सामग्री पर जाएँ
सर्वकोश
परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)

परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)

Paribhashendushekhara of Nagesha Bhatta with Commentary

महामहोपाध्याय नागेश भट्ट (सम्पादक: पं. विश्वनाथ मिश्र) द्वारा

DevanagariHindipublished373 पृष्ठ

पृष्ठ 76, कुल 373 में से

संदर्भ में पढ़ें
पृष्ठ 76

४६ परिभाषेन्दुशेखरः [ १ प्रकरणे-
केचित्तु—आगमसमभिव्याहारे इत्याद्यंशोऽपि 'यदागम'परिभाषासाध्य एवेति
मत्वाऽवतरणदानकाले तज्ज्ञानेन पुग्रहितस्य 'दा' इत्यस्याप्यर्थवत्त्वेन घुत्वं स्यादित्य-
वतरणासङ्गतौ 'यदागम'परिभाषाया अंशद्वयं प्रकल्प्य, आगमसमभिव्याहारे इत्येकमंशं
बुद्ध्वा वक्ष्यमाणार्थस्य द्वितीयांशस्येदमवतरणमिति वदन्ति। तन्मृधैव; उक्तपरिभाषाया
स्वरसतस्तादृशार्थाप्रतीतेरंशद्वय कल्पने मानाभावात्, फलाभावाच्च।
यत्तु—समुदायस्य प्रत्येकानतिरिक्ततया दाब्बृत्यर्थवत्त्वस्य दाशब्देऽपि सत्त्वात्
तस्य घुसंज्ञायामिष्टसिद्धौ अवतरणासङ्गतिः। न चार्थविषयकबोधजनकत्वप्रकारक-
तात्पर्यरूपविशेष्यत्वरूपार्थवत्त्वस्य दावर्त्तिनो दाशब्दे कल्पनेऽपि प्रकृते तादृशविशेष्यत्व-
प्रतियोगिकपर्याप्त्यनुयोग