परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)
Paribhashendushekhara of Nagesha Bhatta with Commentary
महामहोपाध्याय नागेश भट्ट (सम्पादक: पं. विश्वनाथ मिश्र) द्वारा
पृष्ठ 74, कुल 373 में से
संदर्भ में पढ़ेंननु 'प्रणिदापयती'त्यादौ दारूपस्य विधीयमाना घुसंज्ञा दापेर्न
ष्यन्तश्चार्थवद्घटितो नेति न दोषः । 'अध्येते'त्यादाविकारादेर्गुणं प्रति समवायि-
कारणत्वकथनमध्ययुक्तमेव, घटादिकार्यसत्तादशायां कपालादेः समवायिकारणस्येव
गुणादिकार्यसत्तादशायामिकारादेर्वर्तमानत्वस्याभावेन तत्त्वासम्भवात् । समवायि-
कारणनाशस्य कार्यनाशव्याप्यतया इकारादिस्थानिनाशे गुणाद्यादेशानां नाशप्रसङ्गा-
च्चेति वदन्ति ॥ १० ॥
दापेर्न स्यादिति । घुसंज्ञासूत्रे विशिष्टरूपोपादानेन 'अर्थवद्ग्रहणे'परिभाषया
अर्थवद्ग्राह्यस्य ग्रहणेन आगमसभिव्याहारे तद्विशिष्टस्यैवार्थवत्त्वाद् पुग्रहितस्य
'दा' इत्यस्यानर्थकत्वाद् दापश्चोक्तदात्वाभावादिति भावः । अत एव 'स्यसिच्चीयुडि'-
त्यत्र 'भावकर्मवाचिनि परतो ये स्यादय' इत्यर्थस्वीकारे 'सीयुडविशेषितः स्यादि'ति
भाष्योक्तं सङ्गच्छते ; अन्यथा सीयुट्समभिव्याहारेऽपि तद्रहितस्य भावकर्मवाच-
कत्वाक्षतेः 'सीयुडविशेषित' इत्युक्तिरसङ्गतैव स्यात् । अत एव च निपातेन उशब्देन
नञ्समासे 'अनु + अत्रे'ति स्थिते नुड्रहितस्य 'उ'इत्यस्यानर्थकत्वेन 'निपात एकाज्'ति
प्रगृह्यत्वाप्राप्त्या 'अन्वत्रे'त्यत्र यण्, 'रामाणामि'त्यत्र नुट्समभिव्याहारे आमोऽनर्थक-
तया पूर्वनान्तस्य भत्वाभावेन 'अल्लोपोऽन' इति लोपाभावश्च सिद्ध्यति । न चैवं 'भिन्द्युः'
तत्त्वासम्भवादिति । शब्दानां नित्यत्वात् विभुत्वाच्चेत्यपि बोध्यम् । मूलन्तु शब्दानां
कार्यकारणभावारोपाभिप्रायेण बोध्यम् ॥ १० ॥
'शयिता' इत्यादौ इड्विशिष्टस्यार्धधातुकत्वाभावात् कथं गुणप्रवृत्तिरित्यवसरसङ्गत्याऽऽह
मूले-नन्विति । भाष्ये प्रकृतपरिभाषाया इदमेव प्रयोजनमुक्तमतस्तदेवोच्यते, न तु शयिते-'
त्यादिरिति ।
असङ्गतैव स्यादिति । न चोक्तभाष्येण अवयविनिरूपितमवयवे पौर्वापर्यं नेत्येतावत
एव बोधनेन नासङ्गतिरिति वाच्यम् ; मुख्यावयव एव अवयविनिरूपितपौर्वापर्यव्यवहाराभावस्य
लोके दृष्टत्वेन आरोपिततदवयववति तथावक्तुमशक्यत्वात् । अन्यथा 'ऐत्, नद्यै' इत्यादि-
वृद्धेरनुपपत्तेः ।
अन्वत्रेत्यत्र यणिति । न चोभयोर्द्योतकयोः परस्परमसामर्थ्यात् समासानापत्तिरिति
वाच्यम् ; निपातानां यथाकार्यं द्योतकत्वं वाचकत्वं वा उभयमप्यस्तीति अभियुक्तैरङ्गीकारेणात्र
समासानुरोधेन वाचकत्वस्वीकारात् । न च निपातयोः समासः क्वापि दृष्ट इति तु न ; 'ऐतिह्यम्'
इत्यत्र 'इति-ह' इत्यनयोः समासस्य दृष्टत्वात् । लोपाभावश्च सिद्ध्यतीति । न च 'सन्निपात'-
परिभाषया ह्रस्वत्वमुपजीव्य जायमानो नुट् ह्रस्वविघातको न भविष्यतीति वाच्यम् ; 'नामि'
इति दीर्घारम्भसामर्थ्यात् नुड्विधायके माधवमते 'सन्निपात'परिभाषाप्रयुक्तसङ्कोचाभावस्य
कल्पनेनादोषादिति भावः । माधवमतञ्च 'सन्निपात'परिभाषायां स्फुटीभविष्यति ।
वस्तुतस्तु- 'बहुकुमारीकः' इत्यत्र ह्रस्वाभाव एव तत्फलं बोध्यम् ; 'न कपि' इति निषेधस्तु
'अनन्तरस्ये'ति न्यायेन 'केऽण' इत्यस्यैव । अत एव 'प्रियं ग्रामणिकुलमस्य इति प्रियग्राम-