परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)
Paribhashendushekhara of Nagesha Bhatta with Commentary
महामहोपाध्याय नागेश भट्ट (सम्पादक: पं. विश्वनाथ मिश्र) द्वारा
पृष्ठ 40, कुल 373 में से
संदर्भ में पढ़ें१० परिभाषेन्दुशेखरः [ १ प्रकरणे-
परिभाषार्थेन च सर्वत्र शास्त्रे व्यवहारः । देशश्चोच्चारणकाल एवात्र शास्त्रे
व्यवह्रियते । तत्तद्वाक्यार्थबोधे जाते 'भविष्यति किञ्चिदनेन प्रयोजनम्'ति
ज्ञानमात्रेण सन्तुष्ययथाश्रुतग्राहिप्रतिपत्त्रपेक्षोऽयं पक्ष इतीदूतसूत्रे कैयटः ।
केचित्तु परिभाषाविषये तस्मिन्नित्यादिवाक्यार्थबोधे सप्तमीनिर्देशादि क्वेति
पर्यालोचनायां सकलतत्तद्विध्युपस्थितौ सकलतत्तत्संस्काराय गुणभेदं परि-
कल्प्यैकवाक्यतयैव नियमः । कार्यकालपक्षे तु त्रिपाद्यामप्युपस्थितिरिति
पयिकसंस्कारे जननीये अपेक्षाधियोऽपि सहकारितया यस्य श्रोतुः यत्संज्ञाशास्त्रजनित-
बोधविषये उपेक्षाबुद्धिर्जाता, तत्पारिभाषिकपदस्य तदर्थानुभावकतायास्तत्तद्विधि-
प्रदेशेऽप्रसक्त्या पुनस्तत्र संज्ञाशास्त्रजन्यबोधस्याऽऽवश्यकत्वात् । एवञ्चापेक्षाधीसह-
कृते तत्तद्वाक्यार्थबोधे सति दृढतरसंस्कारस्य जननात् वारंवारं तत्तद्बोधस्यानपेक्षिक-
तत्वेन अपेक्षाधिय एव यथोद्देशपक्ष-बीजता; उपेक्षाधियश्च कार्यकालपक्ष-बीजता
पर्यवस्यति ।
स्वमतमाह-केचित्त्विति । सकलतत्तदिति । यत्संस्कार उद्बुद्धस्तत्सकलेत्यर्थः, तद्विषय
एव च यथोद्देशपक्ष इति भावः । गुणभेदम् = गुणशास्त्रविधेयभेदम् । एकवाक्यतयैवेति ।
पदैकवाक्यतयेति भावः । एकवाक्यता च त्रिधा-पदैकवाक्यता, अर्थैकवाक्यता,
वाक्यैकवाक्यता चेति । तस्मिन्निति शास्त्रस्य पदोपस्थापकत्वपक्षे 'इको यणची'त्यादि-
सप्तम्यन्तपदघटितशास्त्रैः सह स्वघटकपदप्रयोज्यविषयता-निरूपितविषयताप्रयोजक-
पदघटितत्वरूपा आद्या ; तस्यार्थोपस्थापकत्वपक्षे विधिशास्त्रीय-'अची'त्यादिसप्तम्यन्त-
पदानां लक्षणया अजव्यवहितपूर्वत्वाद्यर्थतात्पर्यकत्वरूपे च स्वोपस्थाप्यार्थनिष्ठ-
विषयता-निरूपितविषयताप्रयोजकपदघटितत्वरूपा द्वितीया ; उपजीव्योपजीवक-
भावापन्नबोधप्रयोजकत्वरूपा तृतीया ; यथा 'क्ङिति चे'त्यादिनिषेधशास्त्राणां
संस्कारे जननीये इति । स्मरणं प्रत्यनुभवस्य कारणत्वोपपत्तये मध्ये संस्काराख्यो
व्यापारः आत्मन्यङ्गीक्रियते, तस्य संस्कारस्यात्मनि सर्वदा सत्त्वात् सर्वदा स्मरणवारणाय, उद्बुद्ध-
संस्कारस्यैव स्मरणं प्रति कारणत्वमङ्गीक्रियते; उद्बोधकैकसम्बन्धिज्ञानादिसत्त्वेऽपि कुत्रचित्
स्मरणादर्शनात् दृढतरस्यैव संस्कारस्य कारणत्वमङ्गीक्रियते ; संस्कारदार्ढ्यं प्रति चापेक्षाबुद्धेः
कारणत्वम्, उपेक्षाबुद्धौ च न दृढतरसंस्कार उत्पद्यते । एवञ्चोपेक्षाबुद्धौ नैष्फल्यज्ञानं कारणम्,
अपेक्षाबुद्धौ च साफल्यज्ञानमिति बोध्यम् । तथा च 'आदेचो वृद्धिपदवाच्याः' इति शक्तिग्रहे जाते
साध्वनुशासनेऽस्मिन् शास्त्रे सङ्केतग्रहस्यानुपयोगात् 'इदं शास्त्रमनर्थकम्' इत्याऽऽनर्थक्यज्ञानेन
उपेक्षाबुद्धिश्चेत् कार्यकालपक्षः ।
यद्यपीदानीं फलं न दृश्यते, तथापि 'इदं शास्त्रमाप्तमहर्षिणा प्रणीतमतोऽनर्थकं न भवति,
किन्तु भविष्यति किञ्चिदनेन प्रयोजनम्' इति सार्थक्यबुद्ध्याऽपेक्षाबुद्धिश्चेत् यथोद्देशपक्षः, इत्ये-
तदाशयेनाह-अपेक्षाधिय एवेत्यादिः ।