदे इत्यस्याऽऽक्षेपेण अदोषात् , तस्य प्रातिपदिकमात्रवृत्तिविषयताप्रयोजकत्वाच्च प्रातिपदिक-
ग्रहणं सूपपादम् । एवञ्च कर्णवृत्त्युत्तरपदत्वं कर्णीशब्दे आरोप्यत इति तत्त्वम् ।
यत्तु—अर्थवत्त्वं न सुलभम्, कर्णीशब्दस्य अर्थवत्त्वासम्भवात् । तन्न ; 'कर्णस्य स्त्री,
कर्णी' ( 'पुंयोगादाख्यायाम्' इति ङीष् ) इत्यर्थवतः कर्णीशब्दस्य सम्भवात् ।
मानिनीशब्दस्योत्तरपदत्वाभावादिति । वस्तुतस्तु—स्वैरिणीवत् ङीपः प्राग्भाग-
मादाय नात्र दोषः ।
३४
२६६ परिभाषेन्दुशेखरः [ ३ प्रकरणे-
नन्वेवं 'यूनः पश्ये'त्यत्रेव 'युवतीः पश्ये'त्यत्रापि 'श्वयुवे'ति सम्प्रसा-
रणं स्यादत आह—
विभक्तौ लिङ्गविशिष्टाग्रहणम् ॥ ७३ ॥
—: ✤ :—
स्पष्टा चेयं 'युवोरनाको' इत्यत्र भाष्ये । घटघटीग्रहणेन लिङ्गविशिष्ट-
ङ्याब्ग्रहणादेव भविष्यति । ङ्याबन्तात् क्विबादेस्त्वनभिधानमेव । अत एव
सूत्रकृन्मते 'प्राचां ष्फः तद्धिते' इत्यत्र तद्धितग्रहणं चरितार्थम् ; अन्यथा ष्फान्तस्य
अनयैव प्रातिपदिकपदेन ग्रहणे सिद्धेस्तद्वैयर्थ्यापत्तिरिति वदन्ति ।। ७२ ।।
युवतीः पश्येति । 'सुपथी'त्यादौ आत्वादेरुपलक्षणमिदम् । 'युवतीरि'त्यत्र तु
अन्नन्तानां श्वादीनामित्यर्थकरणेन सम्प्रसारणव्यावृत्तेर्भाष्यकृतोक्तत्वात् ।
केचित्तु — सूत्रे श्वन्नादीनां तदन्तपरत्वेन अन एकदेशान्वयासम्भवादन इत्यस्य
अन्नन्तश्वन्नाद्यन्ते लक्षणायां तात्पर्यग्राहकत्वेन अन्नन्तयुवन्शब्दत्वस्य तथात्वेन
तदतिदेशे बाधकाभाव इति वदन्ति ।
विभक्ताविति । विषयसप्तमी, तेन विभक्त्युद्देश्यके तन्निमित्तके सर्वविध-
विभक्तिसम्बन्धिनि कार्य इत्यर्थः । तेन 'शुन्ये'त्यादौ गौरादिङीषो यणि कृते उदात्त-
यणो 'हल्पूर्वादि'ति विभक्त्युदात्तत्वस्याऽनया 'शुनी'त्यत्र श्वनशब्दत्वमादाय
'न गोश्वन्त्साववर्णे'ति न निषेधः, अस्य विभक्त्युद्देश्यकत्वेन तत्सम्बन्धित्वात् ।
एवं 'सख्यौ' इत्यत्र णिद्भावोऽपि नेति बोध्यम् । न च 'चित्रगवीणामि'त्यत्र
'कुमति चे'ति णत्वानापत्तिः, विभक्त्युद्देश्यककार्यत्वेन अनया निषेधेन ङ्यन्ते
समासत्वानतिदेशात्, 'कुमतिचे'त्यस्य कवर्गवदुत्तरपदघटितसमासप्रकृतिकविभक्ति-
नकारे एव प्रवृत्तेः । अत एव 'पूर्वं पापानां विपाक' इत्यत्र 'षष्ठ्या आक्रोश' इत्यलुकि
वदन्तीति । न च 'अतिशयितो भ्राता यस्याः सा अतिभ्रात्री, अस्य अतिभ्रात्री आति-
भ्रात्री' इति तत्पुरुषसमासे कृते ङीबन्तेऽनया बहुव्रीहित्वारोपेण परादिवद्भावेन च समुदाये
आरोपात् 'नघृतश्च' इति कप्रवृत्तये इयमावश्यकीति वाच्यम्; प्रागुक्तरीत्या बहुव्रीह्यर्थालौकिक-
विग्रहवाक्यत्वाभावेन सिद्धान्तेऽपि कपोऽप्राप्त्या तदर्थं तस्या अनावश्यकत्वादिति तात्पर्यम् ।।७२।।
सर्वविधेति । यथाकथञ्चिदिति तदर्थः, साक्षात् पदत्वादिकारकपरम्परया वा इति यावत् ।
विभक्त्युद्देश्यककार्यत्वेनेति । साक्षात् परम्परया वा विभक्त्युद्देश्यककार्यत्वेन इति
तदर्थः । शेखरकृन्मते तु साक्षादेव विभक्त्युद्देश्यके विभक्तिनिमित्तके वा कार्ये एव अस्याः
प्रवृत्तिः, विभक्तेश्चाश्रयणं येन केनापि रूपेण भवतु । अत एव 'चित्रगवीणाम्' इत्यादौ णत्वं
भवत्येव, लिङ्गविशिष्टपरिभाषया विभक्तिप्रकृतौ समासत्वात् । 'णत्वरहितपाठस्तु लेखकप्रमादात्'
इति 'कुमति च' इति सूत्रस्थशेखरग्रन्थः, 'चित्रगवीणाम्' इति प्रतीकमुपादाय 'कुमति चे'ति
नित्यं णत्वं न्याय्यम्' इति शब्दरत्नग्रन्थश्च सङ्गच्छते
[७३-७४ प० विचारः ] तत्त्वप्रकाशिकासमलङ्कृत-भूतिभूषितः २६७
परिभाषाया अनित्यत्वात् तन्मूलेषा इत्यन्ये ॥ ७३ ॥
ननु 'तस्यापत्यम्' इत्येकवचन-नपुंसकाभ्यां निर्देशाद् 'गार्ग्यो गार्ग्यौ'
इत्याद्ययुक्तमत आह—
सूत्रे लिङ्गवचनमतन्त्रम् ॥ ७४ ॥
—: ✿ :—
'अर्धं नपुंसकम्'ति नपुंसकग्रहणमस्या ज्ञापकम् । नित्यनपुंसकत्वार्थं
तु न तदित्यन्यत्र निरूपितम् ।
विभक्तिकारस्य णत्वं नेति वाच्यम् ; 'अट्कुप्वाङि'ति णत्वेनेष्टसिद्धेः । 'दीर्घाह्नो'-
त्यत्र 'अहन्नि'ति रुत्वस्यापि पदत्वद्वारा विभक्तिनिमित्तकत्वेन विभक्तिसम्बन्धिकार्यत्वा-
दनया अहन्शब्दत्वातिदेशासम्भवान्न रुत्वमिति दिक् ॥ ७३ ॥
अयुक्तमिति । न च द्वित्व-बहुत्वयोः पुंस्त्व-स्त्रीत्वयोश्चाविवक्षायामेकवचन-
नपुंसकलिङ्गप्रयुक्तकार्यप्रवृत्तिः, अत एव स्तोकादिशब्देभ्यो नपुंसकैकवचनामादि-
सिद्धिरिति न प्रकृतप्रयोगासङ्गतिरिति वाच्यम् ; समवायान्पक्षमत्स्यमृगानि-
त्यादिप्रयोगोपलक्षणत्वेनैतस्य 'मृगं हन्ति मार्गिक' इत्यादिप्रयोगानुपपत्तिरित्या-
शयेन अदोषात् ।
अतन्त्रमिति । असति यत्ने अविवक्षितमित्यर्थः । अत एव 'पदात्स्वैरी'त्यादौ
नपुंसकनिर्देशेन सिद्धौ बाह्या इति स्त्रीलिङ्गनिर्देशो विवक्षार्थः, तेन पुंन्नपुंसकयोः
क्यबभावसिद्धिः । न च तस्याविवक्षितत्वे 'मृगानि'त्यादौ नत्वाद्यनापत्तिः, 'तस्मा-
च्छस' इत्यस्य पुंस्त्वे विवक्षिते इत्यर्थादिति वाच्यम् ; पक्षिमत्स्येत्यादिशब्दैः
पुंस्त्वादेर्विवक्षितत्वेऽपि तद्धितवाच्यतावच्छेदककुक्षौ अविवक्षितमित्यर्थेन अदोषा-
दित्यन्यत्र विस्तरः ।
नित्यनपुंसकत्वार्थं तु नेति । पूर्वापराधरोत्तरार्धमित्येकयोगेन सिद्धे पृथग्योगकरणे-
नैव तत्सिद्ध्या नपुंसकग्रहणवैय्यर्थ्यस्य सूपपादत्वादिति भावः ।
अट्कुप्वाङिति णत्वेनेति । निमित्तानधिकरण-निमित्तिमत्पदाघटितत्वरूपाखण्डपदत्व-
सत्त्वादिति भावः । विभक्तौ लिङ्गविशिष्टाग्रहणात् प्रातिपदिकान्तत्वस्याप्यप्राप्तेः । तत्रापि पूर्व-
पदेना आक्षिप्तसमासरूपप्रातिपदिकप्रकृतिकविभक्तेरेव ग्रहणादिति भावः । 'माषं वपतीति या
माषवापी' कर्मण्यण्, तदन्तात् ङीपि आम्विभक्तौ 'माषवापीनाम्' इत्यत्र शेखरकृन्मते विकल्पेन
णत्वं भविष्यति, टीकाकृन्मते तु नित्यं णत्वमिति फलभेदश्चिन्तनीयः ।
न रुत्वमिति । अत्र शेखरकृन्मतेऽपि 'अह्न' इति वक्तव्ये 'अहन्' इति नान्तानु-
करणसामर्थ्यात् नान्ताहन्शब्दस्यैव रुत्वविधानान्न दोषः ॥ ७३ ॥
तद्धितवाच्यतावच्छेदककुक्षौ अविवक्षितमिति । बुद्धिस्थत्ववदुपलक्षणम्, न तु
विशेषणमिति भावः । तथा च आश्रयत्वसम्बन्धावच्छिन्न-बोधविषयतातावच्छेदकप्रकारतानिरू-
धान्यपलालन्यायेन नान्तरीयकतया तयोरुपादानमिति 'तस्यापत्यम्'
इत्यत्र भाष्ये स्पष्टम् ।
वस्तुतस्तु—तन्न युक्तमित्यत्र प्रमाणमाह—अन्यत्रेति । 'एओङ्, ऐच्' इति
सूत्रयोरर्धं एकारोऽर्धं ओकार इति भाष्ये समांशवाचिनाऽपि पुंस्त्वाभिधानेन नित्य-
नपुंसकत्वस्याप्रामाणिकतया न तद्ग्रहणार्थं नपुंसकग्रहणमिति तत्रैव सूत्रे प्रति-
पादितमित्यर्थः ।
केचित्तु—भाष्येऽर्धंशब्दः खण्डत्वेन वस्तुतः समांशवाचक इति न तद्विरोध
इति प्राहुः ।
नान्तरीयकतयेति । नान्तरीयकत्वं चाविनाभावः । विनार्थकादन्तराशब्दात्
गहादित्वाच्छप्रत्यये नञ्तत्पुरुषे भाष्यप्रयोगान्नलोपाभावे स्वार्थिके कन्प्रत्यये
नान्तरीयक'शब्दः साधुरिति कैयटे स्पष्टम् । एतेन नान्तरीयकतया यस्य यस्यो-
पादानं तस्य सर्वस्याविवक्षितत्वमिति सूचितम्, तेन 'तदधीते' इत्यादौ कालस्य,
'तत्करोति तदाचष्टे' इत्यादौ काल-कारकयोश्चैवमेवाऽविवक्षा सिद्धयतीति भावः ।
भाष्ये स्पष्टमिति । तत्र हि यथा कश्चिद्धान्यार्थी शालिकलापं सतुषं सपलालमाहरति
नान्तरीयकत्वात्, स यावदादेयं तावदादाय तुषपलालान्युत्सृजति, तथा कश्चिन्
मत्स्यार्थी मत्स्यान् सशल्कान् सकण्टकानाहरति नान्तरीयकत्वात्, स यावदादेयं
पितविशेष्यताश्रयविशेषणानां येषां बोधविषयतायां धर्मपारतन्त्र्येण विशेषणत्वं तानि विशेषणानि
इत्युच्यन्ते, येषां बोधविषयतासामानाधिकरण्यमात्रं तान्युपलक्षणान्युच्यन्ते । यथा तत्पदशक्तौ
बुद्धिविषयतावच्छेदकत्वम् । एवञ्च “एकत्वविशिष्टनपुंसकत्वविशिष्टापत्यत्वावच्छिन्नम् अण्पदाद्
[L2
७४-७५ प० विचारः ] तत्त्वप्रकाशिकासमलङ्कृत-भूतिभूषितः २६९
अत एव ‘आकडार’सूत्रे एकेति चरितार्थमित्यन्यत्र विस्तरः ॥७४॥
ननु ‘भृशादिभ्यो भुव्यच्वेर्’त्यादौ विधीयमानः क्यङ् ‘क्व दिवा
भूशा भवन्तो'त्यत्रापि स्यादत आह—
नञिवयुक्तमन्यसदृशाधिकरणे तथा ह्यर्थगतिः ॥ ७५ ॥
—: ❀ :—
नञ्युक्तमिवयुक्तं च यत्किञ्चिद् दृश्यते तत्र तस्माद् भिन्ने तत्सदृशे
अधिकरणे द्रव्ये कार्यं विज्ञायते हि यतस्तथाऽर्थगतिरस्ति । नहि ‘अब्राह्मण-
मानये’त्युक्ते लोष्टमानीय कृती भवति । अतश्च्व्यन्तभिन्ने च्व्यन्तसदृशे
अभूततद्भावविषये क्यङिति नोक्तदोषः ।
‘ओषधेश्च विभक्तावप्रथमायामि’त्यादौ विभक्तिग्रहणमेतन्न्यायसिद्धा-
र्थानुवाद एव । एतेन विभक्तावित्याद्यस
२७० परिभाषेन्दुशेखरः [ ३ प्रकरणे-
परास्ताः, अनित्यत्वे भाष्यसम्मतफलाभावात् । अत एव 'अकर्तरि चे'ति
सूत्रे कारकग्रहणं भाष्ये प्रत्याख्यातमिति बोध्यम् । स्पष्टा चेयं 'भृशादिभ्य'
इति सूत्रे भाष्ये ।
अत्र 'अन्यसदृशे'त्युक्त्या सादृश्यस्य भेदाघटितत्वं सूचयति । निरू-
पितं चैतन्मञ्जूषायाम् ॥ ७५ ॥
ननु 'व्याघ्री, कच्छपी'त्यादौ सुबन्तेन समासात् ततोऽप्यन्तरङ्गत्वाट्
टाप्यदन्तत्वाभावाज्जातिलक्षणो ङीष् न स्यादत आह—
अनित्यत्वे फलम् 'असूर्यंपश्यानि मुखानी'त्यादि सम्भवत्येवेत्यत आह—भाष्येति । शब्द-
शक्तिस्वभावात्तादृशस्थले सादृश्याप्रतीतिर्लोके प्रसिद्धा, न तु तत्र ज्ञापकापेक्षेति
भावः । अत एवेति । अनित्यत्वस्य भाष्यानभिमतत्वादेवेत्यर्थः ।
सूचयतीति । तथा च भेद-सादृश्ययोः पार्थक्येन नञर्थत्वं पूर्वोक्तं स्वरसत
उपपद्यत इति भावः ॥ ७५ ॥
ननु व्याघ्रीति । ननु 'उपसञ्जनिष्यमाण'न्यायेनैव सिद्धे इदमवतरणदान-
मयुक्तम् । वस्तुतस्तु 'साङ्कुटिनमि'त्यत्र संशब्देन समासात्पूर्वं स्वार्थेऽणि 'सङ्कौटन-
मि'ति स्यात् , एवं 'माषवापिणी'त्यत्र माषशब्देन समासात्पूर्वं ङीपि उत्तरपदप्राति-
पदिकान्तनकाराभावाद् 'गर्गभगिनी'त्यत्रेव णत्वानापत्तिरत आहेत्यवतरणं दातुं
युक्तमिति—राघवेन्द्राचार्याः । तन्न मनोरमम् ; उक्तन्यायेन हि भविष्यदपवाद-
विषयातिरिक्तत्वेन सङ्कोचात् केवलाद् घ्रादिशब्दाट्टाबापत्तेर्दुर्वारत्वात् । न च तेन
न्यायेन भविष्यदपवादविषयघटकातिरिक्तत्वेन सङ्कोच आवश्यकः, अत एव
'क्रीतात्करणपूर्वादि'ति चरितार्थम् , अन्यथा क्रीतशब्दस्य भविष्यदपवादविषयाश्व-
मूले—निरूपितं चैतन्मञ्जूषायामिति । तत्र हि सादृशादिपदशक्यतावच्छेदकतया
सदृशदर्शने संस्कारोद्बोधकत्वस्य सर्वसम्मततया तत्कारणतावच्छेदकतया च सादृश्यमतिरिक्तो-
ऽखण्डपदार्थश्च साधितः ॥ ७५ ॥
मूले—ततोऽपीति । सुपोऽपीति तदर्थः । मूले—अन्तरङ्गत्वादिति । स्वार्थादि-
प्रयुक्तकार्याणां क्रमिकत्वस्वीकारादिति भावः ।
समासात्पूर्वमिति । समासस्य सुबपेक्षत्वेन बहिरङ्गत्वादिति भावः । तद्धितस्य
स्वार्थिकत्वेन सुबन्तात् तद्धितोत्पत्तिरित्येतद्बीजस्य स्वार्थे परिपूर्णमिति न्यायस्य तद्विषयेऽप्रवृत्ते-
रिति भावः ।
दुर्वारत्वादिति । नन्वेवं 'स्वाङ्गाच्चोपसर्जनात्' इति सूत्र-भाष्यविरोधः ; तत्र हि भाष्ये
“स्वाङ्गात् किम् ? अशिखा "इत्युक्तम् । तत्र भवद्रीत्या 'अशिखे'त्यस्य अपवादविषयत्वेऽपि
तदेकदेशस्य 'शिखे'त्यस्य अपवादविषयातिरिक्तादन्तप्रातिपदिकत्वेन अन्तरङ्गत्वात् आपि तत्सिद्धौ
भाष्यासङ्गतिः स्पष्टैव इति चेन्न । 'शिखे'त्यस्यैव प्रत्युदाहरणत्वेन भाष्यतात्पर्यात् । स्पष्टञ्चेदं
शेखरे उद्योते च ।
७६ प० विचारः ] तत्त्वप्रकाशिकासमलङ्कृत-भूतिभूषितः २७१
गतिकारकोपपदानां कृद्भिः सह समासवचनं प्राक् सुबुत्पत्तेः ॥ ७६ ॥
—: ❀ :—
‘उपपदम’ति सूत्रेऽतिङ्ग्रहणेन ‘कुगती’त्यत्र तदपकर्षणेनातिङन्तश्च
समास इत्यर्थस्तयोः सूत्रयोः ‘सुप्सुपे’त्यस्य निवृत्त्यैकदेशानुमत्या कारकांशे
च सिद्धेयम्, तेन ‘अश्वक्रीती’ति सिद्धा ; अन्यथा पूर्वं टाप्यदन्तत्वाभावात्
‘क्रीतात्करणपूर्वादि’ति ङीष् न स्यात् ।
अस्या अनित्यत्वात् क्वचित् सुबुत्पत्त्यनन्तरमपि समासः । यथा सा
क्रीतातिरिक्तत्वेन तेन टाब्विधायकशास्त्रे सङ्कोचेऽपि टापो दुर्वारत्वापत्तिः, मम
तु क्रीतशब्दस्य भविष्यदपवादविषयघटकत्वेनानेन न्यायेन टाब्बाधसिद्धिरिति
वाच्यम् ; तथा सति ‘अजाक्रीती’त्यादौ अजशब्दस्य भविष्यदपवादविषयघटकत्वेन
टाबनापत्तेः । न च अनेन न्यायेन भविष्यदपवादविषयान्तातिरिक्तत्वेन सङ्कोचान्न
‘अजाक्रीती’त्यादौ दोषो वाच्यम् ; ‘घन इव कपिला घनकपिले’त्यादौ ‘अन्यतो
ङीषि’ति ङीषापत्तेः । कपिलशब्दस्य ‘तत्पुरुषे तुल्यार्थे’ति पूर्वपदप्रकृतिस्वरेणानुदात्ता-
न्तत्वेन भविष्यदपवादविषयान्तत्वात् । सिद्धान्ते भविष्यदपवादविषयातिरिक्तत्वेन
सङ्कोचे तु ‘घनकपिले’त्यस्य भविष्यदपवादविषयत्वेऽपि कपिलशब्दस्य तदभावेन टाप्
सिद्ध्यति । ‘अन्तरङ्गानपि विधीन् बहिरङ्गो लुग्बाधते’ इति परिभाषया टापेक्षया
लुक्प्रयोजक समासस्य प्राबल्यं तु नेति ‘अकृतव्यूह’परिभाषान्ते प्राक् प्रदर्शितमेव ।
सुबुत्पत्तेरिति । सुप्पदं प्रत्ययमात्रोपलक्षणम् । अत एव साङ्कूटिनसिद्धिः ।
सुप्सुपेत्यस्य निवृत्त्येति । अत्र च तृतीयान्तस्य निवृत्तिर्न तु प्रथमान्तस्य ।
एकदेशानुमत्येति । कारकांशे ‘स्थालीपुलाक’न्यायेनेयं सिद्धेति भावः ।
वस्तुतस्तु—कारकांशे ज्ञापकं क्रीतात्करणपूर्वादिति बोध्यम् ; तदेवानुवदति—
अन्यथेति । एतस्या अभाव इत्यर्थः । ङीष् न स्यादिति । तथा च सूत्रं व्यर्थं स्यादित्यत्र
शेषो बोध्यः ।
अनित्यत्वादिति । एतच्च ‘कर्तृकरणे कृता बहुलम्’ति सूत्रस्थाद् बहुलग्रहण-
ल्लभ्यत इति ‘उपपदमतिङि’ति सूत्रे कैयटः ।
प्रत्ययमात्रेति । तेन तद्धिताट्टापश्च प्राग् समास एव । साङ्कूटिनसिद्धिरिति ।
अन्यथा समास-तद्धितयोर्युगपत्प्राप्तौ पूर्वं तद्धित एव स्यात्, कूटन्मात्रापेक्षत्वेन अन्तरङ्गत्वात् ।
न च ‘कृद्ग्रहणे०’ इति परिभाषया समुदायापेक्षत्वमेव तस्येति वाच्यम् ; तस्यामवस्थायां समु-
दायस्य अप्रातिपदिकत्वात् ।
२७२ परिभाषेन्दुशेखरः [ ३ प्रकरणे-
हि तस्य धनक्रीतेति ।
अन्ये तु अनित्यत्वे न मानम्, तत्राजादित्वाट् टाबित्याहुः ।
अत एव 'कुम्भकार' इत्यादौ षष्ठीसमासोऽपि सुबुत्पत्तेः पूर्वमेव ।
षष्ठीसमासाभावे चोपपदसमासकृत एकार्थीभाव इति न तत्र वाक्यमिति
भाष्ये स्पष्टम् । तत्र हि 'षष्ठीसमासादुपपदसमासो विप्रतिषेधेने'ति वार्ति-
कम् । 'अथवा विभाषा षष्ठीसमासो यदा न षष्ठीसमासतदा उपपदसमास'
इति तत्प्रत्याख्यानञ्च ।
केचित्तु - 'अम्बाऽम्बे'त्यनेन इणन्तात् परस्य षत्वविधानमत्र मानम् ; अन्यथा
'गोष्ठे'त्यत्र सुबुत्पत्तेः पूर्वं समासे पदत्वाभावेन 'सात्पदाद्योः'ति षत्वनिषेधाप्राप्त्या
तद्वैयर्थ्यं स्पष्टमेवेत्याहुः । तन्न ; 'दधिसेचवि'त्यत्र सुबुत्पत्तेः पूर्वं समासे षत्वनिषेधा-
प्राप्त्या सिद्धान्तेऽपि 'पदादादिरि'ति पञ्चमीसमासस्याऽऽवश्यकत्वेन 'गोष्ठ' इत्यत्र षत्व-
निषेधप्राप्त्या अम्बाऽम्बगोभूमिसव्यापद्वित्रीणन्तात् षत्वविधानस्याऽऽवश्यकत्वात् ; तदाह-
न मानमिति । फलाभावमप्याह - तत्रेति । 'गोष्ठे'त्यत्र तु 'न पदान्ते'त्यत्र पदपदस्य
पदत्वयोग्यपरत्वेन स्थानिवत्त्वनिषेधसिद्धिरिति तत्रैव शेखरे स्पष्टम् ।
अत एवेति । परिभाषास्वीकारादेवेत्यर्थः । षष्ठीसमासोऽपीति । परिभाषायां
सामान्यतः कारकोपादानेनास्यापि तत्त्वादिति भावः । अत्र प्रमाणं दर्शयति - षष्ठीत्यादि ।
'यदि सुबन्ते। षष्ठीसमासतदा उपपदसमास एवान्तरङ्गत्वान् भविष्यति" भाष्यविरोध ,
स्पष्ट एव ।
एवं 'व्याघ्री'त्यत्र समासात्पूर्व टाबपि न । न च प्रकृतपरिभाषया पूर्वं समासे ततः
समुदायघटक-घ्राशब्दात् अन्तरङ्गत्वान् टाब् स्यादिति वाच्यम् ; वृत्तिघटकपर्याप्तस्त्रीत्वमादाय
स्त्रीप्रत्ययो न भवतीत्यभ्युपगमेन अदोषान् । अत एव 'कुककुटादीनामण्डादिषु इति वार्तिक-
प्रत्याख्यानपरम्, अनुपसर्जनाधिकारसामर्थ्यात् स्त्रीप्रत्यये तदन्तविधिज्ञापकपरञ्च भाष्यं सङ्गच्छते ।
लिङ्गसामान्ये नपुंसकत्वविवक्षां कृत्वा 'कुक्कुटस्य अण्डम्' इति समासे कृते 'कुक्कुटाण्डम्' इत्यादि-
रूपसिद्धौ निर्बाधायां वार्तिकं न कर्तव्यमिति भाष्ये प्रत्याख्यातम् । भवन्मते समासोत्तरमपि तदेकदेशे
कुक्कुटशब्दे स्त्रीत्वविवक्षायां सत्यां प्रत्याख्यानकल्पे स्त्रीप्रत्ययः स्यात्, आरम्भकल्पे पुंवद्भाव-
विधानेन न तस्य श्रवणमिति फलभेदः । एवमेव 'उत्से भवमिति औत्सम्, तदन्तान्तः अत्यौत्सः'
इत्यत्र समासवृत्तिघटकपर्याप्तस्त्रीत्वविवक्षया प्राप्तस्य 'टिड्ढाणञ्०' इत्यादिना ङीपो वारणाय
'अनुपसर्जनादि'त्यस्य चारितार्थ्यसम्भवे तदन्तविधिज्ञापनपरं भाष्यमसङ्गतमेव स्यात् ।
अत्र केचित्- 'सुप्'पदं न प्रत्ययमात्रोपलक्षकम्, ज्ञापकात्तदलाभात्, फलाभावात्, राम-
शब्दप्रकरण-शब्देन्दुशेखरग्रन्थविरोधाच्च । 'विआ'रूपगतिसंज्ञकसमभिव्याहारेणैव घ्राशब्दस्य अर्थ-
वत्त्वेन टापोऽपि समुदायापेक्षत्वेन स्त्रीत्वस्य अधिकस्य अपेक्षत्वेन च बहिरङ्गतया समासस्य टापः
पूर्वं प्रवृत्तेः सिद्धत्वात् । एवं 'साङ्कतिनम' इत्यत्र इणुगन्तत्वरूपाधिकसापेक्षत्वेन समासापेक्षया